संस्कृत सूची|संस्कृत साहित्य|कवच|
देव्युवाच । देवदेव जगन्न...

बटुकभैरवकवचम् - देव्युवाच । देवदेव जगन्न...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

देव्युवाच । देवदेव जगन्नाथ त्रिनाथ श्रीत्रिलोचन । भवत्प्रसादाद्भगवन्भैरवस्य महात्मनः ॥१॥
कवचं श्रोतुमिच्छामि त्वत्स्नेहातिशयादहम् । शिव उवाच । प्राणिनां रक्षणार्थं च ब्रवीमि सुमुखे गुणान् ॥२॥
वर्मणो भैरवस्यास्य शिवब्रह्मा ऋषिः स्मृतः । छन्दोनुष्टुप् तथा देवो भैरवो बटुकात्मजः ॥३॥
ऐश्वर्यस्याभिवृद्ध्यर्थमिष्टार्थं च नियुज्यते ॥४॥
शूलखड्गडमरूलसत्करं सव्यहस्तमपरं करोज्ज्वलम् । सन्ततं हृदि भजामि भैरवं स्वाधिरूढमधिकारसिद्धये ॥६॥
दिग्वाससं कमलपत्रविशालनेत्रं भस्माङ्गरागमभयं प्रभुमादिदेवम् । ध्यायामि तं बटुकनाथमहर्निशं मे सर्वार्थसिद्धिमतुलां कृपया दिशन्तम् ॥६॥
एवं ध्यात्वा तु देवेशं बटुकाख्यं महाबलम् । उच्चरेत्कवचं पश्चाद्देवताभीष्टसिद्धिदम् ॥७॥
ॐ शिरो मे भैरवः पातु भालं पुरनिषूदनः । दृशौ पातु त्रिनेत्रो मे श्रवणं नीलकण्ठकः ॥८॥
दिग्वासा मे पातु कण्टं नासिकामगन्यभाक् । औष्ठौ त्रिपुरघाती मे जिह्वां पातु कपालधृक् ॥९॥
दन्तान्पातु क्रतुध्वंसी चिबुकं भूतवासकः । कपाली पातु मे ग्रीवां स्कन्धौ पातु गजां तकः ॥१०॥
भुजौ मे पातु कौमारो हृदयं क्षेत्रपालकः । अभीरुमें स्तनौ पातु वक्षः पातु महेश्वरः ॥११॥
कुक्षौ मे पातु संहर्ता नाभिं मे षण्मुखप्रियः । भूतनाथः कटिं पातु गुह्यं पातु जटाधरः ॥१२॥
ऊरू पातु वृषारूढो जानुनी भूतभावनः । श्मशानवासी मे पातु पातु सर्वाङ्गमीश्वरः ॥१३॥
य इदं कवचं देवि पठेत्प्रयतमानसः । तस्यैश्वर्याभिवृद्ध्यर्थं न ददाम्यहम् ॥१४॥
रोगार्तो मुच्यते रोगात्पुत्रार्थी लभते सुतान् । जपित्वा श्रद्धया कन्या आयुष्मन्तं पतिं लभेत् ॥१५॥
विद्याविनयसम्पन्नं सुकुलीनं सुरूपिणम् । जपित्वा विधवा नारी वैधव्यं नाप्नुयात्क्वचित् ॥१६॥
जपित्वा कवचं प्रातर्मुच्यते नात्र संशयः । नास्ति तस्यापमृत्युश्चाकालमृत्युः कदाचन ॥१७॥
इह लोके सुखं भुक्त्वा पुत्रपौत्रैः सुबान्धवैः । अन्ते कैलासमाविश्य मम पादतलं व्रजेत् ॥१८॥
तस्मात्सर्वप्रयत्नेन जपेन्नित्यमतन्द्रितः ॥१९॥
ये भक्तियुक्ताः कवचं पठन्ति ते वै कुले स्वे कुलिनो वसन्ति । तेजोधिकं विंशतिसङ्ख्यया दिने कैलासमाप्नोति मम प्रसादात् ॥२०॥
एतत्ते कथितं देवि यन्मां त्वं परिपृच्छसि । त्वत्स्नेहातिशयादुक्तं कवचं भैरवात्मकम् ॥२१॥
इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे उपसनास्तबके श्रीबटुकभैरवोपासनाध्याये श्रीबटुकभैरवका चनिरूपणं नाम प्रकरणं चतुर्थम् ॥४॥

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP