संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । अस्य श्...

तुलसीकवचम् - श्रीगणेशाय नमः । अस्य श्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीतुलसी देवता । मम ईप्सितकामनासिद्ध्यर्थं जपे विनियोगः । तुलसी श्रीमहादेवि नमः पङ्कजधारिणि । शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥१॥
दृशौ मे पद्मनयना श्रीसखी श्रवणे मम । घ्राणं पातु सुगन्धा मे मुखं च सुमुखी मम ॥२॥
जिह्वां मे पातु शुभदा कण्ठं विद्यामयी मम । स्कन्धौ कह्लारिणी पातु हृदयं विष्णुवल्लभा ॥३॥
पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी । कटिं कुण्डलिनिं पातु ऊरू नारदवन्दिता ॥४॥
जननी जानुनी पातु जङ्घे सकलवन्दिता । नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी ॥५॥
सङ्कटे विषमे दुर्गे भये वादे महाहवे । नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा ॥६॥
इतीदं परमं गुह्यं तुलस्याः कवचामृतम् । मर्त्यानाममृतार्थाय भीतानामभयाय च ॥७॥
मोक्षाय च मुमुक्षूणां ध्यायिनां ध्यानयोगकृत् । वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥८॥
द्रविणाय दरिद्राणां पापिनां पापशान्तये ॥९॥
अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छिताम् । पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम् ॥१०॥
राज्याय भ्रष्टराज्यानामशान्तानां च शान्तये । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि ॥११॥
जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः । उद्यन्तं चण्डकिरणमुपस्थाय कृताञ्जलिः ॥१२॥
तुलसीकानने तिष्ठन्नासीनो वा जपेदिदम् । सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ॥१३॥
मम प्रियकरं नित्यं हरिभक्तिविवर्धनम् । या स्यान्मृतप्रजा नारी तस्या अङ्गं प्रमार्जयेत् ॥१४॥
सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् । वन्ध्याया मार्जयेदङ्गं कुशैर्मन्त्रेण साधकः ॥१५॥
साऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् । अश्वत्थे राजवश्यार्थी जपेदग्नेः सुरूपभाक् ॥१६॥
पलाशमूले विद्यार्थी तेजोऽर्थ्यभिमुखो रवेः । कन्यार्थी चण्डिकागेहे शत्रुहत्यै गृहे मम ॥१७॥
श्रीकामो विष्णुगेहे च उद्याने स्त्रीवशा भवेत् । किमत्र बहुनोक्तेन श‍ृणु सैन्येश तत्त्वतः ॥१८॥
यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् । मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥१९॥
जपन् स्तोत्रं च कवचं तुलसीगतमानसः । मण्डलात्तारकं हन्ता भविष्यसि न संशयः ॥२०॥
इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 24, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP