संस्कृत सूची|संस्कृत साहित्य|कवच|
पार्वतेयं महाकायं ऋद्धिसि...

श्रीगणपतिरक्षाकवच - पार्वतेयं महाकायं ऋद्धिसि...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

पार्वतेयं महाकायं ऋद्धिसिद्धिवरदायकं गणपतिं निधिपतिं सर्वजनलोकनायकं रुद्रप्रियं यज्ञकायं नमामि हे दीर्घकायकं हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥१॥
एकदन्तं कृपानन्तं सर्वाङ्गसुन्दरदर्शनं वक्रतुण्डं दिव्यऋण्डं अपूर्वमङ्गलस्पर्शनं लम्बोदरं पीताम्बरं नमामि हे रोमहर्षणं हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥२॥
प्रेममूर्तिं कामपूर्तिं चराचरहृदस्पन्दनं मन्त्रमुग्धं पापदग्धं अग्रपूज्यदेववन्दनं प्रथमेशं श्रीगणेशं नमामि हे गौरीनन्दनं हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥३॥
दिव्यतेजं कविराजं योगीजनात्मकारकं शिवानन्दं पराद्वन्दं भावप्रदप्रेमधारकं विघ्ननाशं दीर्घश्वासं नमामि हे गर्वमारकं हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥४॥
प्रथमं मयूरेश्वरं द्वितीयं सिद्धिविनायकं ततश्च बल्लालेश्वरं अस्ति वरदविनायकं पञ्चमं चिन्तामणिदेवं षष्ठं च गिरिजात्मजं विघ्नेश्वरं महागणपतिं नमामि अष्टदेवं हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥५॥
तरुणी लभते वरं च प्रीत्यार्थी लभते प्रेमं विद्यार्थी लभते विद्यां च मोक्षार्थी लभते धामं अर्थार्थी लभते अर्थं च कामार्थी लभते कामं हे गजानन गिरिजानन्दन कृष्णदासः भजति त्वाम् ॥६॥
॥ इति श्रीकृष्णदासविरचितं श्रीगणपतिरक्षाकवचगीतं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : November 19, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP