संस्कृत सूची|
संस्कृत साहित्य|
कवच|
विप्र उवाच- कवचं ते प्रव...
गङ्गाकवचम् - विप्र उवाच- कवचं ते प्रव...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
विप्र उवाच- कवचं ते प्रवक्ष्यामः पार्वत्यै यच्छिवोऽब्रवीत । यस्य सन्धारणान्मर्त्यः साक्षाद्वैश्रवणो भवेत् ॥१॥
तद्यथा- ॐ कैलासशिखरे रम्ये सुखासीनं सुरार्चितम् । गिरिशं गिरिजा नत्वा स्तोत्रैर्वेदार्थगर्भितैः ॥२॥
प्रणम्य परया भक्त्या ततोऽपृच्छत् कृताञ्जलिः । श्रीमहादेव्युवाच- महादेव सुराध्यक्ष करुणासागर प्रभो ॥
भवद्भिः शतसाहस्रकोटिवारं निवारिता । मह्यं किं किं न दत्तं ते तदिदानीं वदाम्यहम् ॥३॥
गाणपं शाक्तसूरं च शैवं वैष्णवमुत्तमम् । मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया ॥४॥
दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते । श्रीरामतारको मन्त्रः कोदण्डस्यापि मे प्रियः ॥५॥
नृहरेः श्यामराजो हि कालिकाद्याः प्रियंवद । दशविद्या विशेषेण षोडशी मन्त्रनायिका ॥६॥
दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धनाधिपः । सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः ॥७॥
किं बहूक्तेन गिरिश प्रेमयन्त्रितचेतसा । अर्धाङ्गमिति मह्यन्ते दत्तं किं ते वदाम्यहम् ॥८॥
अपि पृच्छामि कवचं श्रीगङ्गाया अनुत्तमम् । मे मनस्तद्विना श्रीमन् न तुष्यति ततो वद ॥९॥
रहस्यं रक्षणकरं सर्वसम्पत्करं परम् । श्रीपरमशिव उवाच- सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ॥१०॥
परन्तु गिरिजे तुभ्यं कथ्यते शृणु साम्प्रतम् । कलौ पाखण्डबहुला नानावेशधरा नराः ॥११॥
ज्ञानलब्धा हीनकामा वर्णाश्रमबहिष्कृताः । वैष्णवत्वेन विख्याताः शैवत्वेन वरानने ॥१२॥
शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः । गाणपत्येन गिरिजे शास्त्रज्ञानविवर्जिताः ॥१३॥
गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले । ते शिष्यसङ्ग्रहं कर्तुमुधुक्ता यत्र कुत्रचित् ॥१४॥
मन्त्राधुच्चारणे तेषां नास्ति सामर्थ्यमम्बिके । तच्छिष्याणां च गिरिजे तथापि जगतीतले ॥१५॥
पठन्ति पाठयिष्यन्ति विप्रद्वेषपराः सदा । विप्रद्वेषरतानां हि नरके पतनं ध्रुवम् ॥१६॥
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् । गङ्गायाः कवचं दिव्यं गोपनीयं त्वया सदा ॥१७॥
न कस्यापि प्रवक्तव्यं वक्तव्यं स्वात्मिकाय तत् । प्रदर्शयति सर्वाङ्ग भर्तुर्वै स्त्रीजनो यथा ॥१८॥
तस्मात्त्वया न वक्तव्यं कवचं लोकसुन्दरि । गङ्गायाः कवचस्यास्य वेदव्यासो ऋषिः स्मृतः ॥१९॥
छन्दोऽतिजगती प्रोक्तं देवता तु सरित्स्मृता । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥२०॥
प्रणवो मे शिरः पातु नमः पातु ललाटके । भगवति मे दृशौ पाहि कर्णी ह्यम्बे ततोम्बिके ॥२१॥
अम्बालिके महामालिनि पाहि नासापुटद्वये । कपोलौ मे सदा पाह्येओहि भगवत्यथ ॥२२॥
मुखं में सततं रक्षेत् द्रवरूपा शुचिप्रभा । अशेषतीर्थालवाले हनुमेव सदाऽवतु ॥२३॥
जिह्वामूले च जिह्वाग्रे ह्रौं श्री बीजौ सदाऽवताम् । शिवजटाधिरूढ़ए च गङ्गे चोष्ठद्वयेऽवतु ॥२४॥
दन्तपत्रौ च कण्ठे च पातु गङ्गाम्बिके द्विठः । स्कन्धौ मे ॐ नमः पातु शिवायै करयोर्मम ॥२५॥
नारायण्यै च पार्श्वौ मे पायात्पापहरा सदा । स्वान्ते दशहरायै मे गङ्गायै चोदरेऽवतु ॥२६॥
स्तनौ स्वाहा सदा पातु देवीर्भिहावतोषिता ॥
ॐ नमो भगवति पाहि कुक्षिं मे सर्वदा सुखम् ॥२७॥
ऐं बीजं मध्यदेशे च बीजविद्या सदाऽवतु । हिलिः पृष्ठं सदा पातु पातु नाभिं हिलिर्मम ॥२८॥
मिलिमिलीति पदद्वन्द्वं कटिं सडिक्थनीद्वयम् । गङ्गे मां पावयेदव्याद्गुह्ये जानुद्वये मम ॥२९॥
जङ्घे स्वाहा सदा पातु गिरिनेत्राक्षरी सदा । सप्तार्णसहिता विद्या पादौ पातु नखाक्षरी ॥३०॥
ॐ हिलि-हिलि-मिलि-मिलि गङ्गे देविनमोभृशम् । मूर्धादिपादपर्यन्तं पातु पञ्चदशाक्षरी ॥३१॥
तारा माया रमा हार्दै प्राच्यां रक्षतु मे सदा ॥
आग्नेयां मां भगवती पातु मे चक्रसंस्थिता ॥३२॥
दक्षिणे गाङ्गदयिते नैरृत्यां वर्मपूर्ववत् । प्रतीच्यामस्त्रतो रक्षेद्रिपुभारनिकृन्तनी ॥३३॥
वाग्भवं पातु वायव्यां माया रक्षतु चोत्तरे । ईशान्यां कमला रक्षेत् कामबीजं नभोऽवतु ॥३४॥
अधस्तात्पवनो रक्षेत्सर्वत्र सर्वमन्त्रराट् । मणिकर्णिभगी ब्रह्मा हृदयं ध्रुवसंयुता ॥३५॥
विषमिन्दुधुकः पूर्वं मन्त्रश्रीमणिकर्णिका । सर्वत्र मे सदा पातु बाह्याभ्यन्तरभेदतः ॥३६॥
इति ते कथितं देवि सारात् सारतरं परम् । सर्वार्थसाधनं नाम कवचं परमाद्भुतम् ॥३६॥
अस्यापि पठनात्सद्यः कुबेरोऽपि धनेश्वरः । इन्द्राद्याःसकला देवा धारणात्पठनाद्यतः ॥३७॥
सर्वसिद्धीश्वराः सन्तः सर्वैश्वर्यमवाप्नुयुः । पुष्पाञ्जल्यष्टकं दत्वा मूलेनैव पठेत्सकृत् ॥३८॥
संवत्सरकृतायास्तु पूजायाः फलमाप्नयात । प्रीतिमन्योन्यतः कृत्वा कमला निश्चला गृहे ॥३९॥
वाणीयं निवसेद्वक्रे सत्यं सत्यं न संशयः । यो धारयति पुण्यात्मा सर्वार्थसाधनाभिधम् ॥४०॥
कवचं परमं पुण्यं सोऽपि पुण्यवतां वरः । सर्वैश्वर्ययुतो भूत्वा त्रैलोक्यविजयी भवेत् ॥४१॥
पुरुषो दक्षिणे बाहौ नारी वामभुजे तथा ॥
बहुपुत्रयुतो भूयाद्वन्ध्यापि लभते सुतम् ॥४२॥
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति नाशनम् । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥४३॥
इति श्रीरुद्रयामले पार्वतीश्वरसम्बादे सर्वार्थसाधनाभिधं श्रीगङ्गाकवचवं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : November 19, 2025

TOP