संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्री गणेशाय नमः । श्रीना...
गोपालाक्षयकवचम् - श्री गणेशाय नमः । श्रीना...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्री गणेशाय नमः । श्रीनारद उवाच । इन्द्राद्यमरवर्गेषु ब्रह्मन्यत्परमाऽद्भुतम् । अक्षयं कवचं नाम कथयस्व मम प्रभो ॥१॥
यद्धृत्वाऽऽकर्ण्य वीरस्तु त्रैलोक्य विजयी भवेत् । ब्रह्मोवाच । शृणु पुत्र मुनिश्रेष्ठ कवचं परमाद्भुतम् ॥२॥
इन्द्रादिदेववृन्दैश्च नारायणमुखाच्छ्रतम् । त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ॥३॥
ऋषिश्छन्दो देवता च सदा नारायणः प्रभुः । अस्य श्रीत्रैलोक्यविजयाक्षयकवचस्य प्रजापतिऋर्षिः, अनुष्टुप्छन्दः, श्रीनारायणः परमात्मा देवता, धर्मार्थकाममोक्षार्थे जपे विनियोगः । पादौ रक्षतु गोविन्दो जङ्घे पातु जगत्प्रभुः ॥४॥
ऊरू द्वौ केशवः पातु कटी दामोदरस्ततः । वदनं श्रीहरिः पातु नाडीदेशं च मेऽच्युतः ॥५॥
वामपार्श्वं तथा विष्णुर्दक्षिणं च सुदर्शनः । बाहुमूले वासुदेवो हृदयं च जनार्दनः ॥६॥
कण्ठं पातु वराहश्च कृष्णश्च मुखमण्डलम् । कर्णौ मे माधवः पातु हृषीकेशश्च नासिके ॥७॥
नेत्रे नारायणः पातु ललाटं गरुडध्वजः । कपोलं केशवः पातु चक्रपाणिः शिरस्तथा ॥८॥
प्रभाते माधवः पातु मध्याह्ने मधुसूदनः । दिनान्ते दैत्यनाशश्च रात्रौ रक्षतु चन्द्रमाः ॥९॥
पूर्वस्यां पुण्डरीकाक्षो वायव्यां च जनार्दनः । इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् ॥१०॥
तव स्नेहान्मयाऽऽख्यातं न वक्तव्यं तु कस्यचित् । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥११॥
देवा मनुष्या गन्धर्वा यज्ञास्तस्य न संशयः । योषिद्वामभुजे चैव पुरुषो दक्षिणे भुजे ॥१२॥
निभृयात्कवचं पुण्यं सर्वसिद्धियुतो भवेत् । कण्ठे यो धारयेदेतत् कवचं मत्स्वरूपिणम् ॥१३॥
युद्धे जयमवाप्नोति द्यूते वादे च साधकः । सर्वथा जयमाप्नोति निश्चितं जन्मजन्मनि ॥१४॥
अपुत्रो लभते पुत्रं रोगनाशस्तथा भवेत् । सर्वतापप्रमुक्तश्च विष्णुलोकं स गच्छति ॥१५॥
॥ इति ब्रह्मसंहितोक्तं श्रीगोपालाक्षयकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : November 24, 2025

TOP