संस्कृत सूची|संस्कृत साहित्य|कवच|
अथ विनियोगः - अस्य श्रीब...

बटुकेश्वरब्रह्मकवचं - अथ विनियोगः - अस्य श्रीब...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अथ विनियोगः - अस्य श्रीबटुकभैरवकवचराजस्य भैरवऋषिरनुष्टुप्छन्दः श्री बटुकभैरवो देवता मम बटुकभैरवप्रसाद सिध्यर्थे जपे विनियोगः । ॐ पातु शिरसि नित्यं पातु ह्रीं कण्ठदेशके । बटुकाय पातु नाभौ चापदुद्धारणाय च ॥१॥
कुरुद्वयं लिङ्गमूले त्वाधारे बटुकाय च । सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥२॥
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः । ॐ ह्रीं बटुकाय सततं सर्वाङ्ग मम सर्वदा ॥३॥
ॐ ह्रीं पादौ महाकालः पातु वीरासनेहृदि । ॐ ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ॥४॥
गणराट् पातु जिह्वायामष्टभिः शक्तिभिः सह । दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ॥५॥
विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदा । अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ॥६॥
असिताङ्ग शिरः पातु ललाटं रुरुभैरवः । चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ॥७॥
उन्मत्तभैरवः पातु हृदयं मम सर्वदा । नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ॥८॥
संहारभैरवः पातु मूलाधारं च सर्वदा । बाहुयुग्मं सदा पातु भैरवो मम केवलम् ॥९॥
हंसबीजं पातु हृदि सोऽहं रक्षतु पादयोः । प्राणापानौ समानं च उदानं व्यानमेव च ॥१०॥
रक्षन्तु द्वारमूले तु दशदिक्षु समन्ततः । प्रणवः पातु सर्वाङ्गगं लज्जाबीजं महाभये ॥११॥
॥ इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥
(रुद्रयामलोक्तः)

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP