संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः ॥ ॐ अस...

राहुकवचम् - श्रीगणेशाय नमः ॥ ॐ अस...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः ॥
ॐ अस्य श्रीराहुकवचस्तोत्रमन्त्रस्य चन्द्रमा ऋषिः, अनुष्टुप्छन्दः, रां बीजम्, नमः शक्तिः, स्वाहा कीलकम्, राहुकृत पीडानिवारणार्थे, धनधान्य, आयुरारोग्य आदि समृद्धि प्राप्तयर्थे जपे विनियोगः ॥
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥१॥
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥२॥
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ॥३॥
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ । पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥४॥
कटिं मे विकटः पातु ऊरू मे सुरपूजितः । स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ॥५॥
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः । सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ॥६॥
राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् । प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु- रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥७॥
॥ इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP