संस्कृत सूची|
संस्कृत साहित्य|
कवच|
ऋषय ऊचुः । अथ नाम्नां सह...
पुरुषोत्तमकवचम् - ऋषय ऊचुः । अथ नाम्नां सह...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ऋषय ऊचुः । अथ नाम्नां सहस्राख्यं वद स्तोत्रं महामुने । यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥१॥
श्रीशाण्डिल्य उवाच - पुरा कृतयुगे देवः सविता सुषुवे सुताम् । यमुनेति च विख्यातां देवतां चे शुचिष्मतीम् ॥२॥
पप्रच्छ पितरं सा च कः परो वापरो यतः । कथं प्राप्यो भवेदेष ततः प्राह पिता सुताम् ॥३॥
तपसा ब्रह्मणा पूर्वं जगत्सृष्टमिति श्रुतम् । तपसा भवती देवं स्वीयं विज्ञातुमर्हति ॥४॥
सा कलिन्दगिरिं प्राप्य तपश्चक्रे सुदारुणम् । ध्यायन्ती रमणं देवं ब्राह्मकल्पमनीनयत् ॥५॥
ततः प्रसन्नो भगवान् श्रीकृष्णो भक्तवत्सलः । प्रादुर्भूय गिरौ तत्र वेणुनादं चकार सः ॥६॥
तस्य नादस्य हर्षेण द्रवीभूता ततो हि सा । दिव्यरूपा ततो जाता जगतां पावनी परा ॥७॥
तस्यै प्रसन्नो भगवान् नवकञ्जमयीं स्रजम् । सारूप्यं च ददौ प्राह प्रिया भव सुभक्तितः ॥८॥
इदं नाम्नांसहस्रं मे पठ येन विबुध्यसे । मम लोके सरिद्रूपे दिव्यरूपे प्रविश्यताम् ॥९॥
अस्मिंश्च ते द्रवे कान्ते मज्जतां भुक्तिमुक्तयः । भविष्यन्ति वशीभूता भक्तिर्मे न च त्वां विना ॥१०॥
दत्वा सहस्रनामाख्यं स्तोत्रं सख्यै हरिर्ययो । विवस्वन्तमनुज्ञाप्य सा गता हरिणा सह ॥११॥
इदं स्तोत्रं मया लब्धं स्वयं तुष्टाद्विवस्वतः । पुण्यं स्वस्त्ययनं भव्यमायुष्यं हरिभक्तिदम् ॥१२॥
पाठादस्य प्रजायन्ते पुण्याः कामा मनोगताः । पुत्राश्चापि प्रसूयन्ते विनीताश्चिरजीविनः ॥१३॥
भाग्यवन्तः सुकृतिनः पितृभक्ता हरेः प्रियाः । कान्ता भवन्ति सत्कान्ता दान्ताश्चापि पतिव्रताः ॥१४॥
चतुर्द्दश महारत्नभोक्ता भवति पाठकृत् । महारोगैर्विमुच्येत दारुणैर्बन्धनैरपि ॥१५॥
शत्रुभिश्च विषैः शस्त्रैः कृत्याभिश्च ग्रहैरपि । भूतैः प्रेतैश्च रक्षोभिर्वह्निवायुमहाभयैः ॥१६॥
मुच्यते वारिधौ मज्जन् त्रायते चापरान्नपि । स्वचक्रे परचक्रे च सेनाक्षोभे प्रजाक्षये ॥१७॥
महामारीभये चान्यभये वाताशने भये । गतं राज्यं गतां लक्ष्मीं रुद्धां वा दारुणैर्जनैः ॥१८॥
साम्राज्यलक्ष्मीमाप्नोति किमन्यत् कथयामि भोः । दारिद्र्यान्मुच्यते सोऽथ कुबेर इव जायते ॥१९॥
विद्ययाऽसौ गिरीशः स्यात् सुरेषु त्रिदशेश्वरः । वदान्यतां विधिः साक्षाल्लावण्यान्मदनोपमः ॥२०॥
महादेवान् वशे कुर्याद् भूतान्यपि वशे नयेत् । विपर्ययं च जगतां कुर्याद्बन्धं दिवौकसाम् ॥२१॥
लोकानां रञ्जनं कुर्यान्नारीणामपि मन्मथम् । पूज्यते जगतीमध्ये लोकानुग्रहकृद्भवेत् ॥२२॥
तस्य वाक् जायते वेत्ता भूतभव्यभवज्जुषाम् । यद्यदिच्छति तत्सर्वं करस्थं चैव पश्यति ॥२३॥
हरिभक्तस्तु भगवल्लीलां पश्यति सर्वशः । निजदोषान् परगुणान् हरिदासे महात्मनाम् ॥२४॥
दैन्यप्रीतिं समाप्नोति गुरुभक्तिं च विन्दति । ततः कृतार्थ एव स्यान्निषेव्यः स्यान्महात्मनाम् ॥२५॥
हस्तौ पादौ च प्रक्षाल्य शुचिः शुद्धात्मवासनः । जितेन्द्रियो वाग्यतश्च पूर्वास्यः स्वासने स्थितः ॥२६॥
आचम्य प्राणानायम्य कृतरक्ष्यः पठेत्ततः । ध्यायन् भगवतो रूपं वाञ्छितार्थफलप्रदम् ॥२७॥
हृदयं गोपिकानाथो भालं मे जगदीश्वरः । श्रीकृष्णो मे शिखां पातु कवचं पातु गोपतिः ॥२८॥
नेत्रे पातु दधद्वेत्रमस्त्रं वेणुधरो हरिः । मूर्द्धादिकण्ठपर्यन्तं श्रीकृष्णः सर्वदाऽवतु ॥२९॥
कण्ठादिमध्यपर्यन्तं श्रीगोविन्दोऽपि रक्षतु । श्रीगोपीजनकान्तस्तु पायान्मध्यादिपादतः ॥३०॥
श्रीमन्मुकुन्दचरणौ शरणं मेऽस्तु सर्वतः । श्रीकृष्णः शरणं मेऽस्तु बाल्ये बालस्वरूपधृक् ॥३१॥
गोविन्दश्शरणं मेऽस्तु तारुण्ये तरुणीप्रियः । केशवः शरणं मेऽस्तु वार्द्धक्ये वृद्धवन्दितः ॥३२॥
आपन्नं गोकुलाधीशः प्रपन्नं गिरिधारणः । विपन्नं नन्दनन्दो मां सदा व्रजपुरन्दरः ॥३३॥
दिने कालिन्दिनीकान्तः रात्रौ श्रीराधिकेश्वरः । सन्ध्यासु सन्धिवेलासु श्रीमच्चन्द्रावलीप्रियः ॥३४॥
अग्रतो मे जगन्नाथः पृष्ठतो बदरीपतिः । पार्श्वतो द्वारकानाथो रङ्गनाथस्तथा हरिः ॥३५॥
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे एकोनविंशोऽध्याये पुरुषोत्तमकवचं सम्पूर्णम् ।
N/A
References : N/A
Last Updated : November 30, 2025

TOP