संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । श्री पा...

श्रीभवानीकवचम् - श्रीगणेशाय नमः । श्री पा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । श्री पार्वत्युवाच । भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् । भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥१॥
ईश्वर उवाच । गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् । कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥२॥
राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥३॥
ॐ अस्य श्रीभवानी कवचस्य सदाशिव ऋषिरनुष्टुप छन्दः, मम सर्वकामना सिद्धयर्थे श्रीभवानी त्रैलोक्यमोहनकवच पाठे विनियोगः पद्मबीजाशिरः पातु ललाटे पञ्चमीपरा । नेत्रे काम प्रदा पातु मुखं भुवन सुन्दरी ॥४॥
नासिकां नारसिंही च जिह्वां ज्वालामुखी तथा । श्रोत्रे च जगतां धात्री करौ सा विन्ध्यवासिनी ॥५॥
स्तनौ च कामकामा च पातु देवी सदाशुचिः । उदरं मोहदमनी कण्डली नाभमण्डलम् ॥६॥
पार्श्वं पृष्ठकटी गुह्यस्थाननिवासिनी । ऊरू मे हिङ्गुला चैव जानुनी कमठा तथा ॥७॥
पादौ विघ्नविनाशा च अङ्गुलीः पृथिवी तथा । रक्ष-रक्ष महामाये पद्मे पद्मालये शिवे ॥८॥
वाञ्छितं पूरयित्वा तु भवानी पातु सर्वदा । य इदं कवचं देव्या जानाति सच मन्त्रवित् ॥९॥
राजद्वारे श्मशाने च भूतप्रेतोपचारिके । बन्धने च महादुःखे पठेच्छत्रुसमागमे ॥१०॥
स्मरणात्कवचस्यास्य निर्भयो जायते नरः । प्रयोगमुपचारस्य भवान्याः कर्तुमिच्छति ॥११॥
कवचं प्रपठेदादौ ततः सिद्धिमवाप्नुयात् । भूर्जपत्रे लिखित्वा तु कवचं यस्तुधारयेत् ॥१२॥
देहे च यत्र कुत्रापि सर्व सिद्धिर्भवेन्नरः । शस्त्रास्त्रस्य भयं नैव भूतादि भयनाशनम् ॥१३॥
गुरु भक्तिं समासाद्य भवान्यास्तवनं कुरु । सहस्र नाम पठने कवचं प्रथमं गुरु ॥१४॥
नन्दिने कथितं देवि तवाग्रे च प्रकाशितम् । सागन्ता जायते देवि नान्यथा गिरिनन्दिनि ॥१५॥
इदं कवचमज्ञात्वा भवानीं स्तौतियो नरः । कल्प कोटि शतेनापि नभवेत्सिद्धिदायिनी ॥१६॥
॥ इति श्रीभवानी त्रैलोक्यमोहनकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP