संस्कृत सूची|
संस्कृत साहित्य|
कवच|
कवचं राघवेन्द्रस्य यतीन्द...
श्रीराघवेन्द्रकवचम् - कवचं राघवेन्द्रस्य यतीन्द...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
कवचं राघवेन्द्रस्य यतीन्द्रस्य महात्मनः । वक्ष्यामि गुरुवर्यस्य वाञ्छितार्थप्रदायकम् ॥१॥
ऋषिरस्याप्पणाचार्यः छन्दोऽनुष्टुप् प्रकीर्तितम् । देवता श्रीराघवेन्द्रगुरुरिष्टार्थसिद्धये ॥२॥
अष्टोत्तरशतं जप्यं भक्तियुक्तेन चेतसा । उद्यत्प्रद्योतनद्योतभर्मकूर्मासने स्थितम् ॥३॥
एद्यखद्योतनद्योतप्रतापं राममानसम् । धृतकाषायवसनं तुलसीहारवक्षसम् ॥४॥
दोर्दण्डविलसद्दण्डकमण्डलुविराजितम् । अभयज्ञानमुद्राक्षमालाशीलकराम्बुजम् ॥५॥
योगीन्द्रवन्द्यपादाब्जं राघवेन्द्रगुरुं भजे । शिरो रक्षतु मे नित्यं राघवेन्द्रोऽखिलेष्टदः ॥६॥
पापाद्रिपाटने वज्रः केशान् रक्षतु मे सदा । क्षमासुरगणाधीशो मुखं रक्षतु मे गुरुः ॥७॥
हरिसेवालब्धसर्वसम्पत्भालं ममावतु । देवस्वभावोऽवतु मे दृशौ तत्त्वप्रदर्शकः ॥८॥
इष्टप्रदाने कल्पद्रुः श्रोत्रे श्रुत्यर्थबोधकः । भव्यस्वरूपो मे नासां जिह्वां मेऽवतु भव्यकृत् ॥९॥
आस्यं रक्षतु मे दुःखतूलसङ्घाग्निचर्यकः । सुखधैर्यादिसुगुणो भ्रुवौ मम सदाऽवतु ॥१०॥
ओष्ठौ रक्षतु मे सर्वग्रहनिग्रहशक्तिमान् । उपप्लवोदधेस्सेतुर्दन्तान् रक्षतु मे सदा ॥११॥
निरस्तदोषो मे पातु कपोलौ सर्वपालकः । निरवद्यमहावेषः कण्ठं मेऽवतु सर्वदा ॥१२॥
कर्णमूले तु प्रत्यर्थिमूकत्वाकरवाङ् मम । बहुवादिजयी पातु हस्तौ सत्तत्त्ववादकृत् ॥१३॥
करौ रक्षतु मे विद्वत्परिज्ञेयविशेषवान् । वाग्वैखरीभव्यशेषजयी वक्षस्थलं मम ॥१४॥
सतीसन्तानसम्पत्तिभक्तिज्ञानादिवृद्धिकृत् । स्तनौ रक्षतु मे नित्यं शरीरावद्यहानिकृत् ॥१५॥
पुण्यवर्धनपादाब्जाभिषेकजलसञ्चयः । नाभिं रक्षतु मे पार्श्वौ द्युनदीतुल्यसद्गुणः ॥१६॥
पृष्ठं रक्षतु मे नित्यं तापत्रयविनाशकृत् । कटिं मे रक्षतु सदा वन्ध्यासत्पुत्रदायकः ॥१७॥
जघनं मेऽवतु सदा व्यङ्गस्वङ्गसमृद्धिकृत् । गुह्यं रक्षतु मे पापग्रहारिष्टविनाशकृत् ॥१८॥
भक्ताघविध्वंसकरनिजमूर्तिप्रदर्शकः । मूर्तिमान्पातु मे रोमं राघवेन्द्रो जगद्गुरुः ॥१९॥
सर्वतन्त्रस्वतन्त्रोऽसौ जानुनी मे सदाऽवतु । जङ्घे रक्षतु मे नित्यं श्रीमध्वमतवर्धनः ॥२०॥
विजयीन्द्रकराब्जोत्थसुधीन्द्रवरपुत्रकः । गुल्फौ श्रीराघवेन्द्रो मे यतिराट् सर्वदाऽवतु ॥। २१॥
पादौ रक्षतु मे सर्वभयहारी कृपानिधिः । ज्ञानभक्तिसुपुत्रायुर्यशः श्रीपुण्यवर्धनः ॥२२॥
करपादाङ्गुलीः सर्वा ममावतु जगद्गुरुः । प्रतिवादिजयस्वान्तभेदचिह्नादरो गुरुः ॥२३॥
नखानवतु मे सर्वान् सर्वशास्त्रविशारदः । अपरोक्षीकृतश्रीशः प्राच्यां दिशि सदाऽवतु ॥२४॥
स दक्षिणे चावतु मां समुपेक्षितभावजः । अपेक्षितप्रदाता च प्रतीच्यामवतु प्रभुः ॥२५॥
दयादाक्षिण्यवैराग्यवाक्पाटवमुखाङ्कितः । सदोदीच्यामवतु मां शापानुग्रहशक्तिमान् ॥२६॥
निखिलेन्द्रियदोषघ्नो महानुग्रहकृद्गुरुः । अधश्चोर्ध्वं चावतु मामष्टाक्षरमनूदितम् ॥२७॥
आत्माऽऽत्मीयाघराशिघ्नो मां रक्षतु विदिक्षु च । चतुर्णां च पुमर्थानां दाता प्रातः सदाऽवतु ॥२८॥
सङ्ग्रामेऽवतु मां नित्यं तत्त्ववित्सर्वसौख्यकृत् । मध्याह्नेऽगम्यमहिमा मां रक्षतु महायशाः ॥२९॥
मृतपोतप्राणदाता सायाह्ने मां सदाऽवतु । वेदिस्थपुरुषोज्जीवी निशीथे पातु मां गुरुः ॥३०॥
वह्निस्थमालिकोद्धर्ता वह्नितापात्सदाऽवतु । समग्रटीकाव्याख्याता गुरुर्मे विषयेऽवतु ॥३१॥
कान्तारेऽवतु मां नित्यं भाट्ट (भाष्य) सङ्ग्रहकृद्गुरुः । सुधापरिमळोद्धर्ता सु (स्व)च्छन्दस्तु सदाऽवतु ॥३२॥
राजचोरविषव्याधियादोवन्यमृगादिभिः । अपस्मारापहर्ता नः शास्त्रवित्सर्वदाऽवतु ॥३३॥
गतौ सर्वत्र मां पातूपनिषदर्थकृद्गुरुः । ऋग्व्याख्यानकृदाचार्यः स्थितौ रक्षतु मां सदा ॥३४॥
मन्त्रालयनिवासी मां जाग्रत्काले सदाऽवतु । न्यायमुक्तावलीकर्ता स्वप्ने रक्षतु मां सदा ॥३५॥
मां पातु चन्द्रिकाव्याख्याकर्ता सुप्तौ हि तत्त्वकृत् । सुतन्त्रदीपिकाकर्ता मुक्तौ रक्षतु मां गुरुः ॥३६॥
गीतार्थसङ्ग्रहकरस्सदा रक्षतु मां गुरुः । श्रीमध्वमतदुग्धाब्धिचन्द्रोऽवतु सदाऽनघः ॥३७॥
इति श्रीराघवेन्द्रस्य कवचं पापनाशनम् । सर्वव्याधिहरं सद्यः पावनं पुण्यवर्धनम् ॥३८॥
य इदं पठते नित्यं नियमेन समाहितः । अदृष्टिः पूर्णदृष्टिः स्यादेडमूकोऽपि वाक्पतिः ॥३९॥
पूर्णायुः पूर्णसम्पत्तिभक्तिज्ञानाभिवृद्धिकृत् । पीत्वा वारि नरो येन कवचेनाभिमन्त्रितम् ॥४०॥
जहाति कुक्षिगान् रोगान् गुरुवर्यप्रसादतः । प्रदक्षिणनमस्कारान् गुरोर्वृन्दावनस्य यः ॥४१॥
करोति परया भक्त्या तदेतत्कवचं पठन् । पङ्गुः कूणिश्च पौगण्डः पूर्णाङ्गो जायते ध्रुवम् ॥४२॥
शेषाश्च कुष्ठपूर्वाश्च नश्यन्त्यामयराशयः । अष्टाक्षरेण मन्त्रेण स्तोत्रेण कवचेन च ॥४३॥
वृन्दावने सन्निहितमभिषिच्य यथाविधि । यन्त्रे मन्त्राक्षराण्यष्टौ विलिख्यात्र प्रतिष्ठितम् ॥४४॥
षोडशैरुपचारैश्च सम्पूज्य त्रिजगद्गुरुम् । अष्टोत्तरशताख्याभिरर्चयेत्कुसुमादिभिः ॥४५॥
फलैश्च विविधैरेव गुरोरर्चां प्रकुर्वतः । नामश्रवणमात्रेण गुरुवर्यप्रसादतः ॥४६॥
भूतप्रेतपिशाचाद्याः विद्रवन्ति दिशो दश । पठेदेतत्त्रिकं नित्यं गुरोर्वृन्दावनान्तिके ॥४७॥
दीपं संयोज्य विद्यावान् सभासु विजयी भवेत् । राजचोरमहाव्याघ्रसर्पनक्रादिपीडनात् ॥४८॥
कवचस्य प्रभावेण भयं तस्य न जायते । सोमसूर्योपरागादिकाले वृन्दावनान्तिके ॥४९॥
कवचादित्रिकं पुण्यमप्पणाचार्यदर्शितम् । जपेद्यः स धनं पुत्रान् भार्यां च सुमनोरमाम् ॥५०॥
ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च शाश्वतीम् । संप्राप्य मोदते नित्यं गुरुवर्यप्रसादतः ॥५१॥
इति श्रीमदप्पणाचार्यविरचितं श्रीराघवेन्द्रकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 01, 2025

TOP