संस्कृत सूची|संस्कृत साहित्य|कवच|
श‍णुदेवि प्रवक्ष्यामि कवच...

महाविद्याकवचम् - श‍णुदेवि प्रवक्ष्यामि कवच...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श‍णुदेवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । आद्याया महाविद्यायाः सर्वाभीष्टफलप्रदम् ॥१॥
कवचस्य ऋषिर्देवी सदाशिव इतीरितः । छन्दोऽनुष्टुप् देवता च महाविद्या प्रकीर्तितः ॥२॥
धर्मार्थकाममोक्षाणां विनियोगश्च साधने ॥३॥
ऐंकारः पातु शीर्षे मां कामबीजं तथा हृदि । रमाबीजं सदापातु नाभौ गुह्ये च पादयोः ॥४॥
ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः । भगमाला सर्वगात्रे लिङ्गे चैतन्यरूपिणी ॥५॥
पूर्वे मां पातु वाराही ब्रह्माणी दक्षिणे तथा । उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ॥६॥
माहेश्वरी च आग्नेयां नैरृते कमला तथा वायव्यां पातु कौमारी चामुण्डा ईशकेऽवतु ॥७॥  var  ऐशनेऽवतु
इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् । न फलं जायते तस्य कल्पकोटिशतैरपि ॥८॥
इति श्रीरुद्रयामले महाविद्याकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP