संस्कृत सूची|संस्कृत साहित्य|कवच|
निम्बार्क-कवचं वक्ष्ये मह...

श्रीनिम्बार्ककवचम् - निम्बार्क-कवचं वक्ष्ये मह...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

निम्बार्क-कवचं वक्ष्ये महर्षिगणमध्यतः । हविर्द्धानं नमस्कृत्य गौरमुख उवाच ह ॥१॥
निम्बार्क-कवचं वक्ष्ये सम्पद्येते यशोजयौ । संकटे दुर्गमे प्राप्ते प्राणरक्षाकरं नृणाम् ॥२॥
निम्बार्क कवचस्यास्य सर्वाचार्याद्वयस्य च । ऋषिगौरमुखश्च् छन्दोऽनुष्टुप् निम्बार्क एव तु ॥३॥
देवः सुदर्शनो बीजं शक्तिः पुराणमेव च । विततं कीलकं चैव पवित्रं कवचं तथा ॥४॥
चक्र मस्त्रं मनुस्त्वेवं षडक्षर उदाहृतः । द्वयनन्तरनराकारमिति ध्यानं प्रकीर्तितम् ॥५॥
निम्बार्क प्रीत्यर्थे जपे विनियोगः समीरितः । इति सङ्कल्प्य चर्ष्याद्यान् शीर्षादिषु क्रमान्न्यसेत् ॥६॥
शीर्षमास्यं च हृद् गुह्यं पादौ सर्वाङ्ग-दिक्षु च । हार्द्दे बाह्याभ्यन्तरयोश्चतुर्थ्या च नमोऽन्तकाः ॥७॥
``नमो निम्बार्काय'' इति मन्त्रं षडक्षरं विदुः । अङ्गुली-तल-पृष्ठेषु ङे-द्विवच-नमोऽन्तिषु ॥८॥
क्रमान्न्यसेदेकैकशो द्वितीयान्तान् षडक्षरान् । नम आद्यन्तेष्वंगेषु द्वितीयान्तान् षडक्षरान् ॥९॥
हृदये शिरसि शिखा--कवचेऽक्षित्रयेऽस्त्रतः । नमः स्वाहा वषट् हुं वौषट् फडेतान् पदान्न्यसेत् ॥१०॥
विनियोगः- ॐ अस्य श्रीनिम्बार्क सर्वाचार्यकवचस्य श्रीगौरमुख ऋषिः, अनुष्टुप् छन्दः, श्री निम्बार्को देवता, सुदर्शनो बीजम्, पुराणं शक्तिः, विततं कीलकम्, पवित्रं कवचम्, चक्रमस्त्रम्, षडक्षरः परमो मन्त्रः, द्व्यनन्तर नराकारमिति ध्यानम्, सर्वाचार्यप्रीत्यर्थे जपे विनियोगः । ऋष्यादि न्यासाः- श्री गौरमुखाय ऋषये नमः शिरसिः । अनुष्टुप् छन्दसे नमो मुखे । श्रीनिम्बार्काय देवाय नमो हृदि । सुदर्शनाय बीजाय नमो गुह्ये । पुराणशक्तये नमः पादयोः । वितताय कीलकाय नमः सर्वाङ्गे । पवित्राय कवचाय नमः सन्धिषु । चक्राय अस्त्राय नमो दिक्षु । षडक्षराय परमाय मन्त्राय नमो हृदि । द्व्यनन्तरनराय ध्यानाय नमो बाह्याभ्यन्तरयोः । श्रीनिम्बार्कसर्वाचार्यप्रीत्यर्थे जपे विनियोगाय नमः कराञ्जलौ । करन्यासाः- नं अङ्गुष्ठाभ्यां नमः । मों तर्जनीभ्यां नमः । निं मध्यमाभ्यां नमः । बां अनामिकाभ्यां नमः । र्कां कनिष्ठिकाभ्यां नमः । यं करतलकरपृष्ठाभ्यां नमः । हृदयादि न्यासाः- नं हृदयाय नमः । मों शिरसे स्वाहा । निं शिखायै वषट् । बां कवचाय हुम् । र्कां नेत्रत्रयाय वौषट् । यं अस्त्राय फट् । ('नमो निम्बार्काय' इति षडक्षर मन्त्रः ) ध्यानम्- ध्यात्वा कालाङ्ग-सम्पन्नं द्वादशारशिरोऽन्वितम् । चातुर्मास्य-वलयं तु षट्कोण-शोभितं तथा ॥११॥
अयनद्वय-निर्माण द्वयमन्यन्नराकृतिम् । स्वस्तिकासनमध्यस्थमरुणाभं सितांशुकम् ॥१२॥
सव्यहस्ततले जानुं तत्त्वमुद्रोपशोभितं आयताक्षं महाभालमूर्ध्वपुण्ड्रसुरोचिषम् ॥१३॥
तुलसीमालयायुक्तमाचार्य मुख्यमीश्वरम् । केशवल्लीसमाविष्टं सम्यक्चूडितमूर्धजम् ॥१४॥
जपेन्नित्यं भयासन्ने देशे काले रुगागमे । निम्बार्कनामनिर्माणमिदं वर्माऽऽशु सिद्धिदम् ॥१५॥
कवचम्-- सुदर्शनस्तमोध्वंसी वातपत्रं शिरोद्धतम् । सुस्थिरं ध्यायते शम्भुः भ्रुवौ मे कालविग्रहः ॥१६॥
निम्बादित्योऽवतान्नेत्रे राधाकृष्ण उरोजसम् । राधा-कृष्ण-रसाभासी कपोलौ मे कवीश्वरः ॥१७॥
दन्तान् चक्राकृतिः पातु हविर्द्धानश्च जिह्विकाम् । ओष्ठं पातु निमानन्दश्चिबुकं चक्रमध्यगः ॥१८॥
मुखं निम्बरविः पातु नक्तन्यासनभोजकः । कण्ठे वैकुण्ठहस्तश्च पातु दुष्टविखण्डनः ॥१९॥
वक्षस्थलं सदा पातु निम्बो मे भक्तवत्सलः । निम्बानन्दो भुजौ पातु तरदद्रिस्वरूपधृक् ॥२०॥
करावरी सदा पातु चाङ्गुलीर्द्वादशारकः । तेजोमयः सदा पातु दरं मे दुर्जरौघपाक् ॥२१॥
द्वयनान्तर्नराकारो नाभिं मम सदाऽवतु । सत्परीक्ष एव वर्तिं यष्टिं मेऽङ्गं सदाऽवतु ॥२२॥
आशुवेगो भ्रमन्नेमिः पातु मे कटिमण्डले । नेमि-निजो जघनं मे पातु ऋषि-मुनीश्वरः ॥२३॥
जानुनी विष्णुदूतो मे जङ्घे विश्वस्वरूपधृक् । चरणौ पातु चक्रं मे व्रजमण्डल-भारभृत् ॥२४॥
गुल्फौ मे नियमानन्दः पार्ष्णिं चैव श्वलापयेत् । (श्वलापयेत् श्वल आशुगमने ।) आचार्य प्रपदे पातु विततं पातु भूतले ॥२५॥
पूर्वस्य दिशि मां रक्षेत् प्रिया श्रीललितासखी । पशुहिंसानिवृत्तिर्मामाग्नेय्यां दिशि रक्षतु ॥२६॥
दक्षिणे चम्पकलता चित्रा नैरृत्यकेऽवतु । तापसंस्कारनिर्णेता वारुण्यां दिशि रक्षतु ॥२७॥
पादाग्रसरिदोघस्तु वायव्यां दिशि रक्षतु । गौरमुखमुखावर्तिर्मा मुदङ्ग दिशि रक्षतु ॥२८॥
ब्रह्मपुत्रजनोद्धर्त्ता ऐशान्यां दिशि रक्षतु । रवीन्दुशत्रुसंवासी ह्यूर्ध्वायां दिशि पातु माम् ॥२९॥
अधस्ताद् दिशि मां पातु शेषपर्यन्तरन्ध्रजित् । कालात्मको दिवा पातु नक्तं सूर्यस्वरूपधृक् ॥३०॥
प्रभाते त्वरुणः पातु मध्याह्ने पातु चारुणिः । सन्ध्यायामारुणिः पातु निशीथे स्वप्रकाशवान् ॥३१॥
भक्तिदो हृदयं पातु चतुष्कं चतुरक्रियः । बुद्धिं ब्रह्मार्थितः पातु चित्तं विष्णु-प्रयोजितः ॥३२॥
अनिरुद्धानुवर्ती मे पातु स्वस्त्ययकं मनः । मोह-ग्राह-क्रियः पातु सर्वचित्तेन्द्रियाणि मे ॥३३॥
दुर्बुद्धेर्मे सदा पातु दुर्जन-दमनो ध्रुवः । तापात्मकः सदा पातु महापातकसंचयात् ॥३४॥
कामदेव-महावेगान्नैष्ठिको ब्रह्मचर्यवान् । पातु मां सर्वदा धीरः सदाचार-परायणः ॥३५॥
सहिष्णुर्मां सदा पातु दृढात् क्रोधौघरंहसः । पुरुषार्थदो मां पातु महालोभौघरंहसः ॥३६॥
विज्ञानासारवर्षी मां महामोहौघवेगतः । रक्षतु मां भयान् नित्यं निर्भयश्चक्रबालधृक् ॥३७॥
पाषण्ड-षण्ड-दहनः पातु पाषण्डकर्मणः । चरणं मे स्थले पातु कृष्णचरण-संज्ञकः ॥३८॥
सलिले मां सदा पातु मज्जज्जनैक-पारदः । अग्नेस्तेजस्तेन पातु वायौ खेचरपालकः ॥३९॥
आकाशे वेगवान् पातु ग्रहेभ्यः कालविग्रहः । अरण्ये मां सदा पातु वृन्दारण्य-निवासकृत् ॥४०॥
पर्वते मां सदा पातु गोवर्द्धनतटे स्थितः । दुर्गमे संकटे पातु दुर्ग-संकट-भेदकः ॥४१॥
साभिलाषः सदा पातु शर्वरीश्वरशीतलः । (साम शिशामयुर्जितः ।) जयन्तीनन्दनः श्रीमान् विप्राशा-परिपूरकः ॥४२॥
प्रसह्ये मां सदा पातु प्रपन्न भयभञ्जनः । कृष्णतन्त्रचरः शश्वत् मां सदा पातु सर्वतः ॥४३॥
निजनामास्त्रकः पातु सर्वत्र मां हि सर्वगः । राधाकृष्ण-प्रिया पातु रङ्गदेवी सखीश्वरी ॥४४॥
राधाकृष्णपद-प्राप्तौ विघ्नान्मां विघ्ननाशिनी । निम्बादित्य ! महाबाहो ! सर्वपाल ! सुदर्शन ! ॥४५॥
आद्याचार्य रङ्गदेवी त्वमेव शरणं मम । प्रेमदं भक्तिदं रम्यं भुक्ति-मुक्ति-प्रदं सदा ॥४६॥
मालामन्त्रमिदं प्रोक्तं निम्बादित्यस्य वेधसः । ॐ निम्बार्क ङेन्तमुच्चार्य विद्महे पदमाचरेत् ॥४७॥
आद्याचार्य तुरीयान्तं धीमहीतिपदं ततः । तन्नश्चक्र मिति कृत्वा ब्रूयात्प्रचोदयादिति ॥४८॥
श्रीनिम्बार्कं गायत्री-- ॐ निम्बार्काय विद्महे आद्याचार्याय धीमहि तन्नश्चक्रं प्रचोदयात् । फलस्तुतिः- इदं चक्राह्वसम्पन्नं निम्बार्क कवचं शुभम् । प्रेमभक्तिकरं रम्यं युग्ममन्त्रौघविग्रहम् ॥४९॥
सर्व-विघ्न-हरं शुद्धं बोधदं बुद्धिरक्षकम्। भुक्ति-मुक्तिकरं दिव्यं धन-धन्य-प्रदं परम् ॥५०॥
ज्ञानदं मानदं श्रेष्ठं महासूत्र-यशस्करम् । तुष्टिदं पुष्टिदं रम्यं दुष्टस्य नाशनं ध्रुवम् ॥५१॥
अभिलाषभरं तीव्र-क्रोध-मोह-स्मरापहम् । दुर्गमे संकटे घोरे राजस्थाने भयावहे ॥५२॥
संग्रामेऽस्त्रसमूहाग्रे सिंह-व्याघ्रभये तथा । श्मशाने च भयेस्थाने पर्वतेऽग्नौ जले स्थले ॥५३॥
चौर-सर्प-भयेऽत्युग्रे भूत-प्रेत-पिशाचगे । ब्रह्मराक्षस-वेताल-कूष्माण्डे भैरवे ग्रहे ॥५४॥
आसन्ने संपठेन्नित्यं मुच्यते सर्वतो भयात् । निम्बार्क-कवचं पद्मं विकटे शत्रु-संकटे ॥५५॥
गुरुमभ्यर्च्य मनसा विधिवद्वर्म संपठेत् । श्रीनिम्बादित्यभक्ताय स्वैतिह्य-तत्पराय च ॥५६॥
गुरुभक्ति-प्रसिद्धयर्थं श्रीयुग्मोपासकाय च । पञ्चसंस्कार-युक्ताय विनीताय यशस्विने ॥५७॥
इदं रम्यं महाशुद्धं दातव्यं कवचं बुधैः । दुर्विनीतायाऽभक्ताय गुरुविमुख-मार्गिणे ॥५८॥
सम्प्रदाय-विहीनाय दत्त्वा मृत्युमवाप्नुयात् । मन्त्रौघा नैव सिद्धयन्ति निम्बार्क-कवचं बिना ॥५९॥
इदं सत्यमिदं सत्यं सत्यं सत्यं वदाम्यहम् । निम्बार्क-कवचं पाठ्यं सर्वमन्त्रार्थ-सिद्धये ॥६०॥
सर्वसिद्धिमवाप्नोति श्रीनिम्बार्क प्रसादतः । जीवन्मुक्तो भवेत् सोऽपि विष्णुरेव न संशयः ॥६१॥
इति श्रीगौरमुखाचार्यविनिर्मितं सिद्धिदं श्रीनिम्बार्ककवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : November 30, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP