संस्कृत सूची|
संस्कृत साहित्य|
कवच|
दधीचिरुवाच कवचं देवदेवस्...
शिवकवचम् - दधीचिरुवाच कवचं देवदेवस्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
दधीचिरुवाच कवचं देवदेवस्य वक्ष्येशृणु नराधिप । येनाऽऽवृतो महादुःखैर्मुक्तो मुक्ति च विन्दति ॥१३७॥
- - ध्येयः श्रीमन्महादेवः साम्बः संसारमोचकः । पवित्रहृदयैः शुद्धैर्भस्मरुद्राक्षभूषणैः ॥१३८॥
श्रीविश्वेश्वर मुमासहायमनघं विश्वात्मकं चिद्घनम् । सत्यं ज्ञानमनन्तमक्षरमजं निर्लिप्तमेकं प्रभुम् ॥१३९॥
ओङ्कारात्मकमक्षरं परतरं ब्रह्मादिभिर्भावितम् । सानन्दं हृदि भावयेद्भवभयध्वान्तान्तमानन्ददम् ॥१४०॥
एवं ध्यात्वा महादेवं सच्चिदानन्दलक्षणम् । कवचेनावृतो भूत्वा मृत्युपाशैर्विमुच्यते ॥१४१॥
- - यद्ब्रह्मरन्ध्रं मम संविदाभं तद्ब्रह्मरन्ध्रं भगवानुमेशः । पायात्स संस्थानमनन्तलक्षणं निवार्य सर्वाघकुलं निरन्तरम् ॥१४२॥
तत्पार्श्वर्घाग्निगमान्त चारी रुद्रः शिखायां तु शिवावतंसः । शिरः शिखां पातु ममेन्दुचूडः भालं ममाव्याज्ज्वलनोरुभालः ॥१४३॥
वामं कपोलं मम पातु शम्भुः कपोलमीशोऽवतु दक्षिणं मे । पायाद्गिरीशो मम वामनेत्रं त्रिलोचनो दक्षिणमक्षि पायात् ॥१४४॥
भ्रूयुग्ममव्याद्वृषभध्वजो मे भ्रूमध्यमव्यान्मखनाशदक्षः । नासापुटं पातु ममान्तकान्तको नासान्तरं पातु पिनाकपाणिः ॥१४५॥
मुखं ममाव्यात्स च पञ्चवक्त्रः पायान्ममौष्ठौ गजकृत्तिवासाः । दन्तान्ममाव्यात्प्रभुरिन्द्र दन्तो जिह्वां ममाव्यान्निगमान्तजिह्वः ॥१४६॥
श्रीनीलकण्ठोऽवतु कण्ठदेशं पायान्महेशोऽवतु कण्ठपार्श्वम् । स्कन्धौ ममाव्यान्मदनान्तकारी वक्षः स्थलं पातु ममाम्बिकेशः ॥१४७॥
विश्वम्भरोऽव्यादुदरं ममेदं सर्वेश्वरो रक्षतु रोमकूपान् । आन्त्राणि पायादुरुशक्तिरव्या- दस्थीनि विश्वस्थितिनाशहेतुः ॥१४८॥
त्रिय(त्र्य)म्बको दक्षिणबाहुमव्या- द्वामं ममाव्याद्भुजगावनद्धः । प्रकोष्ठमव्याद्गिरिराजचापो हस्तौ ममाव्याद्वरशूलहस्तः ॥१४९॥
विशाखनाथोऽवतु हस्तशाखा- न्नखान्ममाव्यान्नरसिह्म हारी । पृष्ठं ममाव्यात्रिपुरारि रव्या- त्कटिद्वयं मे गिरिजासहायः ॥१५०॥
कट्यन्तरालं मम पातु शम्भु- रूरुद्वयं मे मृगशाबपाणिः । जानुद्वयं पातु जनार्दनेशो गुल्फद्वयं पातु विराट्स्वरूपः ॥१५१॥
पादौ ममाव्यादमरैकवन्द्यः पायाद्धरः पादतलद्वयं मे । पादाङ्गुलीः पातु समस्तरूपो सर्वां तनुं पातु महेश्वरो मे ॥१५२॥
प्राच्यां सदा रक्षतु नीतुरुद्रो कर्पूर गौरोऽवतु दक्षिणस्याम् । पातु प्रतीच्यां भगनेत्रहारी पायादुदीच्यां जगदेकनाथः ॥१५३॥
ममोर्ध्वमव्यादुडुराजकान्ति- रधो ममाव्यादुरगेन्द्र भूषः । दिगन्तरालेषु समस्तनाथः पायाद्वृषीधीश्वरकेतुलक्ष्यः ॥१५४॥
नदीषु मां रक्षतु विश्वनाथः कूपेषु मां रक्षतु विश्वमूर्तिः । पायात्समुद्रेषु जलाधिराजः सरित्समुद्रादिविधानदक्षः ॥१५५॥
वापीषु पायादतिबाह्यवर्ती दवानलात्पातु दरीशहारः । गर्तेषु पायात्सुरगर्वहारी वृक्षेषु पायाद्वृषभध्वजोमाम् ॥१५६॥
पायाद्गजेभ्यो गजदर्पहारी पायादहिभ्योऽपि हि वीरभद्रः । पायात्समेभ्यो विषसर्पहारी पायात्त्रिमूर्तिविषवृश्चिकेभ्यः ॥१५७॥
भूताधिपः पातु विरोधिभीतेः रक्षः पिशाचिदिभयात्कपाली । मृत्युञ्जयो रक्षतु मृत्युभीतेः कालाग्निरुद्रोऽवतु कालभीतेः ॥१५८॥
पापारिरव्याद्बहुपातकेभ्यः पायाद्ग्रहेभ्यः कमलासनार्च्यः । श्री विष्णुनेत्रार्चित पादपद्मः पातु प्रभातेष्वखिलेषु शम्भुः ॥१५९॥
मध्यन्दिनेष्वेव मृडोऽनिशं मां सायाह्नकालेऽप्यमराधिनाथः । महेश्वरो रक्षतु मध्यरात्रे पायादुषस्यान्धकनाशहेतुः ॥१६०॥
सर्षेषुकालेष्वपि पातु शम्भु- रुमाङ्गसंश्लिष्टमनोक्षदेहः । मार्गे मृगव्याधवपुर्धरोऽव्याद् युद्धेषु पायादसुरौघदारी ॥१६१॥
सर्वत्र सर्वार्तिहरो हरोव्या- त्सर्वेप्सितार्थप्रदरूपधरी(धारी) । रक्षाविहिनस्थलमस्ति यन्मे तत्रावतु श्रीवरवीरभद्रः ॥१६२॥
- - कृत्वैवं कवचं पूर्वं स्तोत्रमेतत्पठेन्नरः । स्तोत्रं चैतन्महेशेन तस्मा आख्यातमादरात् ॥१६३॥
॥ इति शिवरहस्यान्तर्गते ऋषिदधीचिप्रोक्तं शिवकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP