संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । ॐ अस्य ...

सप्तमुखीहनुमत्कवचम् - श्रीगणेशाय नमः । ॐ अस्य ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । ॐ अस्य श्रीसप्तमुखीवीरहनुमत्कवचस्तोत्रमन्त्रस्य, नारदऋषिः, अनुष्टुप्छन्दः,श्रीसप्तमुखीकपिः परमात्मादेवता, ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्,मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
करन्यासः - ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः - ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुं । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् ॥
अथ ध्यानम् । वन्देवानरसिंहसर्परिपुवाराहाश्वगोमानुषैर्युक्तं सप्तमुखैः करैर्द्रुमगिरिं चक्रं गदां खेटकम् । खट्वाङ्गं हलमङ्कुशं फणिसुधाकुम्भौ शराब्जाभयान् शूलं सप्तशिखं दधानममरैः सेव्यं कपिं कामदम् ॥
ब्रह्मोवाच । सप्तशीर्ष्णः प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । जप्त्वा हनुमतो नित्यं सर्वपापैः प्रमुच्यते ॥१॥
सप्तस्वर्गपतिः पायाच्छिखां मे मारुतात्मजः । सप्तमूर्धा शिरोऽव्यान्मे सप्तार्चिर्भालदेशकम् ॥२॥
त्रिःसप्तनेत्रो नेत्रेऽव्यात्सप्तस्वरगतिः श्रुती । नासां सप्तपदार्थोऽव्यान्मुखं सप्तमुखोऽवतु ॥३॥
सप्तजिह्वस्तु रसनां रदान्सप्तहयोऽवतु । सप्तच्छन्दो हरिः पातु कण्ठं बाहू गिरिस्थितः ॥४॥
करौ चतुर्दशकरो भूधरोऽव्यान्ममाङ्गुलीः । सप्तर्षिध्यातो हृदयमुदरं कुक्षिसागरः ॥५॥
सप्तद्वीपपतिश्चित्तं सप्तव्याहृतिरूपवान् । कटिं मे सप्तसंस्थार्थदायकः सक्थिनी मम ॥६॥
सप्तग्रहस्वरूपी मे जानुनी जङ्घयोस्तथा । सप्तधान्यप्रियः पादौ सप्तपातालधारकः ॥७॥
पशून्धनं च धान्यं च लक्ष्मीं लक्ष्मीप्रदोऽवतु । दारान् पुत्रांश्च कन्याश्च कुटुम्बं विश्वपालकः ॥८॥
अनुक्तस्थानमपि मे पायाद्वायुसुतः सदा । चौरेभ्यो व्यालदंष्ट्रिभ्यः श‍ृङ्गिभ्यो भूतराक्षसात् ॥९॥
दैत्येभ्योऽप्यथ यक्षेभ्यो ब्रह्मराक्षसजाद्भयात् । दंष्ट्राकरालवदनो हनुमान् मां सदाऽवतु ॥१०॥
परशस्त्रमन्त्रतन्त्रयन्त्राग्निजलविद्युतः । रुद्रांशः शत्रुसङ्ग्रामात्सर्वावस्थासु सर्वभृत् ॥११॥
ॐ नमो भगवते सप्तवदनाय आद्यकपिमुखाय वीरहनुमते सर्वशत्रुसंहारणाय ठंठंठंठंठंठंठं ॐ नमः स्वाहा ॥१२॥
ॐ नमो भगवते सप्तवदनाय द्वीतीयनारसिंहास्याय अत्युग्रतेजोवपुषे भीषणाय भयनाशनाय हंहंहंहंहंहंहं ॐ नमः स्वाहा ॥१३॥
ॐ नमो भगवते सप्तवदनाय तृतीयगरुडवक्त्राय वज्रदंष्ट्राय महाबलाय सर्वरोगविनाशाय मंमंमंमंमंमंमं ॐ नमः स्वाहा ॥१४॥
ॐ नमो भगवते सप्तवदनाय चतुर्थक्रोडतुण्डाय सौमित्रिरक्षकाय पुत्राद्यभिवृद्धिकराय लंलंलंलंलंलंलं ॐ नमः स्वाहा ॥१५॥
ॐ नमो भगवते सप्तवदनाय पञ्चमाश्ववदनाय रुद्रमूर्तये सर्व- वशीकरणाय सर्वनिगमस्वरूपाय रुंरुंरुंरुंरुंरुंरुं ॐ नमः स्वाहा ॥१६॥
ॐ नमो भगवते सप्तवदनाय षष्ठगोमुखाय सूर्यस्वरूपाय सर्वरोगहराय मुक्तिदात्रे ॐॐॐॐॐॐॐ ॐ नमः स्वाहा ॥१७॥
ॐ नमो भगवते सप्तवदनाय सप्तममानुषमुखाय रुद्रावताराय अञ्जनासुताय सकलदिग्यशोविस्तारकाय वज्रदेहाय सुग्रीवसाह्यकराय उदधिलङ्घनाय सीताशुद्धिकराय लङ्कादहनाय अनेकराक्षसान्तकाय रामानन्ददायकाय अनेकपर्वतोत्पाटकाय सेतुबन्धकाय कपिसैन्यनायकाय रावणान्तकाय ब्रह्मचर्याश्रमिणे कौपीनब्रह्मसूत्रधारकाय रामहृदयाय सर्वदुष्टग्रहनिवारणाय शाकिनीडाकिनीवेतालब्रह्मराक्षसभैरवग्रह- यक्षग्रहपिशाचग्रहब्रह्मग्रहक्षत्रियग्रहवैश्यग्रह- शूद्रग्रहान्त्यजग्रहम्लेच्छग्रहसर्पग्रहोच्चाटकाय मम सर्व कार्यसाधकाय सर्वशत्रुसंहारकाय सिंहव्याघ्रादिदुष्टसत्वाकर्षकायै काहिकादिविविधज्वरच्छेदकाय परयन्त्रमन्त्रतन्त्रनाशकाय सर्वव्याधिनिकृन्तकाय सर्पादिसर्वस्थावरजङ्गमविषस्तम्भनकराय सर्वराजभयचोरभयाऽग्निभयप्रशमनायाऽऽध्यात्मिकाऽऽधि- दैविकाधिभौतिकतापत्रयनिवारणायसर्वविद्यासर्वसम्पत्सर्वपुरुषार्थ- दायकायाऽसाध्यकार्यसाधकाय सर्ववरप्रदायसर्वाऽभीष्टकराय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ नमः स्वाहा ॥१८॥
य इदं कवचं नित्यं सप्तास्यस्य हनुमतः । त्रिसन्ध्यं जपते नित्यं सर्वशत्रुविनाशनम् ॥१९॥
पुत्रपौत्रप्रदं सर्वं सम्पद्राज्यप्रदं परम् । सर्वरोगहरं चाऽऽयुःकीर्त्तिदं पुण्यवर्धनम् ॥२०॥
राजानं स वशं नीत्वा त्रैलोक्यविजयी भवेत् । इदं हि परमं गोप्यं देयं भक्तियुताय च ॥२१॥
न देयं भक्तिहीनाय दत्वा स निरयं व्रजेत् ॥२२॥
नामानिसर्वाण्यपवर्गदानि रूपाणि विश्वानि च यस्य सन्ति । कर्माणि देवैरपि दुर्घटानि तं मारुतिं सप्तमुखं प्रपद्ये॥ २३॥
॥ इति श्रीअथर्वणरहस्येसप्तमुखीहनुमत्कवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP