संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीरामदास उवाच - एकदा स...

श्रीहनुमत्कवचम् - श्रीरामदास उवाच - एकदा स...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीरामदास उवाच - एकदा सुखमासीनं शङ्करं लोकशङ्करम् । पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम् ॥१॥
पार्वत्युवाच - भगवन् देवदेवेश लोकनाथ जगत्प्रभो । शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम् ॥२॥
सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये । दुःखदावाग्निसन्तप्तचेतसां दुःखभागिनाम् ॥३॥
श्रीशिव उवाच - श‍ृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया । विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥४॥
कवचं कपिनाथस्य वायुपुत्रस्य धीमतः । गुह्यं तत्ते प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि ॥५॥
उद्यदादित्यसङ्काशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥६॥
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥७॥
हनुमानञ्जनासूनुर्वायुपुत्रो महाबलः । रामेष्टः फाल्गुनसखः पिङ्गाक्षोऽमितविक्रमः ॥८॥
उदधिक्रमणश्चैव सीताशोकविनाशनः । लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥९॥
एवं द्वादश नामानि कपीन्द्रस्य महात्मनः । स्वापकाले प्रबोधे च यात्राकाले च यः पठेत् ॥१०॥
तस्य सर्वभयं नास्ति रणे च विजयी भवेत् । राजद्वारे गह्वरे च भयं नास्ति कदाचन ॥११॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्म्यजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राजलिराञ्जनेयम् ॥१२॥
ॐ नमो हनुमते सर्वग्रहान् भूतभविष्यद्वर्तमानान् समीपस्थान् सर्वकालदुष्टबुद्धीनुच्चाटय परबलान् क्षोभय मम सर्वकार्याणि साधय साधय । ॐ ह्रां ह्रौं हुं फट । घे घे घे ॐ शिवसिद्धम् । ॐ ह्रां ॐ ह्रीं ॐ ह्रूं ॐ ह्रैं ॐ ह्रौं ॐ ह्रः­स्वाहा । परकृतयन्त्रमन्त्रतन्त्रपरापकारभूतप्रेतपिशाचदृष्टिसव विघ्नदुर्जनचेष्टाकुविद्यासर्वोग्रभयानि निवारय निवारय बन्ध बन्ध, लुण्ठ लुण्ठ विलुञ्च विलुञ्च किलि किलि किलि सर्वकुयन्त्राणि दुष्टवाचं ॐ फट स्वाहा । ॐ अस्य श्रीहनुमत्कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः । श्रीहनुमान् परमात्मा देवता । अनुष्टुप्छन्दः । मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः । लक्ष्मणप्राणदातेति कीलकम् । रामदूतायेत्यस्त्रम् । हनुमान् देवता इति कवचम् । पिङ्गाक्षोऽमितविक्रम इति मन्त्रः । श्रीरामचन्द्रप्रेरणया रामचन्द्रप्रीत्यर्थं मम सकलकामनासिद्धयर्थं जपे विनियोगः । अथ अङ्गुलिन्यासः । ॐ ह्रां अञ्जनासुताय अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ ह्रूं रामदूताय मध्यमाभ्यां नमः । ॐ ह्रैं वायुपुत्राय अनामिकाभ्यां नमः । ॐ ह्रौं अग्निगर्भाय कनिष्ठिकाभ्यां नमः । ॐ ह्रः ब्रह्मास्त्रनिवारणाय करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः । ॐ ह्रां अञ्जनासुताय हृदयाय नमः । ॐ ह्रीं रुद्रमूर्तये शिरसे स्वाहा । ॐ ह्रूं रामदूताय शिखायै वषट् । ॐ ह्रैं वायुपुत्राय कवचाय हुं । ॐ ह्रौं अग्निगर्भाय नेत्रत्रयाय वौषट् । ॐ ह्रः ब्रह्मास्त्रनिवारणाय अस्त्राय फट् । भूर्भुवःसुवरोमिति दिग्बन्धः ॥
अथ ध्यानम् । ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापपहं   देवेन्द्रप्रमुखं प्रशस्तयशसं देदीप्यमानं रुचा । सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं   संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥१॥
उद्यन्मार्ताण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं   मौञ्जीयज्ञोपवीताभरणरुचिशिखं शोभितं कुण्डलाङ्कम् । भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं   ध्यायेदेवं विधेमं प्लगकुलपतिं गोष्पदीभूतवार्धिम् ॥२॥
वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् । निगूढमुपसङ्गम्य पारावारपराक्रमम् ॥३॥
स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् । कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजे ॥४॥
सव्यहस्ते गदायुक्तं वामहस्ते कमण्डलुम् । उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तयेत् ॥५॥
अथ मन्त्रः । Oन्नमो हनुमते शोभिताननाय यशोऽलङ्कृताय अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकाय कपिसैन्यप्रकाशनपर्वतोत्पाटनाय सुग्रीवसाह्यकरणपरोच्चाटनकुमारब्रह्मचर्यगम्भीरशब्दोदाय ह्रीं सर्वदुष्टग्रहनिवारणाय स्वाहा । Oन्नमो हनुमते एहि एहि एहि सर्वग्रहभूतानां शाकिनीडाकिनीनां विषमदुष्टानां सर्वेषामाकर्षयाकर्षय । मर्दय मर्दय । छेदय छेदय । मर्त्यान् मारय मारय । शोषय शोषय । प्रज्वल प्रज्वल । भूतमण्डलपिशाचमण्डलनिरसनाय । भूतज्वर-प्रेतज्वर-चातुर्थिकज्वर-ब्रह्मराक्षस-पिशाचछेदनक्रिया- विष्णुज्वर-महेशज्वरान् छिन्धि छिन्धि । भिन्धि भिन्धि । अक्षिशूले शिरोऽभ्यन्तरे ह्यक्षिशूले गुल्मशूले पित्तशूले ब्रह्मराक्षसकुलप्रबलनागकुलविषं निर्विषं कुरु झटितिझटिति । ॐ ह्रीं फट् घे घे स्वाहा । ॐ नमो हनुमते पवनपुत्र वैश्वानरमुख पापदृष्टिहनुमतेको आज्ञाफुरे स्वाहा । स्वगृहे द्वारे पट्टके तिष्ठ तिष्ठेति तत्र रोगभयं राजकुलभयं नास्ति, तस्योच्चारणमात्रेण सर्वे ज्वरा नश्यन्ति । ॐ ह्रां ह्रीं ह्रूं फट् घे घे स्वाहा । श्रीरामचन्द्र उवाच- हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः । पातु प्रतीच्यां रक्षोघ्नः पातु सागरपारगः ॥१॥
उदीच्यामूर्ध्वतः पातु केसरीप्रियनन्दनः । अधस्तु विष्णुभक्तस्तु पातु मध्यं च पावनिः ॥२॥
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् । सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ॥३॥
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् । नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ॥४॥
कपोले कर्णमूले च पातु श्रीरामकिङ्करः । नासाग्रमञ्जनासूनुः पातु वक्त्रं हरीश्वरः ॥
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥५॥
पातु देवः फाल्गुनेष्टः चिबुकं दैत्यदर्पहा । पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥६॥
भुजौ पातु महातेजाः करौ च चरणायुधः । नखान् नखायुधः पातु कुक्षौ पातु कपीश्वरः ॥७॥
वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः । लङ्काविभञ्जनः पातु पृष्ठदेशे निरन्तरम् ॥८॥
नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः गुह्यं पातु महाप्राज्ञो लिङ्गं पातु शिवप्रियः ॥९॥
ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः । जङ्घे पातु कपिश्रेष्ठो गुल्फौ पातु महाबलः । अचलोद्धारकः पातु पादौ भास्करसन्निभः ॥१०॥
अङ्गान्यमितसत्त्वाढ्यः पातु पादाङ्गुलींस्तथा । सर्वाङ्गानि महाशूरः पातु रोमाणि चात्मवित् ॥११॥
हनुमत्कवचं यस्तु पठेद्विद्वान् विचक्षणः । स एव पुरुषश्रेष्ठो भुक्तिं मुक्तिं च विन्दति ॥१२॥
त्रिकालमेककालं वा पठेन्मासत्रयं नरः । सर्वान् रिपून् क्षणाज्जित्वा स पुमान् श्रियमाप्नुयात् ॥१३॥
मध्यरात्रौ जले स्थित्वा सप्तवारं पठेद्यदि । क्षयापस्मारकुष्ठादि तापत्रयनिवारणम् ॥१४॥
अश्वत्थमूलेऽर्कवारे स्थित्वा पठति यः पुमान् । अचलां श्रियमाप्नोति सङ्ग्रामे विजयं तथा ॥१५॥
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगताम् । सुदार्ढ्यं वाक्स्फुरत्वं च हनुमत्स्मरणाद्भवेत् ॥१६॥
मारणं वैरिणां सद्यः शरणं सर्वसम्पदाम् । शोकस्य हरणे दक्षं वन्दे तं रणदारुणम् ॥१७॥
लिखित्वा पूजयेद्यस्तु सर्वत्र विजयी भवेत् । यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ॥१८॥
स्थित्वा तु बन्धने यस्तु जपं कारयति द्विजैः । तत्क्षणान्मुक्तिमाप्नोति निगडात्तु तथैव च ॥१९॥
ईश्वर उवाच - भान्विन्दोश्चरणारविन्दयुगलं कौपीनमौञ्जीधरं काञ्चिश्रेणिधरं दुकूलवसनं यज्ञोपवीताजिनम् । हस्ताभ्यां धृतपुस्तकं च विलसद्धारावलिं कुण्डलं यश्चालं विशिखं प्रसन्नवदनं श्रीवायुपुत्रं भजे ॥२०॥
यो वारान्निधिमल्पपल्बलमिवोल्लङ्घ्य प्रतापान्वितो   वैदेहीघनशोकतापहरणो वैकुण्ठभक्तप्रियः । अक्षाद्यार्जितराक्षसेश्वरमहादोषहारी रणे   सोऽयं वानरपुङ्गवोऽवतु सदा योऽस्मान्समीरात्मजः ॥२१॥
वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं   दम्भोलिस्तम्भसारं प्रहरणसुवशीभूतरक्षोऽधिनाथम् । उद्यल्लाङ्गूलसप्तप्रचलचलधरं भीममूर्तिं कपीन्द्रं   ध्यायेत्तं रामचन्द्रं भ्रमरदृढकरं सत्त्वसारं प्रसन्नम् ॥२२॥
वज्राङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलैः शोभनीयं   सर्वापीड्यादिनाथं करतलविधृतं पूर्णकुम्भं दृढं वा । भक्तानामिष्टकारं विदधति च सदा सुप्रसन्नं हरांशं   त्रैलोक्यत्रातुकामं सकलभुवि गतं रामदूतं नमामि ॥२३॥
वामे करे वैरिभिदं वहन्तं शैलं परं श‍ृङ्खलहारकण्ठम् । दधानमाच्छाद्य सुपर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥२४॥
पद्मरागमणिकुण्डलत्विषा पाटलीकृतकपोलमण्डलम् । दिव्यदेहकदलीवनान्तरे भावयामि पवमाननन्दनम् ॥२५॥
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् । वाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् । २६॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥२७॥
विवादे दिव्यकाले च द्यूते राजकुले रणे । दशवारं पठेद्रात्रौ मिताहारो जितेन्द्रियः ॥२८॥
विजयं लभते लोके मानवेषु नरेषु च । भूते प्रेते महादुर्गेऽरण्ये सागरसम्प्लवे । २९॥
सिंहव्याघ्रभये चोग्रे शरशस्त्रास्त्रपातने । श‍ृङ्खलाबन्धने चैव कारागृहनियन्त्रणे ॥३०॥
कोपे स्तम्भे वह्निचक्रे क्षेत्रे घोरे सुदारुणे । शोके महारणे चैव ब्रह्मग्रहनिवारणम् ॥३१॥
सर्वदा तु पठेन्नित्यं जयमाप्नोति निश्चितम् । भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ॥३२॥
त्रिगन्धिना वा मष्या वा विलिख्य धारयेन्नरः । पञ्चसप्तत्रिलोहैर्वा गोपितः सर्वतः शुभम् ॥३३॥
करे कट्यां बाहुमूले कण्ठे शिरसि धारितम् । सर्वान्कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥३४॥
अपराजित नमस्तेऽस्तु नमस्ते रामपूजित । प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥३५॥
इत्युक्त्वा यो व्रजेद्ग्रामं देशं तीर्थान्तरं रणम् । आगमिष्यति शीघ्रं स क्षेमरूपो गृहं पुनः ॥३६॥
इति वदति विशेषाद्राघवे राक्षसेन्द्रः   प्रमुदितवरचित्तो रावणस्यानुजो हि । रघुवरपदपद्मं वन्दयामास भूयः   कुलसहितकृतार्थः शर्मदं मन्यमानः ॥३७॥
तं वेदशास्त्रपरिनिष्टितशुद्धबुद्धिं   शर्मप्रदं सुरमुनीन्द्रनुतं कपीन्द्रम् । कृष्णत्वचं कनकपिङ्गजटाकलापं   व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥३८॥
य इदं प्रातरुत्थाय पठेत कवचं सदा । आयुरारोग्यसन्तानैस्तस्य स्तव्यः स्तवो भवेत् ॥३९॥
एवं गिरीन्द्रजे श्रीमद्धनुमत्कवचं शुभम् । त्वया पृष्टं मया प्रीत्या विस्तराद्विनिवेदितम् ॥४०॥
श्रीरामदास उवाच - एवं शिवमुखाच्छ्रुत्वा पार्वती कवचं शुभम् । हनूमतः सदा भक्त्या पपाठ तन्मनाः सदा ॥४१॥
एवं शिष्य त्वयाऽप्यत्र यथा पृष्टं तथा मया । हनुमत्कवचं चेदं तवाग्रे विनिवेदितम् ॥४२॥
इदं पूर्वं पठित्वा तु रामस्य कवचं ततः । पठनीयं नरैर्भक्त्या नैकमेव पठेत्कदा ॥४३॥
हनुमत्कवचं चात्र श्रीरामकवचं विना । ये पठन्ति नराश्चात्र पठनं तद्वृथा भवेत् ॥४४॥
तस्मात्सर्वैः पठनीयं सर्वदा कवचद्वयम् । रामस्य वायुपुत्रस्य सद्भक्तैश्च विशेषतः ॥४५॥
इति श्रीशतकोटिरामचरितान्तर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गातर्गतं श्रीहनुमत्कवचं सम्पूर्णम् ॥
हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न षट् कवचानि पठनीयम् । षट् कवचानि पठितुं अशक्तश्चेत्  हनुमत्-लक्ष्मण-सीता-राम –  अथवा हनुमत्-सीता-राम अथवा हनुमत्-राम / सीता-राम कवचानि । अथवा श्रीरामकवचमेव पठनीयम् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP