संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच - श्रुतं व...

षट्कर्मणां कवचं - श्रीदेव्युवाच - श्रुतं व...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच - श्रुतं वटुकमाहात्म्यं पूर्णविस्मयकारकम् । इदानीं श्रोतुमिच्छामि कवचं वै षट्कर्मणाम् ॥१॥
श्री ईश्वर उवाच - श‍ृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि । श्रवणात् पठनाद्वापि शत्रुनाशाय तत्क्षणात् ॥२॥
श्रीदेव्युवाच - त्रैलोक्यमोहनार्थं तु कवचं मे प्रकाशय । त्रैलोक्यशत्रु संहन्तु नाशितं यत्क्षमं भवेत् ॥३॥
एवमुक्तो महादेवः क्रुद्धो भूत्वा जगत्पतिः । देवीं प्रबोधयामास वाक्येनामृतवर्षिणा ॥४॥
श्रीमहादेव उवाच - परानिष्टे महादेवि कुतस्ते जायते मतिः ॥५॥
श्रीदेव्युवाच - जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् । ये यथा मां प्रपद्यन्ते श्रुतिरस्ति पुरातनी ॥६॥
यदि ते वर्तते देव दया हि कथ्यतां मयि । शत्रूणां प्राणनाशार्थभुच्चाटनवशीकृतौ ॥७॥
तेषां हि बलनाशार्थं सर्वदा प्रयता नराः ॥८॥
ईश्वर उवाच - श‍ृणु देवि महाभागे कालाग्निप्राणवल्लभे । यस्य धारणमात्रेण शत्रूणां नाशनं भवेत् ॥९॥
धृत्वा तु पादमूलेन स्पृष्ट्वा दास इवाकरोत् । शरणागतमात्रन्तु नाशितुं नैव शक्यते ॥१०॥
श‍ृणु देवि महाभागे सावधानावधारय । शत्रूणां प्राणनाशार्थं कुपितः काल एव सः ॥११॥
दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा । कोटिसूर्यप्रभा काली मम शत्रून् विनाशय । नाशयित्वा क्षणं देवि अन्यशत्रून् विनाशय ॥१२॥
क्रीं क्रीं क्रीं उग्रप्रभे विकटदंष्ट्रे परपक्षं मोहय मोहय पच पच मथ मथ दह दह हन हन मारय मारय ये मां हिंसितुमुद्यता योगिनीचक्रैस्तान् वारय वारय छिन्धि छिन्धि भिन्धि भिन्धि करालिनि गृह्णगृह्ण ओं क्रीं क्रीं क्रीं क्रीं स्फूर स्फूर पूर पूर पून पून चूल्व चूल्व धक धक धम धम मारय मारय सर्वजगद्वशमानय ॐ नमः स्वाहा । इति ते कवचं देवि भद्रकाल्या प्रचोदितम् । भूर्जे विलिखितञ्चैतत् स्वर्णस्थं धारयेद्यदि ॥१३॥
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि । त्रैलोक्यं मोहयेत्क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् ॥१४॥
पुत्रवान्धनवान्धीमान् नानाविद्यानिधिर्भवेत् । ब्रह्माखादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥१५॥
शत्रवो नाशमायान्ति रजतेन प्रघारितम् । मासमात्रेण शत्रूणां महविपदकारणम् ॥१६॥
यं यं शत्रुं स्मरन्मर्त्यः कवचं पठति ध्रुवम् । तं तं नाशयते सद्यस्तथ्यं ते तद्वदाम्यहम् ॥१७॥
धारणे भजते शत्रुः कण्ठशोचं सदा भवेत् । हत्कम्पो जायते तावद्यावत्तस्य कृपा न चेत् ॥१८॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे षट्कर्मणां कवचं समाप्तम् । चतुर्दशः पटलः

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP