संस्कृत सूची|संस्कृत साहित्य|कवच|
॥ॐ नमस्सुब्रह्मण्याय ॥ ...

श्रीसुब्रह्मण्यकवचम् - ॥ॐ नमस्सुब्रह्मण्याय ॥ ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥ॐ नमस्सुब्रह्मण्याय ॥
॥अथ सुब्रह्मण्य कवचम् ॥
अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य  अगस्त्यो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्री सुब्रह्मण्यो देवता, सं बीजं, स्वाहा शक्तिः, सः कीलकं, श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । हिरण्यशरीराय अङ्गुष्ठाभ्यां नमः, इक्षु धनुर्धराय तर्जनीभ्यां नमः, शरवणभवाय मध्यमाभ्यां नमः,  शिखिवाहनाय अनामिकाभ्यां नमः, शक्तिहस्ताय कनिष्ठिकाभ्यां नमः, सकलदुरित मोचनाय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः ।     ॥ध्यानम् ॥
कनककुण्डलमण्डितषण्मुखं वनजराजित लोचनम् । निशित शस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥ अथ लमित्यादिभिः पञ्चपूजा ॥ लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि ॥
अगस्त्य उवाच ॥ स्कन्दस्य कवचं दिव्यं नाना रक्षाकरं परम् । पुरा पिनाकिना प्रोक्तं ब्रह्मणोऽनन्तशक्तये ॥१॥
तदहं सम्प्रवक्ष्यामि भद्रं ते श‍ृणु नारद । अस्ति गुह्यं महापुण्यं सर्वप्राणि प्रियङ्करम् ॥२॥
जपमात्रेण पापघ्नं सर्वकामफलप्रदम् । मन्त्रप्राणमिदं ज्ञेयं सर्वविद्यादिकारकम् ॥३॥
स्कन्दस्य कवचं दिव्यं पठनाद्व्याधिनाशनम् । पिशाच घोरभूतानां स्मरणादेव शान्तिदम् ॥४॥
पठितं स्कन्दकवचं श्रद्धयानन्यचेतसा । तेषां दारिद्र्यदुरितं न कदाचिद्भविष्यति ॥५॥
भूयस्साम्राज्य संसिद्धिरन्ते कैवल्यमक्षयम् । दीर्घायुष्यं भवेत्तस्य स्कन्दे भक्तिश्च जायते ॥६॥
शिखां रक्षेत्कुमारस्तु कार्तिकेयश्शिरोऽवतु । ललाटं पार्वतीसूनुः विशाको भ्रूयुगं मम ॥७॥
लोचने क्रौञ्चभेदी च नासिकां शिखिवाहनः । कर्णद्वयं शक्तिधरः कर्णमूलं षडाननः ॥८॥
गण्डयुग्मं महासेनः कपोलौ तारकान्तकः । ओष्ठद्वयञ्च सेनानीः रसनां शिखिवाहनः ॥९॥
तालू कलानिधिः पातु दन्ताञ्च देवशिखामणिः। गाङ्गेयश्चुबुकं पातु मुखं पातु शरोद्भवः ॥१०॥
हनू हरसुतः पातु कण्ठं कारुण्य-वारिधिः । स्कन्धावुमासुतः पातु बाहुलेयो भुज-द्वयम् ॥११॥
बाहू भवेद्भवः पातु स्तनौ पातु महोरगः । मध्यं जगद्विभुः पातु नाभिं द्वादश-लोचनः ॥१२ ॥ कटिं द्विषड्भुजः पातु गुह्यं गङ्गासुतोऽवतु । जघनं जाह्नवीसूनुः पृष्ठभागं परन्तपः ॥१३॥
ऊरू रक्षेदुमापुत्रः जानुयुग्मं जगद्धरः । जङ्घे पातु जगत्पूज्यः गुल्फौ पातु महाबलः ॥१४॥
पादौ पातु परंज्योतिः सर्वाङ्गं कुक्कुटद्ध्वजः । ऊर्ध्वं पातु महोदारः अधस्तात्पातु शाङ्करिः ॥१५॥
पार्श्वयोः पातु शत्रुघ्नः सर्वदा पातु शाश्वतः । प्रातः पातु परं ब्रह्म मद्ध्याह्ने युद्धकौशलः ॥१६॥
अपराह्ने गुहः पातु रात्रौ दैत्यान्तकोऽवतु । त्रिसन्ध्यन्तु त्रिकालज्ञः अन्तस्थं पात्वरिन्दमः ॥१७॥
बहिस्थितं पातु खढ्गी निषण्णं कृत्तिकासुतः । व्रजन्तं प्रथमाधीशः तिष्ठन्तं पातु पाशभृत् ॥१८॥
शयने पातु मां शूरः मार्गे मां पातु शूरजित् । उग्रारण्ये वज्रधरः सदा रक्षतु मां वटुः ॥१९॥
सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् । मन्त्राणां परमं मन्त्रं रहस्यं सर्वदेहिनाम् ॥२०॥
सर्वरोगप्रशमनं सर्वव्याधि  विनाशनम् । सर्वपुण्य प्रदं दिव्यं सुभगैश्वर्य वर्धनम् ॥२१॥
सर्वत्र शुभदं नित्यं यः पठेद्वज्रपञ्जरम् । सुब्रह्मण्यस्सुसम्प्रीतो वाञ्छितार्थान् प्रयच्छति ॥२२॥
देहान्ते मुक्तिमाप्नोति स्कन्दवर्मानुभावतः ॥    ॥इति स्कान्दे अगस्त्य नारद संवादे शिवप्रोक्तं    सुब्रह्मण्य कवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP