संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच - भगवन् सर...

महामृत्युञ्जयकवचम् - श्रीदेव्युवाच - भगवन् सर...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच - भगवन् सर्वधर्मज्ञ सृष्टिस्थितिलयात्मक ॥
मृत्युञ्जयस्य देवस्य कवचं में प्रकाशय ॥
श्री ईश्वर उवाच - श‍ृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । मार्कण्डेयोऽपि यद्धृत्वा चिरञ्जीवी व्यजायत ॥
तथैव सर्वदिक्पाला अमरात्वमवाप्नुयुः । कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतन् ॥
मृत्यञ्जयः समुद्दिष्टो देवता पार्वतीपतिः । देहारोग्यदलायुष्ट्वे विनियोगः प्रकीर्तितः । ॐ त्र्यम्बकं मे शिरः पातु ललाटं मे यजामहे । सुगन्धिं पातु हृदयं जठरं पुष्टिवर्धनम् ॥
नाभिमुर्वारुकमिव पातु मां पार्वतीपतिः । वन्धनादूरुयुग्मं मे पातु वामाङ्गशासनः ॥
मृत्योर्जानुयुगं पातु दक्षयज्ञविनाशनः । जङ्घायुग्मं च मुक्षीय पातु मां चन्द्रशेखरः ॥
मामृताच्च पदद्वन्द्वं पातु सर्वेश्वरो हरः । प्रसौ मे श्रीशिवः पातु नीलकण्ठश्च पार्श्वयोः ॥
ऊर्ध्वमेव सदा पातु सोमसूर्याग्निलोचनः । अधः पातु सदा शम्भुः सर्वापद्विनिवारणः ॥
वारुण्यामर्धनारीशो वायव्यां पातु शङ्करः । कपर्दी पातु कौबेर्यामैशान्यामीश्वरोऽवतु ॥
ईशानः सलिले पायदघोरः पातु कानने । अन्तरिक्षे वामदेवः पायात्तत्पुरुषो भुवि ॥
श्रीकण्ठः शयने पातु भोजने नीललोहितः । गमने त्र्यम्बकः पातु सर्वकार्येषु भुपतिः । सर्वत्र सर्वदेहं मे सदा मृत्युञ्जयोऽवतु । इति ते कथितं दिव्यं कवचं सर्वकामदम् ॥
सर्वरक्षाकरं सर्वग्रहपीडा-निवारणम् । दुःस्वप्ननाशनं पुण्यमायुरारोग्यदायकम् ॥
त्रिसन्ध्यं यः पठेदेतन्मृत्युस्तस्य न विद्यते । लिखितं भूर्जपत्रे तु य इदं मे व्यधारयेत् ॥
तं दृष्ट्वैव पलायन्ते भूतप्रेतपिशाचकाः । डाकिन्यशचैव योगिन्यः सिद्धगन्धर्वराक्षसाः ॥
बालग्रहादिदोषा हि नश्यन्ति तस्य दर्शनात् । उपग्रहाश्चैव मारीभयं चौराभिचारिणः ॥
इदं कवचमायुष्यं कथितं तव सुन्दरि । न दातव्यं प्रयत्नेन न प्रकाश्यं कदाचन ॥
इति महामृत्युञ्जयकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP