संस्कृत सूची|संस्कृत साहित्य|कवच|
सूत उवाच । शिरो मे विठ्ठ...

श्रीविठ्ठलकवचम् - सूत उवाच । शिरो मे विठ्ठ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

सूत उवाच । शिरो मे विठ्ठलः पातु कपोलं मुद्गरप्रियः । नेत्रयोर्विष्णुरूपी च वैकुण्ठो घ्राणमेव च ॥१॥
मुनिसेव्यो मुखं पातु दन्तपङ्क्तिं सुरेश्वरः । विद्याधीशस्तु मे जिह्वां कण्ठं विश्वेशवन्दितः ॥२॥
व्यापको हृदयं पातु स्कन्धौ पातु सुखप्रदः । भुजौ मे नृहरिः पातु करौ च सुरनायकः ॥३॥
मध्यं पातु सुराधीशो नाभिं पातु सुरालयः । सुरवन्द्यः कटी पातु जानुनी कमलासनः ॥४॥
जङ्घे पातु हृषीकेशः पादौ पातु त्रिविक्रमः । निखिलं च शरीरं मे पातां गोविन्दमाधवौ ॥५॥
अकारो व्यापको विष्णुरक्षरात्मक एव च । पावकः सर्वपापानामकाराय नमो नमः ॥६॥
तारकः सर्वभूतानां धर्मशास्त्रेषु गीयते । पुनातु विश्वभुवनं तोङ्काराय नमो नमः ॥७॥
मूलप्रकृतिरूपा या महामाया च वैष्णवी । तस्या बीजेन संयुक्तयकारायनमो नमः ॥८॥
वैकुण्ठाधिपतिः साक्षाद्वैकुण्ठपददायकः । वैजयन्तीसमायुक्तो विकाराय नमो नमः ॥९॥
स्नातः सर्वेषु तीर्थेषु पूतो यज्ञादिकर्मसु । पावनो द्विजपङ्क्तीनां ठकाराय नमो नमः ॥१०॥
वाहनं गरुडो यस्य भुजङ्गः शयनं तथा । वामभागे च लक्ष्मीश्च लकाराय नमो नमः ॥११॥
नारदादिसमायुक्तं वैष्णवं परमं पदम् । लभते मानवो नित्यं वैष्णवं धर्ममाश्रितः ॥१२॥
व्याधयो विलयं यान्ति पूर्वकर्मसमुद्भवाः । भूतानि च पलायन्ते मन्त्रोपासकदर्शनात् ॥१३॥
इदं षडक्षरस्तोत्रं यो जपेच्छ्रद्धयान्वितः । विष्णोस्सायुज्यमाप्नोति सत्यं सत्यं न संशयः ॥१४॥
इति श्रीपद्मपुराणे विठ्ठलकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP