संस्कृत सूची|संस्कृत साहित्य|कवच| श्री गणेशाय नमः । श्री बग... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... श्रीब्रह्मास्त्रबगलामुखीकवचम् - श्री गणेशाय नमः । श्री बग... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र श्रीब्रह्मास्त्रबगलामुखीकवचम् Translation - भाषांतर श्री गणेशाय नमः । श्री बगलायै नमः । अथ ब्रह्मास्त्रबगलाकवचम् । श्रीब्रह्मोवाच । विश्वेश दक्षिणामूर्ते निगमागमवित् प्रभो । मह्यं पुरा त्वया दत्ता विद्या ब्रह्मास्त्रसंज्ञिता ॥१॥ तस्य मे कवचं ब्रूहि येनाहं सिद्धिमाप्नुयाम् ॥ भवामि वज्रकवचं ब्रह्मास्त्रन्यासमात्रतः ॥२॥ श्रीदक्षिणामूर्तिरुवाच । शृणु ब्रह्मन् परं गुह्य ब्रह्मास्त्रकवचं शुभम् । यस्योच्चारणमात्रेण भवेद् वै सूर्यसन्निभः ॥३॥ सुदर्शनं मया दत्तं कृपया विष्णवे तथा । तद्वत् ब्रह्मास्त्रविद्यायाः कवचं कवयाम्यहम् ॥४॥ अष्टाविंशत्यस्त्रहेतुमाद्यं ब्रह्मास्त्रमुत्तमम् । सर्वतेजोमयं सर्वं सामर्थ्यं विग्रहं परम् ॥५॥ सर्वशत्रुक्षयकरं सर्वदारिद्र्यनाशनम् । सर्वापच्छैलराशीनामस्त्रकं कुलिशोपमम् ॥६॥ न तस्य शत्रवश्चापि भयं चौर्यभयं जरा । नरा नार्यश्च राजेन्द्र खगा व्याघ्रादयोऽपि च ॥७॥ तं दृष्ट्वा वशमायान्ति किमन्यत् साधवो जनाः । यस्य देहे न्यसेद् धीमान् कवचं बगलामयम् ॥८॥ स एव पुरुषो लोके केवलः शङ्करोपमः । न देयं परशिष्याय शठाय पिशुनाय च ॥९॥ दातव्यं भक्तियुक्ताय गुरुदासाय धीमते । कवचस्य ऋषिः श्रीमान् दक्षिणामूर्तिरेव च ॥१०॥ अस्यानुष्टप् छन्दः स्यात् श्रीबगला चास्य देवता । बीजं श्रीवह्निजाया च शक्तिः श्रीबगलामुखी ॥११॥ कीलकं विनियोगश्च स्वकार्ये सर्वसाधके । अथ ध्यानम् । शुद्धस्वर्णनिभां रामां पीतेन्दुखण्डशेखराम् । पीतगन्धानुलिप्ताङ्गीं पीतरत्नविभूषणाम् ॥१॥ पीनोन्नतकुचां स्निग्धां पीतलाङ्गीं सुपेशलाम् । त्रिलोचनां चतुर्हस्तां गम्भीरां मदविह्वलाम् ॥२॥ वज्रारिरसनापाशमुद्गरं दधतीं करैः । महाव्याघ्रासनां देवीं सर्वदेवनमस्कृताम् ॥३॥ प्रसन्नां सुस्मितां क्लिन्नां सुपीतां प्रमदोत्तमाम् । सुभक्तदुःखहरणे दयार्द्रां दीनवत्सलाम् ॥४॥ एवं ध्यात्वा परेशानि बगलाकवचं स्मरेत् । अथ रक्षाकवचम् । बगला मे शिरः पातुः ललाटं ब्रह्मसंस्तुता । बगला मे भ्रुवौ नित्यं कर्णयोः क्लेशहारिणी ॥१॥ त्रिनेत्रा चक्षुषी पातु स्तम्भिनी गण्डयोस्तथा । मोहिनी नासिकां पातु श्रीदेवी बगलामुखी ॥२॥ ओष्ठयोर्दुर्धरा पातु सर्वदन्तेषु चञ्चला । सिद्धान्नपूर्णा जिह्वायां जिह्वाग्रे शारदाम्बिके ॥३॥ अकल्मषा मुखे पातु चिबुके बगलामुखी । धीरा मे कण्ठदेशे तु कण्ठाग्रे कालकर्षिणी ॥४॥ शुद्धस्वर्णनिभा पातु कण्ठमध्ये तथाऽम्बिका । कण्ठमूले महाभोगा स्कन्धौ शत्रुविनाशिनी ॥५॥ भुजौ मे पातु सततं बगला सुस्मिता परा । बगला मे सदा पातु कूर्परे कमलोद्भवा ॥६॥ बगलाऽम्बा प्रकोष्ठौ तु मणिबन्धे महाबला । बगलाश्रीर्हस्तयोश्च कुरुकुल्ला कराङ्गुलिम् ॥७॥ नखेषु वज्रहस्ता च हृदये ब्रह्मवादिनी । स्तनौ मे मन्दगमना कुक्षयोर्योगिनी तथा ॥८॥ उदरं बगला माता नाभिं ब्रह्मास्त्रदेवता । पुष्टिं मुद्गरहस्ता च पातु नो देववन्दिता ॥९॥ पार्श्वयोर्हनुमद्वन्द्या पशुपाशविमोचिनी । करौ रामप्रिया पातु ऊरुयुग्मं महेश्वरी ॥१०॥ भगमाला तु गुह्यं मे लिङ्गं कामेश्वरी तथा । लिङ्गमूले महाक्लिन्ना वृषणौ पातु दूतिका ॥११॥ बगला जानुनी पातु जानुयुग्मं च नित्यशः । जङ्घे पातु जगद्धात्री गुल्फौ रावणपूजिता ॥१२॥ चरणौ दुर्जया पातु पीताम्बा चरणाङ्गुलीः । पादपृष्ठं पद्महस्ता पादाधश्चक्रधारिणी ॥१३॥ सर्वाङ्गं बगला देवी पातु श्रीबगलामुखी । ब्राह्मी मे पूर्वतः पातु माहेशी वह्निभागतः ॥१४॥ कौमारी दक्षिणे पातु वैष्णवी स्वर्गमार्गतः । ऊर्ध्वं पाशधरा पातु शत्रुजिह्वाधरा ह्यधः ॥१५॥ रणे राजकुले वादे महायोगे महाभये । बगला भैरवी पातु नित्यं क्लीङ्काररूपिणी ॥१६॥ फलश्रुतिः । इत्येवं वज्रकवचं महाब्रह्मास्त्रसंज्ञकम् । त्रिसन्ध्यं यः पठेद् धीमान् सर्वैश्वर्यमवाप्नुयात् ॥१॥ न तस्य शत्रवः केऽपि सखायः सर्व एव च । बलेनाकृष्य शत्रुं स्यात् सोऽपि मित्रत्वमाप्नुयात् ॥२॥ शत्रुत्वे मरुता तुल्यो धनेन धनदोपमः । रूपेण कामतुल्यः स्याद् आयुषा शूलधृक्समः ॥३॥ सनकादिसमो धैर्ये श्रिया विष्णुसमो भवेत् । तत्तुल्यो विद्यया ब्रह्मन् यो जपेत् कवचं नरः ॥४॥ नारी वापि प्रयत्नेन वाञ्छितार्थमवाप्नुयात् । द्वितीया सूर्यवारेण यदा भवति पद्मभूः ॥५॥ तस्यां जातं शतावृत्या शीघ्रं प्रत्यक्षमाप्नुयात् । याता तुरीयं सन्ध्यायां भूशय्यायां प्रयत्नतः ॥६॥ सर्वान् शत्रून् क्षयं कृत्वा विजयं प्राप्नुयान् नरः । दारिद्र्यान् मुच्यते चाऽऽशु स्थिरा लक्ष्मीर्भवेद् गृहे ॥७॥ सर्वान् कामानवाप्नोति सविषो निर्विषो भवेत् । ऋणं निर्मोचनं स्याद् वै सहस्रावर्तनाद् विधे ॥८॥ भूतप्रेतपिशाचादिपीडा तस्य न जायते । द्युमणिर्भ्राजते यद्वत् तद्वत् स्याच्छ्रीप्रभावतः ॥९॥ स्थिराभया भवेत् तस्य यः स्मरेद् बगलामुखीम् । जयदं बोधनं कामममुकं देहि मे शिवे ॥१०॥ जपस्यान्ते स्मरेद् यो वै सोऽभीष्टफलमाप्नुयात् । इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥११॥ न स सिद्धिमवाप्नोति साक्षाद् वै लोकपूजितः । तस्मात् सर्वप्रयत्नेन कवचं ब्रह्मतेजसम् ॥१२॥ नित्यं पदाम्बुजध्यानान् महेशानसमो भवेत् । इति श्रीदक्षिणामूर्तिसंहितायां ब्रह्मास्त्रबगलामुखीकवचं समाप्तम् । N/A References : N/A Last Updated : December 01, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP