संस्कृत सूची|संस्कृत साहित्य|कवच|
गोप्य ऊचुः - श्रीकृष्णस्...

श्रीकृष्णरक्षाकवचम् - गोप्य ऊचुः - श्रीकृष्णस्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

गोप्य ऊचुः - श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि । श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥१॥
नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः । अधराववतां ते तु नरनाराणावृषी ॥२॥
कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः । भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥३॥
चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु । स्कन्धौ द्वावृषभः पातु करौ मत्स्यः प्रपातु ते ॥४॥
दोर्दण्डं सततं रक्षेत्पृथुः पृथुलविक्रमः । उदरं कमठः पातु नाभिं धन्वन्तरिश्च ते ॥५॥
मोहिनी गुह्यदेशं च कटिं ते वामनोऽवतु । पृष्ठं परशुरामश्च तवोरू बादरायणः ॥६॥
बलो जानुद्वयं पातु जङ्घे बुद्धः प्रपातु ते । पादौ पातु सगुल्फौ च कल्किर्धर्मपतिः प्रभुः ॥७॥
सर्वरक्षाकरं दिव्यं श्रीकृष्णकवचं परम् । इदं भगवता दत्तं ब्रह्मणे नाभिपङ्कजे ॥८॥
ब्रह्मणा शम्भवे दत्तं शम्भुर्दुर्वाससे ददौ । दुर्वासाः श्रीयशोमत्यै प्रादाच्छ्रीनन्दमन्दिरे ॥९॥
अनेन रक्षां कृत्वास्य गोपीभिः श्रीयशोमती ।
इति गर्गसंहितायां गोलोकखण्डे त्रयोदशाध्यान्तर्गतं गोपीभिः कृतं श्रीकृष्णरक्षाकवचम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP