संस्कृत सूची|संस्कृत साहित्य|कवच|
ॐ श्रीब्रह्मणे नमः । कवच...

श्रीब्रह्मकवचम् - ॐ श्रीब्रह्मणे नमः । कवच...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

ॐ श्रीब्रह्मणे नमः । कवचं श‍ृणु चार्वङ्गि जगन्मङ्गलनामकम् । पठनाद्धारणाद्यस्य ब्रह्मज्ञो जायते ध्रुवम् ॥१॥
परमात्मा शिरः पातु हृदयं परमेश्वरः । कण्ठं पातु जगत्त्राता वदनं सर्वदृग्विभुः ॥२॥
करौ मे पातु विश्वात्मा पादौ रक्षतु चिन्मयः । सर्वाङ्गं सर्वदा पातु परब्रह्म सनातनम् ॥३॥
श्रीजगन्मङ्गलस्यास्य कवचस्य सदाशिवः । ऋषिश्छन्दोऽनुष्टुबिति परब्रह्म च देवता ॥४॥
चतुर्वर्गफलावाप्त्यै विनियोगः प्रकीर्तितः । यः पठेद्ब्रह्मकवचं ऋषिन्यासपुरःसरम् ॥५॥
स ब्रह्मज्ञानमासाद्य साक्षाद्ब्रह्ममयो भवेत् । भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारायेद्यदि ॥६॥
कण्ठे वा दक्षिणे बाहौ सर्वसिद्धीश्वरो भवेत् । इत्येतत् परमं ब्रह्मकवचं ते प्रकाशितम् ॥७॥
दद्यात् प्रियाय शिष्याय गुरुभक्ताय धीमते । पठित्वा स्तोत्रकवचं प्रणमेत्साधकाग्रणीः ॥८॥
ॐ नमस्ते परमं ब्रह्म नमस्ते परमात्मने । निर्गुणाय नमस्तुभ्यं सद्रूपाय नमो नमः ॥९॥
ॐ श्रीब्रह्मणे नमः । ॐ श्रीब्रह्मणे नमः । ॐ श्रीब्रह्मणे नमः ।
॥ इति श्रीब्रह्मकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP