संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच - भगवन् सर...

गायत्रीकवचम् - श्रीदेव्युवाच - भगवन् सर...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच - भगवन् सर्वलोकेश, वेदतत्त्वाधिसागर । सर्वज्ञ भैरवेशान, जगन्नाथ कृपानिधे ॥१॥
कवचं देव गायत्र्याः, सर्वतत्त्वमयं परम् । मुक्तिचिन्तामणिं नाम, त्वया मे प्राङ्निवेदितम् ॥२॥
मन्त्रगर्भं सुरैः पूज्यं, सर्वापत्तारणं विभो! । ब्रह्मवेधमयं ब्रूहि, यद्यहं तव वल्लभा ॥३॥
श्रीभैरव उवाच -- श‍ृणु देवि ! प्रवक्ष्यामि, तव स्नेहाद् रहस्यकम् । कवचं तत्त्वभूतं ते, सर्वमन्त्रैक-विग्रहम् ॥४॥
मुक्तिचिन्तामणिं नाम, गायत्रीमन्त्र-विग्रहम् । मातृकाबीजनिलयं, व्याहृतिब्रह्मसम्मितम् ॥५॥
सर्वशक्तिमयं देवि ! सर्वारिष्टविमर्दनम् । महापातकविघ्नौघ-ब्रह्महत्यादिनाशनम् ॥६॥
विनियोगः- ॐ अस्य श्रीकवचस्यापि, ऋषिः प्रोक्तः सदाशिवः । गायत्रीदेवता देवि, बीजं प्रणव ईरितः ॥७॥
लक्ष्मीशक्तिः शिवा भीमा कीलकं समुदाहृतम् । धर्मार्थकाममोक्षार्थे, विनियोगस्तु धारणे ॥८॥
एवं विनियुज्य- ॐ अं शिरो मेऽवताद्देवी, गायत्री परमार्थदा । ॐ आं सौः मेऽवताद्देवी भालं वेदार्थसुन्दरी ॥१॥
ॐ इं हसौः भ्रुवौ पातु, मम तन्त्रार्थसुन्दरी । ॐ ईं सौः नयने पातु मम व्याहृतिसुन्दरी ॥२॥
ॐ उं ऐं मेऽवतात् कर्णौ, सदा भूर्लोकसुन्दरी । ॐ ऊं क्लीं मेऽवताद् गण्डौ श्रीभुवोलोकसुन्दरी ॥३॥
ॐ ऋं श्रीं मेऽवताद् नासां सा स्वर्लोकैकसुन्दरी । ॐ ऋं ह्रीं मेऽवतादोष्ठौ महर्लोकैकसुन्दरी ॥४॥
ॐ लृं क्लीं मेऽवताद्दन्ताञ्जनलोकैकसुन्दरी । ॐ लृं ग्लौं मेऽवताज्जिह्वां तपोलोकैकसुन्दरी ॥५॥
ॐ एं गां पातु मे वक्त्रं सत्यलोकैकसुन्दरी । ॐ ऐं यं पातु मे कण्ठं सदाभुवनसुन्दरी ॥६॥
ॐ ॐ त्रीं पातु मे स्कन्धौ, सदा ब्रह्माण्डसुन्दरी । ॐ औं श्रीं पातु मे बाहू सदा सर्वाङ्गसुन्दरी ॥७॥
ॐ अं श्रीं पातु मे हस्तौ, सदा सर्वार्थसुन्दरी । ॐ अः ह्रीं पातु मे वक्षः सदा देवेन्द्रसुन्दरी ॥८॥
ॐ कं श्रीं पातु मे पृष्ठं, सदा दानवसुन्दरी । ॐ खं श्रीं पातु मे पार्श्वौः श्रीविद्याधरसुन्दरी ॥९॥
ॐ गं ह्रीं पातु मे कुक्षी, अप्सरोलोकसुन्दरी । ॐ घं ऐं पातु मे नाभिं यक्षलोकैकसुन्दरी ॥१०॥
ॐ ङ प्रिं मेऽवतान्मेढ्रं, रक्षोलोकैकसुन्दरी । ॐ चं स्त्रीं मेऽवताच्छिश्नं सदा गन्धर्वसुन्दरी ॥११॥
ॐ छं हां पातु मे ऊरू, सदा गुह्यकसुन्दरी । ॐ जं स्वा पातु मे जानू सिद्धलोकैकसुन्दरी ॥१२॥
ॐ झं ह्रीं पातु मे तत्र पृथुलं मांस-सञ्चयम् । ॐ ञं ऐं पातु मे तत्र दृढमस्थिचयं सदा ॥१३॥
ॐ टं स्त्रीं पातु मे जङ्घे  भूतलोकैकसुन्दरी । ॐ ठं प्रिं पातु मे गुल्फो नागलोकैकसुन्दरी ॥१४॥
ॐ डं ऐं पातु मे पादौ मर्त्यलोकैकसुन्दरी । विस्मारितं च तत्स्थानं यत्स्थानं नामवर्जितम् ॥१५॥
ॐ ढं ह्रीं पातु तत्सर्वं वपुस्त्रिपुरसुन्दरी । ॐ णं ह्रीं पूर्व इन्द्रोऽव्यात् ॐ तं श्रीं अग्निरग्रतः ॥१६॥
ॐ थं ह्रीं दक्षिणे धर्मो, ॐ दं श्रीं नैऋत्यां स्वतः । ॐ धं श्रीं श्री वरुणः पातु पश्चिमे मां जलेश्वरः ॥१७॥
ॐ नं श्रीं वायुतो वायुर्वायव्वे मां सदाऽवतु । ॐ पं श्रीं मामुदरे पातु कुबेरोयक्षराट् सदा ॥१८॥
ॐ फं यं मामीश्वरः पातु स्वयमीशाननायकः । ॐ बं गां ऊर्ध्वमात्मभूर्भगवान् सर्वदाऽवतु ॥१९॥
ॐ भं ग्लौं पातु मां विष्णुरधस्तात् सर्वदा हरिः । ॐ मं भै मे गुरुः प्रातः  ॐ यं श्रीं मां मध्यवासरे ॥२०॥
ॐ रं ह्रीं मेऽवतात् सायं परात्पर-गुरुस्तथा । ॐ लं क्लीं मां निशीथेऽव्यात् परमेष्ठि गुरुः सदा ॥२१॥
ॐ वं ऐं मां निशीथान्ते पातु साधक-नायकी । ॐ शं श्रीं मां भगवती ब्रह्मरूपा दिनेऽवतु ॥२२॥
ॐ षं ह्रीं मां जगन्माता विष्णुरूपा सदाऽवतु । ॐ सं ऐं मां वेदमाता शिवरूपा सदाऽवतु ॥२३॥
ॐ ह्रं श्रीं मां चक्रतः पातु गायत्री चक्रनायकी । ॐ (मूलं) लं क्ष रूपं मां पायात् सदा सद्ब्रह्मनायकी ॥२४॥
लक्ष्मीर्लक्ष्मीं सदा पातु, कीर्तिं कीर्तिः सदाऽवतु । धृतिं-धैर्यं सदा पातु धन्या भाग्यं ममाऽवतु ॥२५॥
स्थितं स्थिता सदा पातु, शान्तिः शान्तिं प्रयच्छतु । विभा दीप्तिं सदा पातु मतिर्बुद्धिं ममाऽवतु ॥२६॥
गतिर्गतिं च मे पातु, भ्रान्तिर्भ्रान्तिं सदाऽवतु । नतिर्नतिं च मे पातु वाणी वाणीं प्रयच्छतु ॥२७॥
सेना सेनाधिपत्यं मे, शोभा शोभां प्रयच्छतु । क्रियादेवी क्रियासिद्धिं नुतिर्नुतिं प्रयच्छतु ॥२८॥
एताः षोडशपत्रस्थाः, पान्तु मां सर्वतोभयात् । ब्राह्मी पूर्वदले पातु वह्नौ नारायणी तथा ॥२९॥
दक्षिणे पातु मां चण्डी, नैऋते शाम्भवी तथा । पश्चिमेऽपराजिताऽव्यात्कौमारीवायुकोणतः ॥३०॥
वाराही चोत्तरे पातु, ईशाने नारसिंहिका । रुरुः सङ्ग्रामतः पातु चण्डो भूपभयात् सदा ॥३१॥
करालोऽव्यात् श्मशाने-मां संहारोऽव्यात् समुद्रतः । भीषणः पातु दुर्भिक्षात् कालाग्निः कालपाशतः ॥३२॥
उन्मत्तः पातु मां चौरात् क्रोधोऽव्यान्मां विपत्तितः । एते सशक्तिकाः पान्तु वसुपत्रेषु भैरवाः ॥३३॥
सरस्वती गिरं पातु, सती सत्यं सदाऽवतु । दुर्गा दुर्गतितो रक्षेत् सावित्री वसु रक्षतु ॥३४॥
श्रीब्रह्मवादिनी ज्ञानं श्रीमतीं श्रियमुत्तमाम् । कुब्जिका च कुलं क्षिप्रं पाशं संसारबन्धनात् ॥३५॥
तारिणी चारितो रक्षेद् ध्रुवं मां विश्वमङ्गला । बहिर्दशार-चक्रस्था पातु मां सर्वतः सदा ॥३६॥
त्रिपुरा पातु मां नित्यं, कालिकाऽवतु मां सदा । तारा मां पातु सततं सखी च सर्वदाऽवतु ॥३७॥
बगला पातु मां नित्यं, बाला मां पातु सर्वतः । बैखरी पातु मां नित्यं, देवी तुर्या सदाऽवतु । छिन्नशीर्षावतान्नित्यं, पातु मां भुवनेश्वरी । अन्तर्दशारचक्रस्था देवता पातु मां सदा ॥३९॥
गङ्गा मां पावनं पातु, यमुना पातु सर्वदा । सरस्वती च मां पातु त्रिकोणस्थाश्च देवताः ॥४०॥
मूलविद्या च मां पातु, गायत्री त्रिपदास्तवा । चतुर्मुखः शिवः पातु पातु पद्मासनः प्रभुः ॥४१॥
अक्षसूत्रं च मां पातु, पद्मं पातु शिवप्रियः । त्रिशूलं सर्वदा पातु लगुडं पातु सर्वदा ॥४२॥
मूलं च सर्वदा पातु चतुर्विंशाक्षरात्मकम् । सर्वत्र सर्वदा पातु परमार्थाधिदेवता ॥४३॥
 इति मन्त्रमयं दिव्यं कवचं देव-दुर्लभम् । गायत्र्यास्त्रिपदा देव्या लयाङ्गनिलयं परम् ॥४४॥
मूलविद्यामयं ब्रह्म, विद्यानिधिमयं परम् । सर्वदेवप्रियं मुक्तेः साधनं भुक्ति-वर्धनम् ॥४५॥
मुक्ति-चिन्तामणिर्नाम गायत्री-तत्त्वकारिणी । मारणं सर्व-शत्रूणां वारणं सकलापदाम् ॥४६॥
तारणं च भवाम्भोधेः सर्वैश्वर्यैककारणम् । र वौ यो ह्यष्टगन्धेन लिखेद् भूर्जे महेश्वरि ! ॥४७॥
श्वेतसूत्रेण संवेष्ट्य सौवर्णेनाथ वेष्टयेत् । पञ्चगव्येन संशोध्य गायत्रीरूपेण स्मरेत् ॥४८॥
तामर्चयेन्महादेवि ! विद्यया यन्त्रराजवत् । मकारैः पञ्चभिर्गोप्यर्महार्चनक्रमेश्वरः ॥४९॥
यथार्थतस्तत् सम्पूज्य गुटिं भोगापवर्गदाम् । बध्नीयात् कण्ठदेशे तु सर्वसिद्धिः प्रजायते ॥५०॥
शिरःस्था गुटिका देवि राजलोक-वशङ्करी । भूतस्था गुटिका देवि ! रणे विजयदायिनी ॥५१॥
कुक्षिस्था रोगशमनी, वक्षःस्था पुत्र-पौत्रदा । कण्ठस्थैश्वर्यदा लोके सर्व-सारस्वत-प्रदा ॥५२॥
 इत्येवं कवचं देवि! गायत्रीतत्त्वमुत्तमम् । गुह्यं गोप्यतमं देवि! गोपनीयं स्वयोनिवत् ॥५३॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP