संस्कृत सूची|संस्कृत साहित्य|कवच|
ईश्वर उवाच - त्रिकालं गो...

मोहनकवचम् - ईश्वर उवाच - त्रिकालं गो...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ईश्वर उवाच - त्रिकालं गोपितं देवि कलिकाले प्रकाशितम् । न वक्तव्यं न द्रष्टव्यं तव स्नेहात् प्रकाश्यते ॥१॥
काली दिगम्बरी देवि जगन्मोहनकारिणी । तच्छृणुष्व महादेवि त्रैलोक्यमोहनन्त्विदम् ॥२॥
अस्य महाकालभैरव ऋषिः, अनुष्टुप्छन्दः, श्मशानकालिका देवता, सर्वमोहने विनियोगः । ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा । क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा ॥३॥
क्रीं क्रीं श्यामाङ्गिन्यै शत्रु मारय मारय । ह्रीं क्रीं क्रीं क्लीं त्रैलोक्यं वशमानय ॥४॥
ह्रीं श्रीं क्री मां रक्ष रक्ष विवादे राजगोचरे । द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा ॥५॥
कवचे वर्जिते यत्र तत्र मां पातु कीलका । सर्वत्र रक्ष मां देवि श्यामा तूग्रस्वरूपिणी ॥६॥
एतेषां परमं मोहं भवद्भाग्ये प्रकाशितं सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् ॥७॥
इदं कवचमज्ञात्वा पूजयेद्घोररूपिणीम् । सर्वदा स महाव्याधिपीडितो नात्र संशयः ॥८॥
अल्पायुः स भवेद्रोगी कथितं तव नारद । धारणं कवचस्यास्य भूर्जपत्रे विशेषतः ॥९॥
सयन्त्रं कवचं धृत्वा इच्छासिद्धिः प्रजायते । शुक्लाष्टम्यां लिखेन्मन्त्रं धारयेत् स्वर्णपत्रके ॥१०॥
कवचस्यास्य माहात्म्यं नाहं वक्तुं महामुने । शिखायां धारयेद्योगी फलार्थी दक्षिणे भुजे ॥११॥
इदं कल्पद्रुमं देवि तव स्नेहात् प्रकाश्यते । गोपनीयं प्रयत्नेन पठनीयं महामुने ॥१२॥
श्रीविष्णुरुवाच - इत्येवं कवचं नित्यं महालक्ष्मि प्रपठ्यताम् । अवश्यं वशमायाति त्रैलोक्यं सचराचरम् ॥१३॥
शिवेन कथितं पूर्वं नारदे कलहास्पदे । तत्पाठान्नारदेनापि मोहितं सचराचरम् ॥१४॥
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मोहनकवचं समाप्तम् । चतुर्दशः पटलः

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP