संस्कृत सूची|
संस्कृत साहित्य|
कवच|
गम्भीरो माहात्म्यात्प्रशम...
श्रीभार्गवकवचम् - गम्भीरो माहात्म्यात्प्रशम...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
गम्भीरो माहात्म्यात्प्रशमशुचिरत्यन्तसुजनः प्रसन्नः पुण्यानां प्रचय इव सर्वस्य सुखदः । प्रभुत्वस्योत्कर्षात्परिणति विशुद्धेश्च तपसा - मसौ दृष्टः सत्त्वं प्रबलयति पापं च नुदति ॥ ॥श्री गणेशाय नमः ॥
श्री नारायण उवाच । कैलासशिखरे रम्ये शङ्करं लोकशङ्करम् । कैवल्यचरणं गौरी पप्रच्छ हितमद्भुतम् ॥१॥
पार्वत्युवाच । देवदेव महादेव देवेश वृषभध्वज । त्वत्तः श्रुतान्यशेषाणि जामदग्न्यस्य साम्प्रतम् ॥२॥
हरेरंशावतीर्णस्य मन्त्रयन्त्रादिकान्यलम् । न श्रुतं कवचं देव न चोक्तं भवता मम ॥३॥
वक्तुमर्हसि देवेश भक्तायै गुह्यमप्युत । इति पृष्टः स गिरिशो मन्त्रयन्त्राङ्गतत्त्ववित् ॥४॥
उवाच प्रहसन्देवीं हिताय जगतामिदम् । रहस्यमपि हि ब्रूयुर्लोकैकहितदृष्टयः ॥५॥
शिव उवाच । शृणु प्रिये प्रियमिदं मम गुह्यतरं परम् । धर्मार्थकाममोक्षाणामनायासं सुसिद्धिदम् ॥६॥
एकमौपयिङ्क मन्ये विष्णुवक्षःस्थलालयाम् । श्रियमाक्रष्टुकामानामिदं कवचमुत्तमम् ॥७॥
एकातपत्रसहितां य इच्छेत्सागराम्बराम् । स जामदग्न्यकवचं नित्यमावर्तयेन्नरः ॥८॥
उद्दण्डशस्त्रदोर्दण्ड प्रचण्डरिपुमण्डलम् । कथञ्जयेयुर्वीरेन्द्राः कवचानावृताङ्गकाः ॥९॥
परप्रयुक्त कृत्यादिदोषो भूतादयोऽपि वा । प्रयान्ति भीता रामस्य वर्मणा विक्ष्य रक्षितम् ॥१०॥
किमन्यैः कवचैर्देवि किमन्यैर्मनुभिश्च वा । जामदग्न्यः परं यस्य दैवतं भृत्यवत्सलः ॥११॥
कवचस्यास्य गिरिजे ऋष्यादिन्यासकल्पनम् । मूलमन्त्रोक्तविधिना कारयेत्साधकोत्तमः ॥१२॥
अस्य श्रीभार्गवकवास्तोत्रमन्त्रस्य अङ्गिरा ऋषिः, बृहतीछन्दः, श्रीमान्जामदग्न्यो देवता, श्रीभार्गवरामप्रीत्यर्थे भार्गवकवचस्तोत्रजपेविनियोगः । अथ करन्यासः । ॐ रां रामाय नमः अङ्गुष्ठाभ्यां नमः । ॐ रां रामाय नमः तर्जनीभ्यां नमः । ॐ रां रामाय नमः मध्यमाभ्यां नमः । ॐ रां रामाय नमः अनामिकाभ्यां नमः । ॐ रां रामाय नमः कनिष्ठिकाभ्यां नमः । ॐ रां रामाय नमः करतलकरपृष्ठाभ्यां नमः । अथ षडङ्गन्यासः । ॐ ऱां रामाय नमः हृदयाय नमः । ॐ ऱां रामाय नमः शिरसे स्वाहा । ॐ ऱां रामाय नमः शिखायै वषट् । ॐ ऱां रामाय नमः कवचाय हुम् । ॐ ऱां रामाय नमः नेत्रत्रयाय वौषट् । ॐ ऱां रामाय नमः अस्त्राय फट् । अथ ध्यानम् । उद्दोर्दण्डचलत्कुठारशिखरस्फारस्फु लिङ्गङ्कुर व्रातामोघमहास्त्रनाशितजगद्धिद्धेषिवंशाटवीम् । वन्दे भार्गवमुग्रकार्मुकधरं शान्तं प्रसन्नाननम्, वीर श्रीपरिचुम्ब्यमानमहितस्वब्रह्मतेजोनिधिम् ॥१३॥
ॐ जामदग्न्यः शिरः पातु पातु मूर्धानमूर्ध्वदृक् । ललाटं ललितः पातु भ्रुवौ भृत्यार्तिनाशनः ॥१४॥
श्रवसी सुश्रवा मेऽव्यात्कर्णौ कर्णान्तलोचनः । नेत्रे गोत्रार्तिहा मेऽव्याल्लोचने भवमोचनः ॥१५॥
गण्डे मे खण्डपरशुः कपोलौ पातु शीलवान् । नासे सुनासः पायान्मे नासिके दासवत्सलः ॥१६॥
रसनां रसरूपोऽव्याद्रसज्ञां रेणुकासुतः । अधरौ पातु मे नित्यमधरीकृतशात्रवः ॥१७॥
वक्त्रं चित्रचरित्रोऽव्याद्दन्तान्दन्तिन्द्रविक्रमः । चुबुकं रिपुजित्पातु ग्रीवां श्रीवत्सलाञ्छनः ॥१८॥
स्कन्धौ मे स्कन्दविजयी कक्षे मे क्षत्रियान्तकः । भुजौ मे सततं पातु सहस्रभुजशासनः ॥१९॥
करौ हितकरः पातु पाणी क्षोणी भरापहः । अङ्गुलीर्मङ्गलगुणो नखानि मखकृन्मम ॥२०॥
वक्षः पातु ममाभीक्ष्णं क्षतजाभिषवप्रियः । उरः पुरुषवीरो मे पार्श्वौ पातु परश्वधी ॥२१॥
उदरस्थजगत्पायादुदरं मम सर्वदा । भयापहोऽव्यान्नाभिं मे मध्यं निध्यातविष्टपः ॥२२॥
लिङ्गं शङ्करशिष्योऽव्यादुपस्थं निस्तुलप्रभः । पाय्वपानं च मे पायात्सायकासनवान्सदा ॥२३॥
त्रिः सप्तकृत्वः कुलहा त्रिकं मेऽवतु सर्वदा । परमेष्ठ्यवतात्पृष्ठं पिठरं दृढ विक्रमः ॥२४॥
ऊरु मेरुसमः पातु जानू मे जगतां पतिः । जङ्घे सङ्घातहन्ताव्यात्प्रपदे विपदान्तकः ॥२५॥
पादौ मे पादचार्यव्याच्चरणौ करणानिधिः । पादाङ्गुलीः पापहा मे पायात्पादतले परः ॥२६॥
परश्वधधरः पायद्रामः पादनखानि मे । पूर्वाभिभाषी मां पायात्पूर्वस्यां दिशि सन्ततम् ॥२७॥
दक्षिणस्यामपि दिशि दक्षयज्ञान्तक प्रियः । पश्चिमस्यां सदा पायात्पाश्चात्याम्बुधिमर्दनः ॥२८॥
वित्तेशरक्षिताशायां पायान्मां सत्तमार्चितः । सर्वतः सर्वजित्पायान्ममाङ्गनि भयात्प्रभुः ॥२९॥
मनो महेन्द्रनिलयश्चित्तं मे दृप्तनाशनः । बुद्धिं सिद्धार्चितः पायादहन्तामनहङ्कृतिः ॥३०॥
कर्माणि कार्तवीर्यारिर्हेलां हैहयवंशहाः । हरत्वमोघदृङ् मोहं क्रोधं च क्रोधदर्पहा ॥३१॥
श्रियं करोतु मे श्रीशः पुष्टिं मे पुष्टिवर्धनः । सन्तानं सततं दद्याद्भृगुसतानभूरुहः ॥३२॥
आयूंषि मे वितनुतादार्यः परमपूरुषः । आशां मे पूरयत्वाशु कश्यपार्पितविष्टपः । श्रीमान्परशुरायो मां पातु सर्वात्मना सदा ॐ ॥३३॥
इत्येतत्कवचं दिव्यमभेद्यं मन्त्रयन्त्रिभिः । कथितं देवि ते गुह्यं प्रियेति परमाद्भुतम् ॥३४॥
न नास्तिकाय नादात्रे न चाश्रद्धालवे प्रिये । देयान्नाविनीतायैतन्नाभक्ताय कदाचन ॥३५॥
नाजापकाय नाज्ञात्रे नासत्यवचसे क्वचित् । नामालामन्त्रिणे देवि प्रदेयं नाप्यमन्त्रिणे ॥३६॥
देयं श्रद्धालवे भक्त्या प्रणताय नतात्मने । गुणान्विताय शुद्धाय मन्त्रगोप्त्रे च मन्त्रिणे ॥३७॥
अवश्यमेतज्जप्तव्यं त्रिसन्ध्यं नियमान्वितैः । मन्त्रावसाने मन्त्रज्ञै रचितं मन्त्रसिद्धये ॥३८॥
वर्मैतच्च जपेन्मन्त्री जपेद्वा सततं मनुः । आसेचितादिव तरोः फलं नाप्नोति सद्रसम् ॥३९॥
जयकामो भूर्जपत्रे रक्तबिन्दुभिरुज्जवलैः । लिखित्वावर्तयेद्रात्रौ कवचंशतसंख्यया ॥४०॥
सम्पूज्य धूपदीपाद्यैर्ध्यात्वा च हृदि भार्गवम् । हस्ते बध्वा रणं गत्वा विजयश्रियमाप्नुयात् ॥४१॥
एवं सम्प्रस्थितस्यास्य विद्यावादे रणेऽपि वा । वाचस्पतिर्वा शक्रो वा वश्यः स्यात्किमुतापरे ॥४२॥
अथवा तिलकं कृत्वा रक्तक्षोदेन भामिनी । कवचेनाभिजप्तेन गच्छन्जयमवाप्नुयात् ॥४३॥
श्रीकामस्तु महेन्द्राद्रेर्द्रोणिं गत्वा मनोहराम् । तत्र मण्डलमास्थाय चण्डभानुं विलोकयन् ॥४४॥
जपेदिदं महद्वर्म प्रत्यहं शतसंख्यया । मण्डलान्ते श्रियं श्रेष्ठा लभते भार्गवाज्ञया ॥४५॥
सिद्धयो विविधास्तस्य दिव्यज्योतिर्लतालयः । सिध्यन्ति सिद्धवन्द्यस्य कृपया विस्मयावहाः ॥४६॥
भूतप्रेतपिशाचश्च रोगश्च विविधाशुभाः । दुष्टा नृपास्तस्कराश्च व्याग्रसिंहगजादयः ॥४७॥
श्रीमद्भृगुकुलोत्तंसदंशदंशितमद्रजे । दृष्ट्वैव हि पलायन्ते मृत्युं दृष्ट्वैव हि प्रजाः ॥४८॥
जामदग्न्यस्य यो वाञ्छेत्सान्निध्यं योगिदुर्लभम् । दारिद्र्यदुःखशमनं संसारभयनाशनम् ॥४९॥
स महेन्द्रस्य शिखरे स्नात्वोपस्थाय भास्करम् । तन्मध्यवर्तिनं शान्तं जटामण्डलमण्डितम् ॥५०॥
परश्चधधनुर्दण्डराजितां सद्वयान्वितम् । अक्षसूत्रं सुविभ्राणं दक्षिणेऽङ्गुलिपल्लवे ॥५१॥
वामजानुतलन्यस्तवामपाणि कुशेशयम् । उन्मज्जज्ज्वलं ग्रीवमामीलित विलोचनम् ॥५२॥
सुप्रसन्नमुखाम्भोजं सुस्मितं पल्लवाधरम् । सुन्दरं सुन्दरापाङ्गं भोगिभोगभुजद्वयम् ॥५३॥
भक्तानुग्राहकं देवं जामदग्न्यं जगत्पतिम् । ध्यायन्तमात्मनात्मानं ध्यायेत्प्रणतवस्तलम् ॥५४॥
अथ द्वादशभिः पुण्यैर्नामभिः पापहारिभिः । जपतामिष्टदैर्भृत्यपारिजातं समर्चयेत् ॥५५॥
जामदग्न्यो जनन्नेता ब्रह्मण्यो ब्रह्मवत्सलः । कीर्तवीर्यकुलोच्छेत्ता क्षत्रवंशप्रतापनः ॥५६॥
विश्वजिद्दीक्षितो रामः कश्यपाशासुरद्रुमः । परश्वधधरः शान्तो महेन्द्रकृतकेतनः ॥५७॥
एतैर्द्वादशभिर्दिव्यैर्गोप्यैरभ्यर्च्य नामभिः । उपतिष्ठेत्पुनर्गुह्यैर्मुख्यैर्नामभिरीश्वरम् । क्षिप्रप्रसादजननैश्चतुर्वर्गफलोदयैः ॥५८॥
हन्त ते सम्प्रवक्ष्यामि तान्यपि प्रणतासि यत् । इमानि गौरि नामानि सुगोप्यानि सतामपि ॥५९॥
ॐ हंसस्त्रयीमयो धाता योगीन्द्रहृदालयः । त्रिधामा त्रिगुणातीतस्त्रिमूर्तिस्त्रिजगन्मयः ॥६०॥
नारायणः परं ब्रह्म परं तत्त्वं परात्परः । भार्गवो धर्मचरणो भर्गरूपः सतां गतिः ॥६१॥
इति षोडशभिः स्तुत्वा नामभिऋर्षिपुङ्गवम् । सर्वाशिषां पतिं देवं सकलाभीष्टदायकैः ॥६२॥
आत्मानं विन्यसेदङ्गेष्वनेन कवचेन सः । मृगीमुद्रिकया धीमान्वज्रसारेण सारवित् ॥६३॥
दशचारं प्रतिदिनं मासमेकं समाचरेत् । स्पप्ने पश्यति देवेशं भार्गवं भृगुनन्दनम् ॥६४॥
चिन्तितार्थप्रदं सौम्यं चिन्तामणिमिवापरम् । मासत्रयं तु विन्यस्ते साक्षात्पश्यति जापकः ॥६५॥
मनसः सम्प्रसादेन लब्ध्वा वरमनुत्तमम् । अणिमादिगुणैर्युक्तो ब्रह्मलोकमवाप्नुयात् ॥६६॥
अथवा योगसिद्धिं यो धातु सिद्धिं च वाच्छति । कुरुक्षेत्रे महेन्द्रे वा जपेदयुतमात्मवान् ॥६७॥
सर्वाश्चौषधयस्तस्य खेचरत्वाधिसिद्धिदाः । रससिद्धिप्रदाश्चापि सिध्यन्त्यस्य न संशयः ॥६८॥
महेन्द्राद्रिरिव क्षेत्रं सिद्धिदं नास्ति भूतले । जामदग्न्य इवान्योऽस्ति न देवो भृत्यवत्सलः ॥६९॥
प्रस्फुरद्रुणसौवर्णराशीनां जन्मभूः परः । तथेदमिव वर्मान्यद्धर्मादिफलदं न हि ॥७०॥
कवचेऽस्मिन्सकृज्जप्ते मन्त्रावृत्ति सहस्रजम् । फलमाप्नोत्यविकलं तस्मान्नित्यं जपेन्नरः ॥७१॥
अमन्त्री वापि मन्त्री वा भार्गवे भक्तिमान्नरः । जपेन्नित्यमिदं वर्म मन्त्रसिद्धिमवाप्नुयात् ॥७२॥
सारस्वतमिदं देवि कवचं वाक्प्रदं नृणाम्॥
मूकोऽपि वाग्मी भवति जपन्नेतद्रुरुर्यथा ॥७३॥
नित्यं परश्वधभृतः कवचस्यास्य धारणात् । सभासु वदतां श्रेष्ठो राज्ञां भवति च प्रियः ॥७४॥
वैदिकं तान्त्रिकं चैव मान्त्रिकं ज्ञानमुत्तमम् । कवचस्यास्य जापी तु ब्रह्मज्ञानं च विन्दति ॥७५॥
इत्येतदुक्तं कवचं मया हैहयविद्विषः । गोपनीयमिदं देवि ममात्मासि मणिर्यथा ॥७६॥
धन्यं यशस्यमायुष्यं श्रीकरं पुष्टिवर्धनम् । जपतां कवचं नित्यं सर्वसौभाग्यपूरितम् ॥७७॥
इति श्री विष्णुयामले उपरिभागे जामदग्न्यदिव्याञ्जनसिद्धि - कल्पे त्रयस्त्रिंशत्पटलः ॥श्री भार्गवार्पणमस्तु ॥
॥ इति श्रीभार्गवकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 01, 2025

TOP