संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । ॐ अस्य ...
श्रीलक्ष्मीकवचम् - श्रीगणेशाय नमः । ॐ अस्य ...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । ॐ अस्य श्रीलक्ष्मीकवचस्तोत्रस्य, श्रीईश्वरो देवता, अनुष्टुप् छन्दः, श्रीलक्ष्मीप्रीत्यर्थे पाठे विनियोगः । ॐ लक्ष्मी मे चाग्रतः पातु कमला पातु पृष्ठतः । नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥१॥
रामपत्नी तु प्रत्यङ्गे सदाऽवतु शमेश्वरी। विशालाक्षी योगमाया कौमारी चक्रिणी तथा ॥२॥
जयदात्री धनदात्री पाशाक्षमालिनी शुभा । हरिप्रिया हरिरामा जयङ्करी महोदरी ॥३॥
कृष्णपरायणा देवी श्रीकृष्णमनमोहिनी । जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥४॥
सुखदा मोक्षदा देवी चित्रकूटनिवासिनी । भयं हरतु भक्तानां भवबन्धं विमुच्यतु ॥५॥
कवचं तन्महापुण्यं यः पठेद्भक्तिसंयुतः । त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ॥६॥
एतत्कवचस्य पठनं धनपुत्रविवर्धनम् । भीतिर्विनाशनञ्चैव त्रिषु लोकेषु कीर्तितम् ॥७॥
भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु । धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥८॥
अपुत्रो लभते पुत्र धनार्थी लभते धनम् । मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥९॥
गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् । धारयेद्यपि कण्ठे च अथवा वामबाहुके ॥१०॥
यः पठेन्नियतं भक्त्या स एव विष्णुवद्भवेत् । मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ॥११॥
पठेद्वा पाठयेद्वाऽपि शृणुयाच्छ्रावयेद्यदि । सर्वपापविमुक्तस्तु लभते परमां गतिम् ॥१२॥
सङ्कटे विपदे घोरे तथा च गहने वने । राजद्वारे च नौकायां तथा च रणमध्यतः ॥१३॥
पठनाद्धारणादस्य जयमाप्नोति निश्चितम् । अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयाद्यदि ॥१४॥
सुपुत्रं लभते सा तु दीर्घायुष्कं यशस्विनम् । शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्त्रतः ॥१५॥
सर्वान्कामानवाप्नोति सर्वबन्धाद्विमुच्यते । मृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि ॥१६॥
रोगी रोगाद्विमुच्येत पठनान्मासमध्यतः । लिखित्वा भूर्जपत्रे च अथवा ताडपत्रके ॥१७॥
स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् । शृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि ॥१८॥
यः पुमान्सततं तस्मिन्प्रसन्नाः सर्वदेवताः । बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी ॥१९॥
आद्या शक्तिर्महालक्ष्मीर्भक्तानुग्रहकारिणी । धारके पाठके चैव निश्चला निवसेद् ध्रुवम् ॥२०॥
॥ इति तन्त्रोक्तं लक्ष्मीकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP