बुधकवचम् - श्रीगणेशाय नमः । अस्य श्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ॥
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः । पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥१॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा । नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥२॥
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम । कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥३॥
वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः । नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥४॥
जानुनी रौहिणेयश्च पातु जङ्घेऽखिलप्रदः । पादौ मे बोधनः पातु पातु सौम्योऽखिलं वपुः ॥५॥
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥६॥
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् । यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥७॥
॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 01, 2025

TOP