संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीगणेशाय नमः । श्रीभ...

श्री महाकालकवचम् - ॐ श्रीगणेशाय नमः । श्रीभ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीगणेशाय नमः । श्रीभैरव उवाच अथ वक्ष्यामि देवेशि कवचम् मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥१॥
सर्वसम्पत्प्रदं चैव महाकालस्य पार्वति । गुह्यातिगुह्यपरमं मूलविद्यामयं ध्रुवम् ॥२॥
परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥३॥
कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः। अनुष्टुप्छन्द इत्युक्तं महाकालश्च देवता ॥४॥
कूर्चबीजं पराशक्तिस्तारं कीलकमीरितम् । धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः॥ ५॥
अथ ध्यानम् । श्यामवर्णं महाकायं महाकालं त्रिलोचनम् । नीलकण्ठं स्वतेजस्कं नेत्रत्रयविभूषितम् ॥६॥
खट्वाङ्गचर्मधरं देवं वरदाभयपाणिकम् । शूलहस्तं च खट्वाङ्गधारिणं मन्त्रनायकम् ॥७॥
पिनाकहस्तं देवेशं तोमरं बिभ्रतं विभुम् । प्रातः पठेत्सहस्रं वै भैरवं तु सदा स्मरेत् । एवं विधेन ध्यानेन मनसा चिन्तयेद्विभुम् ॥८॥
अथ कवचम् । ॐ ह्रं शिरः पातु मे कालः ललाटे ह्रीं सदा मम । ह्रं कारकं प्रतीच्यां मे बीजद्वयस्वरूपिणी ॥१॥
ह्रीं पातु लोचनद्वन्द्वं मुखं ह्रीम्बीजरूपिणि । ह्रीं कारकं कण्ठदेशे ह्रीं पातु स्कन्धयोर्मम ॥२॥
महाकालः सदा पातु भुजौ सव्ये नसौ मम । ह्रीङ्कारं हॄदयं पातु ह्रं मेऽव्यादुदरं सदा ॥३॥
ह्रीं नाभिं पातु सततं देवी ह्रीङ्काररूपिणी । अव्यान्मे लिङ्गदेशं च ह्रीं रक्षेद्गुह्यदेशके ॥४॥
कूर्चयुग्मं पातु पादौ स्वाहा पादतलं मम । श्रीषोडशाक्षरः पातु सर्वाङ्गे मम सर्वदा ॥५॥
अन्तर्वह्निश्च मां पातु देवदत्तश्च भैरवः। नगलिङ्गामृतप्रीतः सर्वसन्धिषु रक्षतु ॥६॥
महोग्रो मां सदा पातु ममेन्द्रियसमूहकम् । शिवो ममेन्द्रियार्थेषु रक्षयेद्दक्षिणेष्वपि ॥७॥
महाकालः पश्चिमेऽव्याद्दक्षिणे देवदत्तकः। भगलिङ्गामृतं प्रीतो भगलिङ्गस्वरूपकः॥ ८॥
उदीच्यामूर्ध्वगः पातु पूर्वे सम्हारभैरवः। दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥९॥
फलश्रुतिः । शतलक्षं प्रजप्तोऽपि तस्य मन्त्रं न सिध्यति । स शास्त्रज्ञानमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥१०॥
मन्त्रेण म्रियते योगी रक्षयेत् कवचं ततः । त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति ॥११॥
सिद्धयोऽष्टौ करे तस्य महेश इव चापरः । रूपेण स्मरतुल्येष्टो  कामिनीनां प्रियो भवेत् ॥१२॥
तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् । भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥१३॥
यो ददाति सुशिष्येभ्यो वश्ये तस्य जगद्भवेत् । गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥१४॥
रवौ भूर्जे लिखेद्वर्म स्वयम्भूः कुसुमस्त्रजा । कुङ्कुमेनाष्टगन्धेन रक्तेन निजरेतसा ॥। १५॥
धारयन्मूर्ध्नि वा बाहौ प्राप्नुयात्परमां गतिम् । धनकामो लभेद्वित्तं पुत्रकामो लभेत्प्रजाम् ॥१६॥
सर्वान् रिपून् रणे जित्वा कल्याणी गृहमाविशेत् । यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः॥ १७॥
श्रीविश्वकवचं नाम कवचं न प्रकाशयेत् । रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥१८॥
इति श्रीरुद्रयामले तन्त्रे विश्वमङ्गलं नाम महाकालकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP