संस्कृत सूची|संस्कृत साहित्य|कवच|
उन्मत्तभैरव उवाच - श‍ृणु...

योगिनीनायिकाकवचम् - उन्मत्तभैरव उवाच - श‍ृणु...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

उन्मत्तभैरव उवाच - श‍ृणु कल्याणि मद्वाक्यं कवचं देवदुर्लभम् । यक्षिणीनायिकानान्तु संक्षेपात्सिद्धिदायकम् ॥१॥
ज्ञानमात्रेण देवेशि सिद्धिमाप्नोति निश्चितम् । यक्षिणी स्वयमायाति कवचज्ञानमात्रतः ॥२॥
सर्वत्र दुर्लभं देवि! डामरेषु प्रकाशितम् । पठनाद्धारणान्मर्त्यो यक्षिणी वशमानयेत् ॥३॥
कवचस्य ऋषिर्गर्गो गायत्रीच्छन्द ईरितम् । देवता यक्षिणी देवी सर्वसिद्धिप्रदायिनी ॥४॥
साक्षात्सिद्धिसमृद्ध्यर्थे विनियोगः प्रकीर्तितः । ॐ शिरो मे यक्षिणी पातु ललाटं यक्षकन्यका ॥५॥
मुखं श्रीधनदा पातु कर्णौ मे कुलनायिका । चक्षुषी वरदा पातु नासिका भक्तवत्सला ॥६॥
केशाग्रं पिङ्गला पातु धनदा श्रीमहेश्वरी । स्कन्धौ कुलालया पातु गलं मे कमलानना ॥७॥
किरातिनी सदा पातु भुजयुग्मं जटेश्वरी । विकृतास्या सदा पातु महावक्रप्रिया मम ॥८॥
अस्त्रं हस्ता पातु नित्यं पृष्ठमुदरदेशकम् । मेरुण्डा माकरी देवी हृदयं देवसम्मता ॥९॥
अलङ्कारान्विता पातु मे नितम्बस्थलं दया । धार्मिका गुह्यदेशं मे पादयुग्मं सुराङ्गना ॥१०॥
शून्यागारे सदा पातु मन्त्रमातास्वरूपिणी । निष्कलङ्का सदा पातु चाम्बुवत्यखिलां तनुम् ॥११॥
प्रान्तरे धनदा पातु निजबीजप्रकाशिनी । लक्ष्मीबीजात्मिका पातु निजबीजप्रकाशिनी ॥१२॥
लक्ष्मीबीजात्मिका पातु खड्गहस्ता श्मशानके । शून्यागारे । नदीतीरे महायक्षेशकन्यका ॥१३॥
पातु मां वरदाख्या मे सर्वाङ्गं पातु मोहिनी । महासङ्कटमध्ये तु सङ्ग्रामे रिपुसञ्चये ॥१४॥
क्रोधरूपा सदा पातु महादेवनिषेविका । सर्वत्र सर्वदा पातु भवानी कुलदायिका ॥१५॥
ॐ इत्येतकवचं देवि महामन्त्रौघविग्रहम् । अस्यापि स्मरणादेव राजत्वं लभतेऽचिरात् ॥१६॥
पञ्चवर्षसहस्राणि स्थिरो भवति भूतले । वेदज्ञानी सर्वशास्त्रवेत्ता भवति निश्चितम् ॥१७॥
अरण्ये सिद्धिमाप्नोति महाकवचपाठतः । यक्षिणी कुलविद्या च समायाति सुसिद्धिदा ॥१८॥
अणिमा लघिमा प्राप्तिः सुखसिद्धिफलं लभेत् । पठित्वा धारयित्वा च निर्जनेऽरण्यमस्तके । स्थित्वा जपेल्लक्षमन्त्रमिष्टसिद्धिं लभेन्निशि ॥१९॥
भार्या भवति सा देवी महाकवचपाठतः । योगिनां दुर्लभं देवि किमन्यत् साधनादिकम् । ग्रहणादेव सिद्धिः स्यान्नात्र कार्या विचारणा ॥२०॥
इति बृहद्भूतसन्धानडामरे महातन्त्रे योगिनीनायिकाकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP