संस्कृत सूची|संस्कृत साहित्य|कवच|
अथ वक्ष्ये महेशानि कवचं स...

महिषमर्दिनी कवचम् - अथ वक्ष्ये महेशानि कवचं स...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

अथ वक्ष्ये महेशानि कवचं सर्वकामदम् । (महादेवी) यस्य प्रसादमासाद्य भवेत् साक्षात् सदाशिवः ॥१॥
ॐकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये । प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥२॥
विनियोगः- ॐ महिषमर्दिन्याः कवचस्य भगवान्महाकालऋषिः अनुष्टुप् छन्दः, आद्याशक्तिः, महिषमर्द्दिनी देवता, चतुर्वर्गफलाप्त्यर्थे विनियोगः ॥
ॐ क्लीं पातु मस्तके देवी कामिनी कामदायिनी । मकारे पातु मां देवी चक्षुर्युग्मं महेश्वरी ॥३॥
हिकारे पातु वदने हिङ्गुला-सुर -नायिका । शकारे पातु मां श्वेता जिह्वायां चापराजिता ॥४॥ त्वपराजिता)
मकारे पातु मां देवी मर्दिनी सुरनायिका । दिकारे पातु मां देवी सावित्री फलदायीनी ॥५॥ (सावित्री कालनाशिनी)
निकारे पातु मां नित्या हृदये वासपार्श्वयोः । नाभौ लिङ्गे  गुदे कण्ठे कर्णयोस्पृष्टयोस्तथा ॥६॥ (कर्णयोः पार्श्वयोस्तथा)
शिखायां कवचे पातु मुश्वजङ्घायुगे तथा । सर्वाङ्गे पातु मां स्वाहा सर्वशक्तिसमन्विता ॥७॥
कामाद्या पातु मां स्वाहा सर्वाङ्गे पातु मर्दिनी । दशाक्षरी महाविद्या सर्वाङ्गे पातु मर्दिनी ॥८॥
मर्दिनी पातु सततं मर्दिनी रक्षयेत् सदा । राजस्थाने तथा दुर्गे सिंहव्याघ्रभयादिषु ॥९॥
श्मशाने प्रान्तरे दुर्गे नौकायां वह्निमध्यतः । दुर्गा पातु सदा देवी आर्या पातु सदाशिवा ॥१०॥
प्रभा पातु महेशानी गगने पातु सर्वदा । (कनका पातु) नन्दिनी पातु सततं मुद्राः पातु सदा मम । कृत्तिका पातु सततमभया सर्वदाऽवतु ॥११॥
प्रभा पातु महामाया माया पातु सदा मम । नन्दिनी पातु सततं सुप्रभा सर्वदाऽवतु ॥१२॥
विजया पातु सर्वत्र देव्यङ्गे नवशक्तयः । शक्तयः पातु सततं मुद्राः पातु सदा मम ॥१३॥
जया पातु सदा सूक्ष्मा विशुद्धा पातु सर्वदा । (सदा लक्ष्मी) डाकिन्याः पातु सततं सिद्धाः पातु सदा मम ॥१४॥
सर्वत्र सर्वदा पातु देवी महिषमर्दिनी । इति ते कवचं दिव्यं कथितं सर्वकामदम् ॥१५॥
यत्र तत्र न वक्तव्यं गोपितव्यं प्रयत्ततः । गोपितं सर्वतन्त्रेषु विश्वसारे प्रकाशितम् ॥१६॥
सर्वत्र सुलभा विद्या कवचं दुर्लभं महत् ॥
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ॥१७॥
न्यूनाङ्गे ह्यतिरिक्ताङ्गे क्रूरे मिथ्यातिभाषिणि । न स्तवं दर्शयेद्दिव्यं कवचं सुरदुर्लभम् ॥१८॥
यत्र तत्र न वक्तव्यं शङ्करेण च भाषितम् । दत्त्वा तेभ्यो महेशानि नश्यन्ति सिद्धयः क्रमात् ॥१९॥
मन्त्राः पराङ्मुखा यान्ति शापं दत्त्वा सुदारुणम् । अशुभं च भवेत्तस्य तस्माद्यत्नेन गोपयेत् ॥२०॥
गोरोचना कुकुमेन भूर्जपत्रे महेश्वरि । लिखित्वा शुभयोगेन ब्राह्मैन्द्रे वैधृतौ तथा ॥२१॥
आयुष्मत्सिद्धियोगे च बालवे कौलवेपि वा । वाणिजे श्रवणायां च रेवत्यां वा पुनर्वसौ ॥२२॥
उत्तरात्रययोगेषु तथा पूर्वात्रयेषु च । अश्विन्यां वाऽथ रोहिण्यां तृतीया-नवमीतिथौ ॥२३॥
अष्टम्यां वा चतुर्दश्यां षष्ठ्यां वा पञ्चमीतिथौ । अमायां वा पूर्णिमायां निशायां प्रान्तरे तथा ॥२४॥
एकलिङ्गे श्मशाने च शून्यागारे शिवालये । गुरुणां वैष्णवैर्वापि स्वयम्भू कुसुमैस्तथा ॥२५॥
शुक्लैर्वा रक्तकुसुमैश्चन्दनै रक्तसंयुतैः । ( शवाङ्गारचितावस्त्रे लिखित्वा धारयेत्पुनः ॥२६॥
तस्य सर्वार्थसिद्धिः स्याच्छङ्करेणैव भाषितम् । कुमारीं पूजयित्वा च देवीसूक्तं निवेद्य च ॥२७॥
पठित्वा पूजयेद्विप्रान्धनवान्वेद पारगान् । आखेटकमुपाख्यानं कुमार्यैव दिनत्रयम् ॥२८॥
तदा धरेन्महारक्षां कवचं सर्वकामदम् । (तदा भवेन्) नाधयो व्याधयस्तस्य दुःखशोकैर्भयं क्वचित् ॥२९॥
वादी मूको भवेदृष्टवा राजा च सेवकायते । मासमेकं पठेद्यस्तु प्रत्यहं नियतः शुचिः ॥३०॥
दिवा भवेद्धविष्याशी रात्रौ शक्तिः परायणः । षट्सहस्र प्रमाणेन प्रत्यहं प्रजपेत्सदा ॥३१॥
षण्मासैर्वा त्रिभिर्मासैर्विद्वरो भवति ध्रुवम् । अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ॥३२॥
अरोगी बलवांश्चैव राजा ता दासतामियात् । रजस्वलाभगे नित्यं जपेद्विद्यां समाहितः । एवं यः कुरुते धीमान्स एवं श्रीसदाशिवः ॥३३॥
(आगमकल्पलता १५-३१७)॥
इति विश्वसारतन्त्रे महिषमर्दिन्यां कवचं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP