संस्कृत सूची|संस्कृत साहित्य|कवच|
पूर्वे नारायणः पातु वारिज...

श्रीविष्णुरपामार्जनकवचम् - पूर्वे नारायणः पातु वारिज...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

पूर्वे नारायणः पातु वारिजाक्षस्तु दक्षिणे । प्रद्युम्नः पश्चिमे पातु वासुदेवस्तथोत्तरे ॥१॥
ऐशान्यां रक्षताद्विष्णुराग्नेय्यां च जनार्दनः । नैरृत्यां पद्मनाभस्तु वायव्यां मधुसूदनः ॥२॥
ऊर्ध्वं गोवर्धनोद्धर्ता ह्यधरायां त्रिविक्रमः । एताभ्यो दशदिग्भ्यश्च सर्वतः पातु केशवः ॥३॥
एवं कृत्वा तु दिग्बन्घं विष्णुं सर्वत्र संस्मरेत् । अव्यग्रचित्तः कुर्वीत न्यासकर्मं यथाविधि ॥४॥
अङ्गुष्ठाग्रे तु गोविन्दं तर्जन्यां तु महीधरम् । मध्यमायां हृषीकेशमनामिक्यां त्रिविक्रमम् ॥५॥
कनिष्ठायां न्यसेद्विष्णुं करपृष्ठे तु वामनम् । एवमेवाङ्गुलिन्यासः पश्चादङ्गेषु विन्यसेत् ॥६॥
शिखायां केशवं न्यस्य मूर्ध्नि नारायणं न्यसेत् । माधवं च ललाटे तु गोविन्दं तु भुवोर्न्यसेत् ॥७॥
चक्षुर्मध्ये न्यसेद्विष्णुं कर्णयोर्मधुसूदनम् । त्रिविक्रमं कण्ठमूले वामनं तु कपोलयोः ॥८॥
नासारन्ध्रद्वये चापि श्रीधरं कल्पयेद्बुधः । उत्तरोष्ठे हृषीकेशं पद्मनाभं तथाऽधरे ॥९॥
दामोदरं दन्तपङ्क्तौ वाराहं चुबुके तथा । जिह्वायां वासुदेवं च ताल्वोश्चैव गदाधरम् ॥१०॥
वैकुण्ठं करमध्ये तु अनन्तं नासिकोपरि । दक्षिणे तु भुजे विप्रो विन्यसेत्पुरुषोत्तमम् ॥११॥
वामे भुजे महायोगं राघवं हृदि विन्यसेत् । कुक्षौ पृथ्वीधरं चैव पार्श्वयोः केशवं न्यसेत् ॥१२॥
वक्षःस्थले माधवं च कक्षयोर्योगशायिनम् । पीताम्बरं स्तनतटे हरिं नाभ्यान्तु विन्यसेत् ॥१३॥
दाक्षिणे तु करे देवं ततस्सङ्कर्षणं न्यसेत् । वामे रिपुहरं विद्यात्कटिमध्ये जनार्दनम् ॥१४॥
पृष्ठे क्षितिधरं विद्यादच्युतं स्कधयोरपि । वामकुक्षौ वारिजाक्षं दक्षिणे जलशायिनम् ॥१५॥
स्वयम्भुवं मेढ्रमध्ये ऊर्वोश्चैव गदाधरम् । जानुमध्ये चक्रधरं जङ्घयोरमृतं न्यसेत् ॥१६॥
गुल्फयोर्नारसिंहं च पादयोरमितत्विषम् । अङ्गुलीषु श्रीधर च पद्माक्षं सर्वसन्धिषु ॥१७॥
नखेषु माधवं चैव न्यसेत्पादतलेऽच्युतम् । रोमकूपे गुडाकेशं कृष्णं रक्तास्थिमज्जसु ॥१८॥
मनोबुद्ध्योरहङ्कारे चित्ते न्यस्य जनार्दनम् । अच्युतानन्तगोविन्दान्वातपित्तकफेषु च ॥१९॥
एवं न्यासविधिं कृत्वा यत्कार्यं द्विज तच्छृणु । पादमुले तु देवस्य शङ्खं चैव तु विन्यसेत् ॥२०॥
वनमालां हृदि न्यस्य सर्वदेवाभिपूजिताम् ॥
गदां वक्षःस्थले न्यस्य चक्रं चैव तु पृष्ठतः ॥२१॥
श्रीवत्समुरसि न्यस्य पञ्चाङ्गं कवचं न्यसेत् । आपादमस्तकं चैव विन्यसेत्पुरुषोत्तमम् ॥२२॥
एवं न्यासविधिं कृत्वा साक्षान्नारायणो भवेत् । तनुर्विष्णुमयी तस्य यत्कञ्चिन्न स भासते ॥२३॥
अपामार्जनको न्यासस्सर्वव्याधिविनाशनः । आत्मनश्च परस्यापि विधिरेष सनातनः ॥२४॥
वैष्णवेन तु कर्तव्यस्सर्वसिद्धिप्रदायकः । विष्णुस्तदूर्ध्वं रक्षेत्तु वैकुण्ठो विदिशो दिशः ॥२५॥
पातु मां सर्वतो रामो धन्धी चक्री च केशवः । एतत्समस्तं विन्यस्य पश्चान्यमन्त्रान् प्रयोजयेत् ॥२६॥
अथ मूलमन्त्रः - ॐ नमो भगवते क्लेशापहर्त्रे नमः । पूजाकाले तु देवस्य जपकाले तथैव च । होमकाले च कर्तव्यं त्रिसन्ध्यासु च नित्यशः ॥२७॥
आयुरारोग्यमैश्वर्यं ज्ञानं वित्तं फलं लभेत् । यद्यत्सुखतरं लोके तत्सर्वं प्राप्नुयान्नरः ॥२८॥
एवं भक्त्या समभ्यर्च्य हरिं सर्वार्थदायकम् । अभयं सर्वभूतेभ्यो विष्णुलोकं स गच्छति ॥२९॥
श्रीविष्णुलोकं स गच्छत्यों नम इति ॥
इति श्रीविष्णुधर्मोत्तरपुराणे श्रीविष्णुरपामार्जनकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP