संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः । अथापरं ...

श्रीनृसिंहकवचम् - श्रीगणेशाय नमः । अथापरं ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः । अथापरं प्रवक्ष्यामि ह्यल्पमृत्यु हरंपरम् । उपायं यत्कृतेनाङ्ग शीघ्रं मृत्युर्निवर्तते ॥१॥
नृसिंहकवचं नाम स्तोत्रं परमदुर्लभम् । यस्य धारणया क्षिप्रमल्पमृत्युर्विनश्यति ॥२॥
अरुण उवाच - भगवन्देवदेवेश कृपया परयाऽधुना । नृसिंहकवचं दिव्यं गुह्यं भक्ताय मे वद ॥३॥
सूर्य उवाच - श‍ृणु पुत्र प्रवक्ष्यामि नृसिंहकवचं शुभम् । यस्य विज्ञानमात्रेण नश्यन्ति सकलापदः ॥४॥
ग्रहबाधा प्रेतबाधा बाधा या कुलदोषजा । कृत्यया जनिता बाधा शत्रुबाधा स्वकर्मजा ॥५॥
शीघ्रं नश्यन्ति ताः सर्वाः कवचस्य प्रभावतः । असाध्या ये च दुस्साध्या महारोगा भयङ्कराः ॥६॥
सद्यो नश्यन्ति पठनात्कवचस्यास्य सारथे । जलभीतिश्चाग्निभीतिर्भीतिः शत्रुगणादपि ॥७॥
सिंहव्याघ्रादिजा भीतिः शीघ्रं सर्वा विनश्यति । सङ्ग्रामे दुर्गमेऽरण्ये सङ्कटे प्राणसंशये ॥८॥
पठतो विजयो रक्षा सुखं सौभाग्यसम्पदः । पुत्रसौख्यं राजसौख्यं धनसौख्यमृणक्षयः ॥९॥
कुटुम्बवृद्धिः कल्याणमारोग्यं विजयः सदा । अल्पमृत्युभयं घोरं पाठादस्य विनश्यति ॥१०॥
अल्पमृत्युहरश्चात उपायो न परः स्मृतः । अल्पमृत्युहरं नाम कवचं चेदमुत्तमम् ॥११॥
सिंहप्रणादान्मत्तोऽपि गजेन्द्रस्तु पलायते । अल्पमृत्युस्तथा चास्य पाठात्सद्यो निरस्यते ॥१२॥
सहस्रपञ्चकावृतिं पठेद्यः सुसमाहितः । अल्पमृत्युभयं तस्य प्रभवेन्नैव कर्हिचित् ॥१३॥
अथ पाठः - नृसिंहो मे शिरः पातु पातु भालं नृकेसरी । भ्रुवौ नृसिंहो मे पातु नृसिंहो नयनद्वयम् ॥१४॥
नृसिंहो नासिके पातु कर्णौ पातु नृकेसरी । नृसिंहो मे मुखं पातु कपोलौ रक्षताद्धरिः ॥१५॥
नृसिंहश्चिबुकं रक्षेत्कण्ठं पातु नृकेसरी । स्कन्धौ पातु नृसिंहो मे भुजौ पातु नृकेसरी ॥१६॥
करद्वयं नृसिंहोऽव्यान्नृसिंहो रक्षतादुरः । नृसिंहो हृदयं पातु नृसिंहोऽव्यात्तथोदरम् ॥१७॥
कुक्षिं नरहरिः पातु नाभिं पातु नृकेसरी । बस्तिं च गुह्यदेशं च नृसिंहोऽव्यात्सदा मम ॥१८॥
नृसिंहो जानुनी पातु जङ्घे पातु नृकेसरी । पादौ गुल्फौ सदा पातु नृसिंहो मम रक्षकः ॥१९॥
अग्रतः पृष्ठतो मेऽव्यात्तथा पार्श्वद्वयं सदा । नृसिंहः सर्वगात्राणि मम रक्षतु सर्वदा ॥२०॥
नृसिंहो रक्षतात्पूर्वे वह्निकोणे नृकेसरी । नैरृत्यां नरसिंहोऽव्यानृसिंहः पातु पश्चिमे ॥२१॥
नृसिंहो वायुकोणेऽव्यादुत्तरेऽव्यान्नृकेसरी । नृसिंहोऽव्यात्तथेशाने ह्यध ऊर्ध्वं समन्ततः ॥२२॥
जले सदा रक्षतु मां नृसिंहः स्थलेषु मां पातु सदा नृसिंहः । नभस्तले भूमितले समन्तानृकेसरी रक्षतु सर्वदा माम् ॥२३॥
दुर्गाध्वदुर्गभवनेषु च सङ्कटेषु प्राणप्रयाणभयविघ्नसमुच्चयेषु । शीतोष्णवातरिपुरोगभयेषु युद्धे सङ्कष्टनाशनपरोऽवतु मां नृसिंहः ॥२४॥
छिनत्तु चक्रेण सदाऽरिवर्गान्सर्वान्नृसिंहो मम मृत्युरूपान् । असाध्यदुस्साध्यसमस्तरोगान्भिन्द्यान्नृसिंहः स्वगदाभिघातैः ॥२५॥
प्रेतान्पिशाचान्सगणान्स्वनेन शङ्खस्य विद्रावयतान्नृसिंहः । कूष्माण्डबालग्रहयक्षरक्षः स डाकिनीः शाकिनिकाः समस्ताः ॥२६॥
खड्गेन मे मृत्युनिसर्गपाशं सञ्छिद्य मां पातु सदा नृसिंहः । सदाऽपमृत्योश्च तथाऽल्पमृत्योर्विमोच्य मां रक्षतुनारसिंहः ॥२७॥
भक्तसंरक्षणार्थाय विदार्यस्तम्भमुद्गतः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं में करिष्यति ॥२८॥
अट्टाट्टहासतो यस्य सर्वे देवाश्चकम्पिरे । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥२९॥
हिरण्यकशिपोर्वक्षो ददारनिशितैर्नखैः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥३०॥
यस्य भ्रूभङ्गमात्रेण त्रस्तमासीज्जगत्त्रयम् । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥३१॥
उत्क्षिप्तसटया व्यग्रा देवा दैत्या विदुद्रुवुः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥३२॥
यन्नामस्मरणादेव दह्यन्ते विघ्नराशयः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥३३॥
यदङ्घ्रिध्यानतःसद्यो विलीयन्तेऽघराशयः । नृसिंहो रक्षकः सोऽस्तु मृत्युः किं मे करिष्यति ॥३४॥
माता नृसिंहश्च पिता नृसिंहो भ्राता नृसिंहश्च सखा नृसिंहः । बलं नृसिंहो द्रविणं नृसिंहः सर्वं नृसिंहो मम देवदेवः ॥३५॥
इति ते कथितं पुत्र नृसिंहकवचं शुभम् । अस्य धारणतः पाठादल्पमृत्युः प्रशाम्यति ॥३६॥
शतं वाऽथ तदर्धं वा तदर्धं वा सदक्षिणम् । विप्रेभ्यः पुस्तकं दद्यादल्पमृत्युप्रशान्तये ॥३७॥
इति श्रीसूर्यारुणसंवादे अपमृत्युहरं नृसिंहकवचं समाप्तम् ॥
॥ ॐ तत्सत्परमात्मनेनमः ॥

N/A

References : N/A
Last Updated : November 26, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP