संस्कृत सूची|
संस्कृत साहित्य|
कवच|
अस्य श्रीवाराहीकवचस्य त्र...
श्रीवाराहीकवचम् - अस्य श्रीवाराहीकवचस्य त्र...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
अस्य श्रीवाराहीकवचस्य त्रिलोचन ऋषीः । अनुष्टुप्छन्दः । श्रीवाराही देवता । ॐ बीजम् । ग्लौं शक्तिः । स्वाहेति कीलकम् । मम सर्वशत्रुनाशनार्थे जपे विनियोगः ॥
ध्यानम् - ध्यात्वेन्द्र नीलवर्णाभां चन्द्रसूर्याग्नि लोचनाम् । विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥१॥
ज्वलन्मणिगणप्रोक्त मकुटामाविलम्बिताम् । अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥२॥
एतैस्समस्तैर्विविधं बिभ्रतीं मुसलं हलम् । पात्वा हिंस्रान् हि कवचं भुक्तिमुक्ति फलप्रदम् ॥३॥
पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् । वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥४॥
नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी । घ्राणं मे रुन्धिनी पातु मुखं मे पातु जन्धिन् ॥ई ५॥
पातु मे मोहिनी जिह्वां स्तम्भिनी कन्थमादरात् । स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना ॥६॥
सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता । नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि ॥७॥
खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी । गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा ॥८॥
चण्डोच्चण्डश्चोरुयुगं जानुनी शत्रुमर्दिनी । जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयो ॥९॥
पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी । सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा ॥१०॥
युक्तायुक्ता स्थितं नित्यं सर्वपापात्प्रमुच्यते । सर्वे समर्थ्य संयुक्तं भक्तरक्षणतत्परम् ॥११॥
समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने । सर्वशत्रुविनाशाय शूलिना निर्मितं पुरा ॥१२॥
सर्वभक्तजनाश्रित्य सर्वविद्वेष संहतिः । वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥१३॥
तथाविधं भूतगणा न स्पृशन्ति कदाचन । आपदश्शत्रुचोरादि ग्रहदोषाश्च सम्भवाः ॥१४॥
मातापुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् । तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा ॥१५॥
इति श्रीवाराहीकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : December 02, 2025

TOP