संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीभगवानुवाच- अस्य मन्त...

श्रीमहाविद्या वैष्णवी कवचस्तोत्रम् - श्रीभगवानुवाच- अस्य मन्त...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीभगवानुवाच- अस्य मन्त्रस्य कवचं श‍ृणु वेतालभैरव । वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः ॥१॥
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् । वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥२॥
चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः । शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥३॥
यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वती । योगिनी पूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥४॥
द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता । चण्डघण्टा तृतीयस्य कूष्माण्डा तत्परस्य च ॥५॥
स्कन्दमाता तकारस्य पस्य कात्यायनी स्वयम् । कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥६॥
प्रथमं वर्णकवचं योगिनीकवचं तथा । देवौघकवचं पश्चाद्देवीदिक्कवचं तथा ॥७॥
ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च । कवचं तु ततः पश्चात् षड्वर्णकवचं तथा ॥८॥
अभेद्यकवचं चेति सर्वत्राणपरायणम् । इमानि कवचान्यष्टौ यो जानाति नरोत्तमः । सोऽहमेव महादेवो देवीरूपश्च शक्तिमान् ॥९॥
ॐ अस्य श्रीवैष्णवीकवचस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुप् छन्दः । श्रीमहाविद्या वैष्णवीकात्यायनी देवता । सर्वार्थसाधने जपे विनियोगः ॥
अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा । पातु चो यमकाष्ठायाण्टो नैरृत्यां च सर्वदा ॥१०॥
मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता । मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः । मां वामबाहौ च पातु हृदि तो मां सदावतु ॥११॥
तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु । यः पातु दक्षिणे पादे शो मां वामपदे तथा ॥१२॥
शैलपुत्री तु पूर्वस्यांआग्नेय्यां पातु चण्डिका । चण्डाघण्टा पातु याम्यां यमभीतिविमर्दिनी ॥१३॥
नैरृत्ये त्वथ कूष्माण्डा पातु मां जगतां प्रसूः । स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि ॥१४॥
कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा । कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् ॥१५॥
महागौरी तथेशान्यां सततं पातु पावनी । नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः ॥१६॥
ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः । नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः ॥१७॥
गजवक्त्रः स्तन्ययुग्मे पातु नित्यं हरात्मजः । वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः ॥१८॥
महामाया स्वयं नाभौ मां पातु परमेश्वरी । महालक्ष्मीः पातु गुह्ये जानुनी तु सरस्वती ॥१९॥
महामाया पूर्वभागे नित्यं रक्षतु मांशुभा । अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासनी ॥२०॥
रुद्राणी पातु मां याम्यां नैरृत्यां चण्डनायिका । उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी ॥२१॥
प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी । ईश्वरी च तथैशान्यां पातु नित्यं सनातनी ॥२२॥
ऊर्ध्वे पातु महामाया पात्वधः परमेश्वरी । अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा ॥२३॥
ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना । कौमारी पर्वते पातु वाराही सलिले च माम् ॥२४॥
नारसिंही दंष्ट्रिभये पातु मां विपिनेषु च । ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥२५॥
सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः । देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥२६॥
हा पातु मां तथैर्वोर्वोर्माया रक्षतु जङ्घयोः । सर्वेन्द्रियाणि मे पातु रोमकूपेषु सर्वदा ॥२७॥
त्वचि मां वै सदा पातु मांशम्भुः पातु सर्वदा । नखदन्तकरोष्ठादौ यो मां पातु सदैव हि ॥२८॥
देवादिः पातु मां हस्तौ देवान्तः स्तनकक्षयोः । एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥२९॥
आज्ञाचक्रे सुषुम्नायांषट्चक्रे हृदिसन्धिषु । आदिषोडशचक्रे च ललाटाकाश एव च ॥३०॥
वैष्णवीतन्त्रमन्त्रश्च मां नित्यं रक्षतात्सदा । कर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥३१॥
रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु । द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥३२॥
रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः । षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥३३॥
नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी । सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥३४॥
श्रोत्रयोर्हुं फडित्येवं नित्यं रक्षतु कालिका । नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॥३५॥
ॐ ऐं ह्रीं ह्रौं नासिकायां रक्षन्ती चास्तु चण्डिका । ॐ ह्रीं ह्रूं मां सदा तारा जिह्वमूले तु तिष्ठतु ॥३६॥
हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् । ॐ क्षौं फट् च महामारी पातु मां सर्वतः सदा ॥३७॥
ॐ जूं सः कौशिकी मां प्राणन् रक्षतु रक्षिता । ॐ ह्रीं ह्रूं मां भर्गदयिता देहशून्येषु पातु माम् ॥३८॥
ॐ मः सदाशैलपुत्री सर्वानोग्रान् प्रमृज्यताम् । ॐ ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥३९॥
शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु । ॐ ह्रां ह्रीं सः चण्डघण्टा कर्णछिद्रेषु पातु माम् ॥४०॥
ॐ ह्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु । ॐ आं हूं फट् उग्रचण्डा रिपून् विघ्नान् विमर्दताम् ॥४१॥
ॐ आं लां पातु मां नित्यं वैष्णवी जगदीश्वरी । ॐ कं ब्रह्माणी पातु चक्रात् ॐ चं रुद्राणी तु शक्तितः ॥४२॥
ॐ टं कौमारी पातु वज्रात् ॐ तं वाराही तु काण्डतः । ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥४३॥
शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः । चण्डिका मां सदा पातु ॐ यं सं देव्यै नमो नमः ॥४४॥
विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः । ॐ नमो महामायायै ॐ वैष्णव्यै नमो नमः । रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरी ॥४५॥
आधारे वायुमार्गे हृदि कमलदले चन्द्रवत्स्मेरसूर्ये हस्तौ वह्नौ समिद्धे विशतु वरदयामन्त्रमष्टाक्षरं तत् । यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं तन्मां पातु प्रधानं निखिलमतिशयम्प्रद्मगर्भाभबीजम् ॥४६॥
आद्याः शेषाः स्वरौघैर्नमयबलवरैरस्वरेणापि युक्तैः सानुस्वारा विसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् । मन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे तन्मां पायात्पवित्रं परमवरमजम्भूतलव्योमभागे ॥४७॥
अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव । अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्टाङ्गयोगा मय्यष्टावक्षराणि क्षरतु सहिगणो यद्धृदोयस्त्वमूषाम् ॥४८॥
फलश्रुतिः - इति तत्कवचं प्रोक्तं धर्मकामार्थसाधकम् । इदं रहस्यं परममिदं सर्वार्थसाधकम् ॥४९॥
यः सकृच्छृणुयादेतत्कवचं यन्मयोदितम् । स सर्वान् लभते कामान् परत्र शिवरूपताम् ॥५०॥
सकृद्यस्तु पठेदेतत् कवचं यन्मयोदितम् । स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥५१॥
सङ्ग्रामेषु जयेच्छत्रून् मतङ्गानिव केसरी । दहेत्तृणं यथा वह्निस्तथाशत्रून् दहेत्सदा ॥५२॥
नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै । न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥५३॥
गुटिकाञ्जनपातालपादलेपरसाञ्जनम् । उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥५४॥
वायोरिव गतिस्तस्य भवेदन्यैरवारिता । दीर्घायुः कामभोगी च धनवानभिजायते ॥५५॥
अष्टम्यां संयुतो भूत्वा नवम्यां विधिवच्छिवाम् । पूजयित्वा विधानेन विचिन्त्य मनसाशिवाम् ॥५६॥
यो न्यसेत् कवचं देहे तस्य पुण्यफलंश‍ृणु । जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥५७॥
धनरत्नौघसम्पूर्णो विद्यावान् स च जायते । नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥५८॥
न शोषयति तं वायुः क्रव्यात्तन्न हिनस्ति च । शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥५९॥
न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः । वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥६०॥
सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः । नित्यं पठति यो भक्त्या कवचं हरनिर्मितम् ॥६१॥
सोऽहमेव महादेवो महामाया च मातृका । धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥६२॥
अन्यस्य वरदः सो वै नित्यं भवति पण्डितः । कवित्वं सत्यवादित्वं सततं तस्य जायते ॥६३॥
वदेत् श्लोकसहस्राणि भवेत् श्रुतिधरस्तथा । लिखितं यस्य गेहे तु कवचं भैरवस्थितम् ॥६४॥
न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् । ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥६५॥
यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः । सेतुर्देवः शक्तिबीजं पञ्चमो हायने नमः ॥६६॥
वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् । सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥६७॥
एतद्द्वयं तु जिह्वाग्रे सततं यस्य वर्तते । तस्य देवी महामाया काये तिष्ठति वै सदा ॥६८॥
मन्त्राणां प्रणवः सेतुः तत्सेतुः प्रणवः स्मृतः । क्षरत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥६९॥
नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः । द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥७०॥
अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥७१॥
स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः । प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥७२॥
चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः । स चानुस्वारचन्द्राभ्यांशूद्राणां सेतुरुच्यते ॥७३॥
निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति । मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्ज्वनाम् ॥७४॥
तस्मात्सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः । पार्श्वयोः सेतुमादाय जपकर्म समाचरेत् ॥७५॥
शूद्राणामादिसेतुर्वा द्विः सेतुर्वा यथेच्छतः । द्विः सेतवः समाख्याताः सर्वदैव द्विजातयः ॥७६॥
और्व उवाचएतत्ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् । अभेद्यं कवचं तत्तु कवचाष्टकमुत्तमम् ॥७७॥
महामायामन्त्रकल्पं कवचं मन्त्रसंयुतम् । षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥७८॥
एत्तत्वं नृपशार्दूल नित्यं भक्तियुतः पठन् । जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥७९॥
इति श्रीमहाविद्या वैष्णवी कवचस्तोत्रं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP