संस्कृत सूची|संस्कृत स्तोत्र साहित्य|कवच| श्रीआनन्दभैरव उवाच शैलजे... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... सदाशिवकवचम् - श्रीआनन्दभैरव उवाच शैलजे... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र सदाशिवकवचम् Translation - भाषांतर श्रीआनन्दभैरव उवाच शैलजे देवदेवेशि सर्वाम्नायप्रपूजिते । सर्वं मे कथितं देवि कवचं न प्रकाशितम् ॥१॥ प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय । सदाशिवमहादेवभावितं सिद्धिदायकम् ॥२॥ अप्रकाश्यं महामन्त्रं भैरवीभैरवोदयम् । सर्वरक्षाकरं देवि यदि स्नेहोऽस्ति मां प्रति ॥३॥ श्रीआनन्दभैरवी उवाच श्रूयतां भगवन्नाथ महाकाल कुलार्णव । प्रासादमन्त्रकवचं सदाशिवकुलोदयम् ॥४॥ प्रासादमन्त्रदेवस्य वामदेव ऋषिः स्मृतः । पङ्क्तिश्छन्दश्च देवेशः सदाशिवोऽत्र देवता ॥५॥ साधकाभीष्टसिद्धौ च विनियोगः प्रकीर्तितः । शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः ॥६॥ षडक्षरस्वरूपो मे वदनं तु महेश्वरः । अष्टाक्षरशक्तिरुद्धश्चक्षुषी मे सदाऽवतु ॥७॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा ॥८॥ वटमूलसमासीनो दक्षिणामूर्तिरव्ययः । सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥९॥ द्वाविंशार्णात्मको रुद्रः कुक्षिं मे परिरक्षतु । त्रिवर्णाढ्यो नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥१०॥ चिन्तामणिर्बीजरूपोऽर्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥११॥ एकाक्षरस्वरूपात्मा कूटव्यापी महेश्वरः । मार्तण्डो भैरवो नित्यं पादौ मे परिरक्षतु ॥१२॥ तुम्बुराख्यो महाबीजस्वरूपस्त्रिपुरान्तकः । सदा मारणभूमौ च रक्षतु त्रिदशाधिपः ॥१३॥ ऊर्ध्वमूर्ध्वानमीशानो मम रक्षतु सर्वदा । दक्षिणास्यं तत्पुरुषोऽवतु मे गिरिनायकः ॥१४॥ अघोराख्यो महादेवः पूर्वास्यं परिरक्षतु । वामदेवः पश्चिमास्यं सदा मे परिरक्षतु ॥१५॥ उत्तरास्यं सदा पातु सद्योजातस्वरूपधृक् । मृत्युजेता सदा पातु जलेऽरण्ये महाभये ॥१६॥ पर्वते विषमस्थाने विषहर्ता सदाऽवतु । कालरुद्रः सदा पातु सर्वाङ्गं कालदेवता ॥१७॥ कालाग्निरुद्रः सम्पातु महाव्याधिभयादिषु । अकालतारकः पातु खड्गधारी सदाशिवः ॥१८॥ कवची वामदेवश्च सदा पातु महाभये । कालभक्षः पातु रुद्रो रुरुकः क्षेत्रपालकः ॥१९॥ मातृकामण्डलं पातु सम्पूर्णचन्द्रशेखरः । चिरायुः शाकिनीभर्ता चायुषं पातु मे सदा ॥२०॥ सिंहस्कन्धः सदा पातु रुद्राणीवल्लभोऽवतु । भालं पातु वज्रदम्भालेखकः क्रान्तिरूपकः ॥२१॥ निरूपकः सदा पातु खेचरीखेचरप्रियः । रत्नमालाधरः पातु रक्तमुखीश्वरोऽवतु ॥२२॥ वदनं चक्षुषी कर्णौ पातु पञ्चाननो मम । वेदध्वनिः सदा पातु नासारन्ध्रद्वयं मम ॥२३॥ कपालधारकः पातु गण्डयुग्मं युगान्तकृत् । रक्तजिह्वापतिः पातु ममोष्ठाधरवासिनम् ॥२४॥ दन्तावलियुगं पातु भृगुरामेश्वरः शिवः । तालुमूलं सदा पातु विश्वभोजी रसामृतम् ॥२५॥ जिह्वाग्रं वाक्पतीशश्च भवानीशः शिवो मम । मुखवृत्तं सदा पातु महासेनः कवीश्वरः ॥२६॥ क्रोधनाथः सदा पातु दक्षहस्तादिमूलकम् । दक्षकूर्परमापातु तदग्रं कुक्कुरेश्वरः ॥२७॥ चिरजीवी सदा पातु चाङ्गुलीमूलदेशकम् । अङ्गुल्यग्रं सदा ब्रह्मा ब्रह्मलिङ्गधरः प्रभुः ॥२८॥ विद्यापतिः पार्वतीशो वामहस्तादिमूलकम् । पातु वामकूर्परं मे वामकेश्वर ईश्वरः ॥२९॥ कुण्डवासी सदा पातु कूर्पराग्रं कुलाचलः । वेदमातृपतिः पातु कामधेनुपतिः प्रभुः ॥३०॥ ममाङ्गुलीमूलदेशं पातु पञ्चमुखो मम । वामाङ्गुल्यग्रभागं मे पातु पर्वतपूजितः ॥३१॥ तनुमूलाग्रभागं मे कूर्मचक्रधरः प्रभुः । शाकिनीवल्लभः पातु दक्षाङ्घ्रिमध्यदेशकम् ॥३२॥ गुल्फाग्रं गर्गरीनाथः पादाग्रं मूलदेवता । अभयावल्लभः पातु दक्षाङ्गुल्यग्रभागकम् ॥३३॥ पातु स्मरहरो योगी वामोरुमूलदेशकम् । वामपादमध्यदेशं मध्यदेशेश्वरोऽवतु ॥३४॥ पातु मे भगवाञ्छम्भुर्मम गुल्फाग्रदेशकम् । मूलदेशं वामपादं पातु मेऽङ्गुष्ठमूलकम् ॥३५॥ कारणात्मा नीलकण्ठः प्रभाधारी यमान्तकः । अङ्गुष्ठाग्रं सदा पातु सुषुम्नानाडिकेश्वरः ॥३६॥ महारुद्रेश्वरः पातु मम नाभिमनोभवम् । उदरं गगनाधारः कामहर्ता हृदम्बुजम् ॥३७॥ सर्वानन्दात्मकः पातु मम स्कन्धयुगं शिवः । हृदयाद् दक्षहस्ताग्रपर्यन्तं पातु शोकहा ॥३८॥ हृदयाद् वामहस्ताग्रपर्यन्तं परमेश्वरः । हृदयान्मम दक्षाङ्घ्रिनखान्तं मे शिवोऽवतु ॥३९॥ सदानन्दा सदा पातु हृदाद्यङ्घ्रिं तु उन्मदः । वासुकीवल्लभः पातु हृदादिगुददेशकम् ॥४०॥ अनन्तनाथ आपातु हृदादिमूर्धदेशकम् । व्यापकः सर्वदा पातु सदाशिव उमापतिः ॥४१॥ तारात्मकः कायसिद्धः शक्तीशः शुक्रदेवता । पञ्चचूडः सदा पातु पञ्चतत्त्वाङ्गरूपकम् ॥४२॥ शीर्षादिपादपर्यन्तं कामधेनुः सदाऽवतु । जलेऽरण्ये घोरवने सङ्कटे च महापथे ॥४३॥ प्रान्तरे पातु गुप्ताक्षः कामराजः परापरः । अर्धनारीश्वरः पातु मातृकापरमेश्वरः ॥४४॥ मातृकामन्त्रपुटितः स्वस्वस्थानं सदावतु । धर्मात्मा धर्मसन्धिं मे पिङ्गलां पातु चण्डिकाम् ॥४५॥ विह्वलः सर्वदा पातु भोलानाथः सदाऽवतु । सर्वदेशे सर्वपीठे कामरूपे विशेषतः ॥४६॥ सर्वदा योगिनीनाथः परमात्मा सदाऽवतु । कामरूपाख्यपीठादि पञ्चाशत् पीठदेवताः ॥४७॥ पञ्चाशत्पीठमाया तु कामरूपं सदाशिवः । भवो रुद्रो महेशश्च शङ्करो मन्मथान्तकः ॥४८॥ गुह्यकेशः पापहर्ता कपाली शूलधारकः । पञ्चवक्त्रो दशभुजो भुजङ्गभूषणो हरः ॥४९॥ महाकालो महारुद्रो महावीरो हृदि स्थितः । महादेवो महागुह्यो महामाया महागुणः ॥५०॥ पशुपतिर्विरूपाक्षो हरीशो धवलेश्वरः । वटुकेशः क्रमाचार्यः पञ्चशूली हृदुद्भवः ॥५१॥ उन्मनीशः साहसिकः पराख्यः पर्वतेश्वरः । सर्वात्मा च महात्मा च शिवात्मा च श्मशानगः ॥५२॥ क्रोधवीरः कालकारी सूक्ष्मधर्मा धुरन्धरः । श्यामकः क्रूरहर्ता च गणेशः कालमाधवः ॥५३॥ ज्ञानात्मा कपिलात्मा च सिद्धात्मा योगिनीपतिः । कोटिसूर्यप्रतीकाश एकपञ्चाशदीश्वराः ॥५४॥ सदा पान्तु मातृकस्थाः स्थितिसर्गलयात्मकाः । आदिपीठं कामरूपं काञ्चीपीठं तदन्तिके ॥५५॥ अयोध्यापीठनगरं तदूर्ध्वे जालकन्धरम् । जालन्धरं तदूर्ध्वे तु सिद्धपीठं तदन्तिके ॥५६॥ कालीपीठं तदूर्ध्वे तु चण्डिकापीठमग्रके । अष्टपुरीमहापीठं कण्ठदेशं सदाशिवः ॥५७॥ सदा पातु महावीरः कालधर्मी परात्परः । मधुपुरीमहापीठं चाष्टपुरान्तरस्थितम् ॥५८॥ मायावतीमहापीठं तदूर्ध्वे परिकीर्तितम् । वाराणसीमहापीठं धर्मपीठं तदन्तिके ॥५९॥ ज्वालामुखीमहापीठं तदन्तःस्थं प्रकीर्तितम् । तदूर्ध्वे च महापीठं ज्वलन्तीपीठमेव च ॥६०॥ तदूर्ध्वे पूणगिर्याख्यं कुरुक्षेत्रं तदन्तिके । उड्डियानं तदूर्ध्वे तु कमलापीठमेव च ॥६१॥ हरिद्वारं महापीठं बदरीपीठमेव च । व्यासपीठं नारदाख्यं तदूर्ध्वे वाडवानलम् ॥६२॥ हिङ्गुलादं तदूर्ध्वे तु लङ्कापीठं तदूर्ध्वके । तदूर्ध्वे शारदापीठं रतिपीठं तदूर्ध्वके ॥६३॥ लिङ्गपीठं कलापीठं द्वारकापीठमेव च । कपालपीठं हर्याख्ये वरदापीठमुत्तरे ॥६४॥ कालीपीठं तदूर्ध्वे तु तारापीठं तदूर्ध्वके । उग्रतारामहापीठं महोग्रापीठमेव च ॥६५॥ नीलसरस्वतीपीठं जरापीठं तदूर्ध्वके । तदूर्ध्वे गगनापीठं खेचरीपीठमेव च ॥६६॥ तदूर्ध्वे तारिणीपीठं सहस्रदलमध्यके । कर्त्रीपीठं तदूर्ध्वे च देवीपीठं तदूर्ध्वके ॥६७॥ राजराजेश्वरीपीठं षोडशीपीठमेव च । सहस्रदलमध्ये तु सहस्रपीठमेव च ॥६८॥ मध्ये एकजटापीठं कर्त्रीतीरकलोपरि । षोडशीमुखविद्याभिर्वेष्टिता तारिणीकला ॥६९॥ काली नीला महाविद्या त्वरिता छिन्नमस्तका । वाग्वादिनी चान्नपूर्णा देवी प्रत्यङ्गिरा पुनः ॥७०॥ कामाख्या वासली बाला मातङ्गी शैलवासिनी । षोडशी भुवनेशानी भैरवी बगलामुखी ॥७१॥ धूमावती वेदमाता हरसिद्धा च दक्षिणा । एता विद्या महाविद्याः शिवसेवनशोभिताः ॥७२॥ द्वाविंशतिमहाविद्या द्वारं द्वाविंशतिस्थलम् । महापीठे सहस्रारे सर्वदा पान्तु मां कलाः ॥७३॥ सदाशिवः शक्तियुक्तः पातु चण्डेश्वरो हरः । पञ्चामराधरः पातु देवीनाथः सदाऽवतु ॥७४॥ पार्वतीप्राणनाथो मे सर्वाङ्गं पातु सर्वदा । अघोरनाथ ईशानो वरदो मदनान्तकः ॥७५॥ यज्ञहर्ता दक्षखण्डो वीरभद्रो दिगम्बरः । अष्टादशभुजो रौद्रो नीलपङ्कजलोचनः ॥७६॥ त्रिलोचनः कालकामो महारुद्रो गणेश्वरः । काकिनीवल्लभः शूली योगकर्ता महेश्वरः ॥७७॥ वागीश्वरः स्मरहरो महामन्त्रो हलायुधः । श्रीनाथः पूजितो बालो बालेन्द्रो बलवाहनः ॥७८॥ बलरामः कृष्णरामो गोविन्दो माधवीश्वरः । जितामित्रेश्वरश्चूडामणीशो मानदः सुखी ॥७९॥ मुखं वृन्दावनं पातु षड्दलाम्भोरुहस्थितम् । वैष्णवीवल्लभः पातु ब्रह्माणं कुलकुण्डली ॥८०॥ विष्णुनाथः सदा पातु ब्रह्माग्निं गरुडध्वजः । ज्वालामालाधरः पातु कालानलधरोऽवतु ॥८१॥ काकिनीवल्लभः पातु ईश्वरो भैरवेश्वरः । महारुद्रो नीलकण्ठो मणिपूरं सुलाकिनीम् ॥८२॥ सदा पातु मणिगृहं रुद्राणीप्रियवल्लभः । महारुद्रो नीलकण्ठो महाविष्णुं सदावतु ॥८३॥ राकिणीं विष्णुलक्ष्मीं च पातु मे वैष्णवीं कलाम् । सदाशिवो नीलकण्ठो मम पातु हृदि स्थलम् ॥८४॥ ईश्वरं परमात्मानं मम रक्षतु शाकिनीम् । सदाशिवं सदा पातु द्विदलस्थोऽपरो हरः ॥८५॥ हाकिनीशक्तितः पातु सहस्रारं शिवोऽवतु । तारानाथविधिः पातु सहस्रारनिवासिनीम् ॥८६॥ महाकाशं सदा पातु तदधो वायुमण्डलम् । वह्निमण्डलमापातु तदधः शाकिनीश्वरः ॥८७॥ तदात्मकः सदा पातु कीलालं कौलदेवता । पृथिवीं पार्थिवः पातु सर्वदैकं सदाशिवः ॥८८॥ इत्थं रक्षाकरं नाथ कवचं देवदुर्लभम् । प्रातःकाले पठेद्यस्तु सोऽभीष्टं फलमाप्नुयात् ॥८९॥ पूजाकाले पठेद्यस्तु कवचं साधकोत्तमः । कीर्तिश्रीकान्तिमेधायुर्बृंहितो भवति ध्रुवम् ॥९०॥ अप्रकाश्यं महावीरकवचं सर्वसिद्धिदम् । ज्ञानमात्रेण भूर्लोके जेता कालस्य योगिराट् ॥९१॥ अस्य धारणमात्रेण कालसूत्रान्तको भवेत् । अस्य धारणपाठेन सर्वज्ञो भवति ध्रुवम् ॥९२॥ सर्वे व्यासवशिष्ठादिमहासिद्धाश्च योगिनः । पठित्वा धारयित्वा ते प्रधानास्तत्त्वचिन्तकाः ॥९३॥ कण्ठे यो धारयेदेतत् कवचं त्वत्स्वरूपकम् । मद्वक्त्राम्भोरुहोद्भूतं विद्यावाक्सिद्धिदायकम् ॥९४॥ युद्धे विजयमाप्नोति द्यूते वादे च साधकः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥९५॥ देवा मनुष्या गन्धर्वास्तस्य वश्या न संशयः । कवचं शिरसा यस्तु धारयेद् यतमानसः ॥९६॥ करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः । भूर्जपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् ॥९७॥ रजतोदरसंविष्टां कृत्वा च धारयेत् सुधीः । संप्राप्य महतीं लक्ष्मीमन्ते तव शरीरधृक् ॥९८॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥९९॥ योगिने ज्ञानयुक्ताय देयं धर्मात्मने सदा । अन्यथा सिद्धिहानिः स्यात्सत्यं सत्यं न संशयः ॥१००॥ तव स्नेहान्महादेव कथितं कवचं शुभम् । न देयं कवचं सिद्धं यदीच्छेदात्मनो हितम् ॥१०१॥ यदि भाग्यफलेनापि कवचं यदि लभ्यते । धूर्तो वा कपटी वापि खलो वा दुर्ग्रहस्थितः ॥१०२॥ निजकर्मफलत्यागमवश्यं खलु कारयेत् । तदा सिद्धिमवाप्नोति धर्मधाराधरो भवेत् ॥१०३॥ सिद्धिपूजाफलं तस्य दिवसे दिवसे सुधीः । धूर्ततां खलतां मिथ्यां कापट्यं स विहाय च ॥१०४॥ राजराजेश्वरो भूत्वा जीवन्मुक्तो न संशयः । योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् ॥१०५॥ तेनार्चिता महादेव सर्वदेवा न संशयः । राजसिकं मानसिकं तामसिकं परन्तपः ॥१०६॥ हृद्ये मानसिकं ध्यायन् पूजा राजसिकं स्मृतम् । तामसिकं लोकमध्ये कवचार्चा त्रिधा मता ॥१०७॥ सिद्धकवचमाख्यातं केवलं ज्ञानसिद्धये । मोक्षाय जगतां शम्भोः प्रियाय परमेश्वर ॥१०८॥ तन्त्रेऽस्मिन् सारसङ्केतं पूजाऽप्यारोपणादिकम् । अन्तःकरणमध्ये तु सर्वकार्यमुदीरयेत् ॥१०९॥ राज्ये च प्रपठेत् स्तोत्रं कवचं ज्ञानसिद्धये । इति ते कथितं नाथ परमात्मनि मङ्गलम् ॥११०॥ यस्याराधनमात्रेण शिवत्वमुत किं प्रभो ॥१११॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे सदाशिवकवचपाठो नाम चतुःसप्ततितमः पटलः ॥७४॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP