संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीशिवः उवाच - अथ वक्ष्...

श्रीशूलिनीकवचम् - श्रीशिवः उवाच - अथ वक्ष्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 


श्रीशिवः उवाच - अथ वक्ष्ये महागुह्यं कवचं सर्वसिद्धिदम् । समाहितेन मनसा श‍ृणु कल्याणि तादृशम् ॥१॥
शूलिन्याः कवचं दिव्यं जगद्रक्षणवर्धनम् । सर्वसिद्धिप्रदं श्रेष्ठं सर्वपापप्रणाशनम् ॥२॥
सर्वमङ्गलमाङ्गल्यं सर्वैश्वर्यप्रदायकम् । ब्रह्मज्ञानप्रदं हृद्यं भीषणं जयवर्धनम् ॥३॥
सर्वरोगहरं शान्तं सर्वरक्षाकरं परम् । कवचस्य ऋषिर्देव्या मृत्युञ्जय उदाहृतः ॥४॥
उष्णिक् छन्दस्तथा देवि देवता जगदम्बिका । दुं कारं बीजमित्युक्तं स्वाहा शक्तिस्ततः परम् ॥५॥
सर्वाभीष्टार्थसिध्यर्थे विनियोगो वरानने । मायार्णैश्च करन्यासं षडङ्गं प्रणवान्वितम् ॥६॥
ॐ अस्य श्री शूलिनीकवचस्य मृत्युञ्जय ऋषिः । उष्णिक् छन्दः । श्रीजगदम्बिका शूलिनी देवता । दुं बीजम् । स्वाहा शक्तिः । सर्वाभीष्टार्थसिद्ध्यर्थे (जपे) विनियोगः ॥
ॐ ह्रां ॐ ह्रीमित्यादिभिः कराङ्गन्यासाः ॥
ध्यानम् - तापिञ्छस्निग्धवर्णां दशशतवदनां चन्द्ररेखावतंसां हर्यक्षस्कन्धरूढां द्विदशशतभुजां हाटवासोवृताङ्गीम् । ध्यायेऽहं वैरिलोकग्रसनपरिणता क्रीडनालोलजिह्वां देवीं क्रुद्धां सुमेधां प्रणतभयहरां शिक्षिताशेषलोकाम् ॥
जयेश्वर्यग्रतः पातु पृष्ठतो विजयेश्वरी । अजिता वामतः पातु दक्षिणं मेऽपराजिता ॥१॥
ब्रह्माणी पातु केशाग्रं शिवा पातु शिरो मम । अम्बिका मेऽलकं पातु मुखं हैमवती तथा ॥२॥
भवानी पातु नासाग्रं घ्राणं माहेश्वरी तथा । वाराही नयनं पातु मानस्तोका च दक्षिणम् ॥३॥
जिह्वां पातु महाविद्या लम्बिकाग्रं सरस्वती । सत्यम्बिका ममोर्ध्वोष्ठं लक्ष्मीमेऽर्धरपल्लवम् ॥४॥
श्रुत्यम्बा पातु मे दन्तान् कौमारी चिबुकं तथा । ज्वाला (कण्ठं) भीमस्वना पातु कपोलौ मे (ऽ)भयङ्करी ॥५॥
इन्द्राणी पातु मे कर्णौ इन्द्रनाथा हनू मम । ग्रीवापार्श्वं महाशक्तिः ग्रीवां मे परमेश्वरी ॥६॥
कराली दक्षिणस्कन्धं वैष्णवी पातु वामकम् । शिवेशी दक्षदोर्मूलं शिवदूती च वामकम् ॥७॥
अच्युता दक्षदोर्दण्डं अनन्ता पातु वामकम् । दक्षकूर्परमीशानी त्रिशूली पातु वामकम् ॥८॥
ज्वालामुखी प्रकोष्ठं मे पातु भद्रा च वामकम् । भैरवी मणिबन्धं मे वामं पातु महेश्वरी ॥९॥
करपृष्ठं तु वाराही विकटाङ्गी तु वामकम् । अघोरा दक्षिणाङ्गुष्ठं घोररूपा तु तर्जनीम् ॥१०॥
मध्यमां रक्तकेशी चाऽनामिकां तु महाबला । माया कनिष्ठिकां पातु पर्वाणि विषनाशिनी ॥११॥
नखानि मे करालास्या वामाङ्गुष्ठं महोदरी । तर्जनीं रक्तचामुण्डी मेघनादा तु मध्यमाम् ॥१२॥
अनामिकां रौद्रमुखी काली पातु कनिष्ठिकाम् । पर्वाणि कालरात्रिर्मे नारसिह्मी नखानि मे ॥१३॥
जटिला दक्षिण कक्षं वामकक्षं पयस्विनी । वक्षो ज्वालामुखी पातु हृदयं कृष्णपिङ्गला ॥१४॥
नारायणी स्तनद्वन्द्वं रुद्राणी मस्तकाग्रकम् । जठरं भद्रकाली मे चण्डिका उदरं तथा ॥१५॥
तद्दक्षिणमनन्ता मे तद्वामः ब्रह्मवादिनी । सावित्री पातु नाभिं मे गायत्री मे कटिद्वयम् ॥१६॥
त्वरिता पातु मे गुह्यं पृष्ठभागं शतानना । योगेश्वरी गुदं पातु जघनं लोकमोहिनी ॥१७॥
ऊरुयुग्मं वसुमतीं चण्डमुण्डा तु जानुनी । जङ्घे कात्यायनी पातु गुल्फे महिषमर्दिनी ॥१८॥
शाकम्भरीं पादपृष्ठे गौरी पादाङ्गुलीर्मम । सूक्ष्मा पादतलं पातु पादपार्ष्वं धनञ्जया ॥१९॥
सर्वाङ्गं पातु मे पुष्टिः सर्वसन्दिं मदप्रिया । ज्वालिनी रोमकूपाणि वसुधारा त्वचं मम ॥२०॥
वसुधा चर्म मे पातु रुधिरं मदनावती । तीव्रा मांसद्वयं पातु भेदो मे विघ्ननाशिनी ॥२१॥
ममास्थि भोगदा पातु मज्जां पातु परात्परा । पञ्चभूतं रतिःपातु शुक्लं मे कामरूपिणी ॥२२॥
मूलाधारमुमा पातु स्वाधिष्ठानं चिदङ्कुरा । अमृता मणिपूरं मेऽनाहतं कमलेक्षणा ॥२३॥
विशुद्धि पातु मे नादा(ऽथा) पातु चाज्ञां परा मम । जातवेदोग्निदुर्गा मे ब्रह्मरन्ध्रं सदावतु ॥२४॥
शूलिनौ सकलं पातु अनुक्ताङ्गं महाबला । जागरूकास्ववस्थासु मम पद्मावती तथा ॥२५॥
शङ्करी पातु मे पुत्रान् पुत्रीं च कमलासना । सहजान् शाम्भवी पातु सुभगा सुमुखं मम ॥२६॥
व्योमकेशी कुलद्वन्द्वं इष्टान्दुष्टापहारिणी । भवनं भुवनाकारा नगरं नगरेश्वरी ॥२७॥
द्राविणी पातु राज्य मे राजानं क्षोभनाशिनी । राष्ट्रं च महती पातु प्रजां सर्ववशङ्करी ॥२८॥
श्रीदेवी धनधान्यं मे सर्वदा सर्वसम्पदः । इति गुह्यं महावीर्यं देव्या कवचमद्भुतम् ॥२९॥
पावनं सर्वविजयं परमायुष्यवर्धनम् । अभेद्यमतुलं नानाभूतप्रेतनिबर्हणम् ॥३०॥
किमत्र बहुनोक्तेन चतुर्वर्गफलप्रदम् । त्रिसन्ध्यं यो जपेन्नित्यं न्यासभावयुतं शिवे ॥३१॥
तस्य सर्वभयं नास्ति विजय च करस्थले । कवचेनाऽऽवृतो विद्वान् स पूज्यः सकलैरपि । अनेनैव शरीरेण जीवन्मुक्तो भवेच्छिवे ॥३२॥
इति श्रीशूलिनीकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP