संस्कृत सूची|संस्कृत साहित्य|कवच|
पार्वती उवाच- देवदेव महा...

श्रीराजराजेश्वरीकवचम् - पार्वती उवाच- देवदेव महा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

पार्वती उवाच- देवदेव महादेव लोकानां हितकारक । यत् सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥१॥
राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् । कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥२॥
ईश्वर उवाच- लक्षवारसहस्राणि वारितासि पुनः पुनः । स्त्रीस्वभावान्महादेवि ! पुनस्त्वं परिपृच्छसि ॥३॥
अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् । तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥४॥
त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् । सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥५॥
यत् कृत्वा दानवान् विष्णुर्निजघान सुदारुणान् । लोकान् वितनुते ब्रह्मा संहर्ताऽहं यतः प्रिये ॥६॥
धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः । नैतत् परतरं गुह्यं प्रतिजानीहि पार्वति ॥७॥
वेदशास्त्रपुराणेषु सारमेतद् वरानने । पुत्रदारादिसहितं शिरो देयं कथञ्चन ॥८॥
न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि । श‍ृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥९॥
राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः । छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥१०॥
हंसः शक्तिः पराबीजं रमाबीजं च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥११॥
त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये । ऐं क्लीं सौः वदने बाला पातु सर्वार्थसिद्धिदा ॥१२॥
कण्ठं पातु महादेवी श्रीमत्त्रिपुरभैरवी । हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥१३॥
राजराजेश्वरी विद्या षोडशी या महोदया । ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥१४॥
गिरिराजसुता देवी पातु नित्यं च शीर्षके । कामबीजं ललाटेऽव्याद् वाग्बीजं कण्ठदेशके ॥१५॥
सौः पातु तथा पार्श्वे प्रणवो बाहुमूलके । शम्भुप्रिया सदा पातु बाहुदक्षिणसव्ययोः ॥१६॥
विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा । पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥१७॥
श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदाऽवतु । पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥१८॥
ह्रसौः श्वासे च निःश्वासे पातां परमसिद्धिदौ । कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥१९॥
पृथ्वी सर्वांशके पातु हृल्लेखा हृदयेऽवतु । स्तनौ भृगुप्रिया पातु कुक्षौ च स पुरान्तकः ॥२०॥
नेत्रे वज्रधरः पातु माया वै जठरेऽवतु । पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥२१॥
क्लीङ्कारः सर्वदा पातु दन्तौष्ठयोर्वरानने । शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥२२॥
रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु । तत् सर्वं परमेशानि ! पातु नित्यं हरिप्रिया ॥२३॥
आधारे वाग्भवः पातु कामराजो हृदि प्रिये । शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥२४॥
शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः । अष्टाविंशतिवर्णेयं मुखवृत्ते सदाऽवतु ॥२५॥
षोडशीयं महाविद्या ब्रह्मविद्यैव केवला । भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥२६॥
कामेश्वरी ललाटेऽव्यान्मुखेषु भगमालिनी । दक्षनेत्रे सदा पातु नित्यक्लिन्ना महोदया ॥२७॥
भेरुण्डा वामनेत्रेऽव्यात् कर्णे वै वह्निवासिनी । महाविद्येश्वरी पातु वामकर्णप्रदेशके ॥२८॥
दक्षनासापुटे पातु शिवदूती महेश्वरी । वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥२९॥
दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी । त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥३०॥
ओष्ठे नीलपताकाऽव्यादधरे विजयाऽवतु । ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥३१॥
अधोदन्तप्रदेशेऽव्यान्नित्यं ज्वालांशुमालिनी । विचित्रा सर्वदा पातु नित्यं मूर्द्धनि पार्वति ॥३२॥
आसां प्रधानभूता या महात्रिपुरसुन्दरी । षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥३३॥
पृष्ठदेशे सदा पान्तु गुरवस्त्रिविधाश्च ते । पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥३४॥
अनुदेशे सदा पातु देवी मां त्रिपुरेश्वरी । ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥३५॥
त्रिपुरवासिनी देवी कटिदेशे सदाऽवतु । त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदाऽवतु ॥३६॥
मूलाधारे सदा पातु देवी त्रिपुरमालिनी । नाभौ त्रिपुरसिद्धाऽव्यात् त्रिपुरा च सदा हृदि ॥३७॥
ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी । आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥३८॥
पाषण्डगणमध्ये तु बुद्धो मां परिरक्षतु । ब्रह्माऽव्याद् ब्रह्मसंहा[घा]ते शिवो मां योगसिद्धये ॥३९॥
ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः । या शक्तिः सर्वभूतानां विद्याऽविद्येति गीयते ॥४०॥
सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसम्पदि । अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥४१॥
पूर्वतः पातु महिमा ईशित्वा दक्षिणेऽवतु । वशित्वा वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥४२॥
भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे । अधः पातु प्राप्तिसिद्धिर्मोक्ष सिद्धिस्तथोर्ध्वके ॥४३॥
ब्रह्माणी सन्ध्ययोः पातु माहेश्वरी दिवाऽवतु । मध्याह्ने पातु कौमारी रात्रौ च शत्रुवल्लभा ॥४४॥
ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा । निशीथे पातु वाराही चामुण्डा शत्रुविग्रहे ॥४५॥
महोत्साहे महालक्ष्मीः पातु नित्य महेश्वरी । शीर्षे सङ्क्षोभणी पातु तारिणी हृदयेऽवतु ॥४६॥
आकर्षणी शिखायां तु कवचे पातु वश्यदा । (आकर्षिणी) उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥४७॥
त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी । खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥४८॥
स[का]माकर्षणरूपाऽव्यात् सदाऽऽकर्षणकर्मणि । बुद्ध्याकर्षणरूपाऽव्यात् परबुद्धिविकर्षणे ॥४९॥
अहङ्कारे सदा पातु अहङ्कारविकर्षणी । शब्दाकर्षणरूपाऽव्याच्छब्दाकर्षणकर्मणि ॥५०॥
स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि । रूपाकर्षणरूपाऽव्यात् पररूपविकर्षणे ॥५१॥
रसाकर्षणरूपाऽव्याद् रसे वै परमेश्वरी । (रसाकर्षद) गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥५२॥
चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि । धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥५३॥
स्मृत्याऽऽकर्षणरूपाऽव्याज्ज्ञानाकर्षणकर्मणि । नामाकर्षणरूपाऽव्यान्नामव्याहरणे सदा ॥५४॥
बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे । परजीवाकर्षणे पातु आत्माकर्षणरूपिणी ॥५५॥
अमृताकर्षणी पातु अमृतीकरणी सदा । शरीराकर्षणी पातु सदा शरीररक्षणे ॥५६॥
अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि । अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥५७॥
अनङ्गमदना पातु वामतो मे महेश्वरी । दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥५८॥
नित्यं चाऽनङ्गरेखाऽव्यादूर्द्ध्वं(?) मम सदा प्रिये । अनङ्गवेगिनी पातु अधो परमेश्वरी ॥५९॥
तथाऽनङ्गाङ्कुशा नित्यं पातु मां दिक्षु सर्वदा । अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥६०॥
सर्वसङ्क्षोभणी चोर्ध्वे पातु मां जगदीश्वरी । सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षिणी ॥६१॥
सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु । सर्वसम्मोहिनी पातु समन्तात् परमेश्वरी ॥६२॥
अन्तर्बहिश्च मां पातु सर्वस्तम्भनकर्मणि । तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥६३॥
पाताले चैव मां पातु सर्ववश्यकरी तथा । देवलोके सदा पातु सर्वरञ्जनकारिणी ॥६४॥
सर्वोन्मादनशक्तिर्मां भूतले परिरक्षतु । सर्वार्थसाधनी शक्तिः पायाद् भूतगणालये ॥६५॥
सिद्धानामालये पातु सर्वसम्पत्तिपूरणी । राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥६६॥
असुराणां निवासे तु सर्वद्वन्द्वक्षयङ्करी । सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥६७॥
सर्वसम्पत्प्रदा पातु स्वगृहे सर्वसम्पदि । सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥६८॥
सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी । सर्वकामप्रदा देवि ! सर्वकार्येषु सर्वदा ॥६९॥
ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी । सर्वमृत्युप्रशमनी पायान्नित्यं यमालये ॥७०॥
सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी । देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥७१॥
सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी । सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥७२॥
सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले । सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥७३॥
पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥७४॥
सर्वानन्दकरी देवी नानासुकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥७५॥
सर्वसङ्कल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी ' वश्यकार्येषु कामेशी स्तम्भनेऽवतु ॥७६॥
मोहने मोहिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जयिनी जल्पकर्मणि ॥७७॥
सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पान्तु शराः पञ्च महेश्वरि ॥७८॥
धनुर्मोहविधौ पातु पाशस्तु पश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाऽङकुशः ॥७९॥
सर्वज्ञा हृदये पातु नित्यकृत्या च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥८०॥
कवचे मां स्वतन्त्राऽव्यान्नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्तिरस्त्रेषु पायात् परमसिद्धिदा ॥८१॥
कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानि श्रीकामे भगमालिनी ॥८२॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥८३॥
ईशाने वटुकः पातु आग्नेय्यां योगिनीगणः । त्वगसृङ्मासमेदोऽस्थिमज्जाशुक्राणि पान्तु नः ॥८४॥
क्षेत्रेशो नैरृते(?) पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥८५॥
शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि ! त्रिषु लोकेषु दुर्लभम् ॥८६॥
यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥८७॥
तव प्रीत्या महादेवि ! गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि ! सर्वयज्ञफलं लभेत् ॥८८॥
सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छ्रुतम् ॥८९॥
तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि ! कवचं ते मयोदितम् ॥९०॥
यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥९१॥
शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥९२॥
निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्वा मृत्युमवाप्नुयात् ॥९३॥
यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि ! विद्याऽऽयुः कीर्तिसञ्चयाः ॥९४॥
तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये । परे नरकमाप्नोति जन्मकोटिशतानि च ॥९५॥
सर्वलक्षणयुक्ताय मन्त्रयन्त्ररताय च । शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥९६॥
उदके लवणं लीनं यथा भवति पार्वति । मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥९७॥
देयं महद् गुह्यं कृपया चातिदुर्लभम् । गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥९८॥
तथैव कवचं देवि ! त्रिषु लोकेषु दुर्लभम् । स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥९९॥
प्रमादादपि देवेशि ! श्रीगुरोर्नाम नाददेत् । यस्य भक्तिर्गुरौ नित्यं वर्तते देववत् प्रिये ॥१००॥
तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा । कवचस्य तथा सिद्धिर्गुटिकायाश्च सुन्दरि ॥१०१॥
इदं कवचमज्ञात्वा यो जपेत् सुन्दरी पराम् । नवलक्षं प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥१०२॥
शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । सर्वभूतालये सुप्ते निशायामर्द्धरात्रके ॥१०३॥
हेतुयुक्तो महेशानि! निर्जने पशुवर्जिते । रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥१०४॥
ताम्बूलपूरितमुखो धूपामोदसुगन्धितः । संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥१०५॥
रक्तवस्त्रपरीधानां शिवमन्त्रधरां शुभाम् । या शक्तिः सा महादेवी हररूपस्तु साधकः ॥१०६॥
अन्योन्यचिन्तनाद् देवि! देवत्वमुपजायते । शक्तियुक्तो यजेद् देवीं श्रीचक्रे लक्षणान्विते ॥१०७॥
पुष्पाञ्जलित्रयं देव्यै मूलमन्त्रेण दापयेत् । भोगैश्च मधुपर्काद्यैस्ताम्बूलाद्यैः सुवासितैः ॥१०८॥
पूजयित्वा महादेवीं पूजाकोटिफलं लभेत् । पूर्वोक्तन्यासमेवास्मिन् समये च प्रविन्यसेत् ॥१०९॥
आत्मानं परमं ध्यायेद् दिव्यस्त्रीभिरलङ्कृतम् । दिव्यं मूर्ध्नि महच्छत्रं सहस्रदलनिर्मितम् ॥११०॥
सुधावर्षिमुखाम्भोजं सस्मितं दिव्यवर्चसम्! । परमानन्दसन्दोहमुदितं परमाव्ययम् ॥१११॥
दिव्यालङ्कारवस्त्राढ्यं दिव्यमाल्यानुलेपितम् । दिव्यासनसमासीनं दिव्यभोगविभोगिनम् ॥११२॥
सर्वगं सर्वभूतेशं सृष्टिस्थित्यन्तकारिणम् । निर्लेपं निर्मलं शान्तं सर्वव्यापिनमीश्वरम् ॥११३॥
ततो देवी हृदम्भोजे ध्यायेत् तद्गतमानसः । जपाकुसुमसङ्काशां बालार्ककिरणारुणाम् ॥११४॥
रक्तपद्मसमासीनां रक्ताभरणभूषिताम् । रक्तवस्त्रपरीधानां पूर्णचन्द्रनिभाननाम् ॥११५॥
सैवाहमित्यभेदेन द्वैतहीनं विचिन्तयेत् । अद्वैतानन्दभावेन साधकः परमात्मनः ॥११६॥
छायया शोणया व्याप्तं जगदेतच्चराचरम् । भावनावशसम्पन्नो भावयेद् भावतः परम् ॥११७॥
एवं चिन्तापरस्याऽऽशु सिद्धयोऽष्टौ भवन्ति हि । सम्प्राप्य विपुलान् भोगान् राज्यास्पदञ्च भूतले ॥११८॥
ऐन्द्र पदमवाप्याथ ' विहरेन्नन्दने वने । उर्वशीप्रमुखाभिश्च स्वेच्छया दिव्यभोगवान् ॥११९॥
तदाप्नोति परं स्थानं दुरापं त्रिदशैरपि । ततस्तु कवचं दिव्यं पठेदेकमनाः प्रिये ॥१२ तस्य सर्वार्थसिद्धिः स्यान्नात्र कार्या विचारणा । इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥१२॥
सर्वेषामेव हिंस्राणां डाकिनीनां महेश्वरि । निशाचरगणानाञ्च वारणं नाशनं तथा ॥१२२॥
आयुर्बलप्रदं नित्यं तुष्टिपुष्टिशुभावहम् । नारीणां मृतवत्सानां गुणवत्सुतदायकम् ॥१२३॥
सूत्या सूतिगृहस्यापि बालग्रहनिवारणम् । विषदस्युग्रहाणाञ्च सदा शान्तिविवर्द्धनम् ॥१२४॥
विषशस्त्राऽग्निरुद्राणां वारणं जयदं युधि । जले स्थले तथाऽऽकाशे सर्वोत्पातेषु सर्वदा ॥१२५॥
त्रैलोक्यवासिनामेव सर्वमङ्गलदायकम् । सकृद् यस्तु पठेद् देवि ! कवचं देवदुर्लभम् ॥१२६॥
हयमेधफलं तस्य भवत्येव संशयः । नित्यं यस्तु पठेद् देवि श‍ृणुयाद् वा समाहितः ॥१२७॥
स सर्वान् लभते कामान् परे देवीपुरं व्रजेत् । सङ्ग्रामे च जयेच्छत्रून् मातङ्गानिव केशरी ॥१२८॥
दहेत् तृणं यथा वह्निस्तथा शत्रून् जयेत् सदा । नास्त्राणि तस्य शस्त्राणि शरीरे प्रभवन्ति च ॥१२९॥
तद्गात्रं प्राप्य शस्त्राणि ' ब्रह्मास्त्रादीनि यानि च । माल्यानि कुसुमानीव सुखदानि भवन्ति हि ॥१३०॥
पराः पराङ्मुखा यान्ति विना युद्धेन पार्वति । व्याधिस्तस्य कदाचित् तु दुःखं नास्ति कदाचन ॥१३१॥
गतिस्तस्यैव सर्वत्र वायोस्तुल्या सदा भवेत् । दीर्घायुः कामभोगीशो धनधान्यसमृद्धिमान् ॥१३२॥
जितव्याधी रूपवान् स्याद् गुणवानभिजायते । चातुर्वर्ग्यं करे तस्य भवत्येव न संशयः ॥१३३॥
अन्यस्य वल्लभः सो वै पुत्रदारकुलान्वितः । इहलोके सुखं भुक्त्वा परे मुक्तो भविष्यति ॥१३४॥
न तस्य दुर्गतिर्देवि ! कदाचिदपि जायते । दुर्ग्रहाः सुग्रहा यान्ति वशं गच्छन्ति मानवाः ॥१३५॥
न तस्य विघ्नो भवति न शोको भुवि जायते । वेतालाश्च पिशाचाश्च राक्षसाश्च भयानकाः ॥१३६॥
ते सर्वे विलयं यान्ति कवचस्यास्य कीर्तनात् । तस्यैव शत्रवो देवि ! चिन्तामात्रप्रयोगतः ॥१३७॥
विनश्यन्ति न सन्देहो योगिन्यो भक्षयन्ति तान् । शान्तिकादीनि कर्माणि मारणोच्चाटनानि च ॥१३८॥
वचोमात्रेण देवेशि ! तस्य सिध्यन्ति भूतले । न पापैर्लिप्यते देवि ! महोग्रैस्तु सुदारुणैः ॥१३९॥
न कालस्य वशं गच्छेन्न जरा न च दुःखिता । तत्र देशे न दुर्भिक्षं न च मारी प्रवर्तते ॥१४०॥
न रोगास्तत्र जायन्ते नोत्पाताः प्रभवन्ति च । विविधाश्चैव योगिन्यस्तस्य साधकसन्निधौ ॥१४१॥
शान्ति चैव प्रयच्छन्ति रक्षन्ति पुत्रवत् सदा । सर्वदा च सुखप्राप्तिः सर्वतीर्थफलं लभेत् ॥१४२॥
नानेन सदृशः कश्चित् साधको भुवि जायते । सुरासुरमनुष्याणां तत्त्वरूपः सुखावहः ॥१४३॥
येन विज्ञातमात्रेण स्मृतेनैव च सुन्दरि । अक्षयान् लभते कामान् मुक्तिस्थानं च गच्छति ॥१४४॥
सर्वलक्षणहीनोऽपि स्मरणात् ' कलुषापहः । अहो कवचमाहात्म्य पठमानस्य नित्यशः ॥१४५॥
विनापि योगचर्येण योगिनां समतां व्रजेत् । भूर्जत्वचि समालिख्य चक्रं तत्त्वविनिर्मितम् ॥१४६॥
मध्ये त्रिकोणं संलिख्य साध्यसाधकयोर्लिपिम् । तदूर्ध्वे मूलमन्त्रञ्च मातृकार्णेन वेष्टयेत् ॥१४७॥
अगुरुद्रवमिश्रेण चन्दनेन सुगन्धिना । एतद् यन्त्रम् महादेवि ! सुरासुरसुदुर्लभम् ॥१४८॥
रोचनाकुडकुमेनैव तद्बाह्ये कवचं लिखेत् । श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥१४९॥
पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा शुभेऽहनि । सम्पूज्य देवीरूपां तां गुटिकां सर्वकामदाम् ॥१५०॥
प्राणप्रतिष्ठामन्त्रेण प्राणांस्तत्र निवेशयेत् । चारुणा शाक्तकुम्भेन भूषितां योनिमुद्रया ॥१५१॥
अन्तर्योनिं ततो ध्यात्वा तत्र संस्थापयेद् बुधः । एषा तु गुटिका देवि ! कण्ठलग्ना धनप्रदा ॥१५२॥
शीर्षे वश्यकरी देवि ! कट्यां स्तम्भनकारिणी । बद्धा वामभुजे चैव वैरिपक्षविनाशिनी ॥१५३॥
जठरे रोगशमनी पुत्रदा हृदिसंस्थिता । विद्याकरी ललाटस्था शिखायां तु यशःप्रदा ॥१५४॥
दक्षिणे बाहुमूले वै यदि तिष्ठति सर्वदा । तदा सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ॥१५५॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः । न शक्नोमि प्रभावं हि कथितुं कवचस्य वै ॥१५६॥
एतत्तु कवचेनैव पठनं साधनं प्रिये । कथितं मे तव स्नेहाद् गोपनीय सदा भुवि ॥१५७॥
 ॥इति श्रीराजराजेश्वरीकवचं सम्पूर्णम् ।  ॥इति श्रीगन्धर्वतन्त्रे महात्रिपुरसुन्दरीत्रैलोक्यमोहनाख्यः चतुर्थः पटलः ॥४॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP