संस्कृत सूची|संस्कृत साहित्य|कवच|
पूर्वपीठिका - श्रीकार्ति...

श्रीरुद्रचण्डी कवचम् - पूर्वपीठिका - श्रीकार्ति...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

पूर्वपीठिका - श्रीकार्तिकेय उवाच - कवचं चण्डिकादेव्याः श्रोतुमिच्छामि ते शिव! । यदि तेऽस्ति कृपा नाथ! कथयस्व जगत्प्रभो ! ॥१॥
श्रीशिव उवाच - श‍ृणु वत्स ! प्रवक्ष्यामि चण्डिकाकवचम् शुभम् । भुक्तिमुक्तिप्रदातारमायुष्यं सर्वकामदम् ॥२॥
दुर्लभं सर्वदेवानां सर्वपापनिवारणम् । मन्त्रसिद्धिकरं  पुंसां ज्ञानसिद्धिकरं  परम् ॥३॥
विनियोगः - श्रीरुद्र चण्डिकाकवचस्य श्रीभैरव ऋषिः, अनुष्टुप्छन्दः, श्रीचण्डिका देवता, चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगः ॥
ऋष्यादि न्यासः - श्रीभैरव ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीचण्डिकादेवतायै नमः हृदि । चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे ॥
  अथ  कवचस्तोत्रम् । चण्डिका मेऽग्रतः पातु आग्नेय्यां भवसुन्दरी । याम्यां पातु महादेवी नैरृत्यां पातु पार्वती ॥१॥
वारुणे चण्डिका पातु चामुण्डा पातु वायवे । उत्तरे भैरवी पातु ईशाने पातु शङ्करी ॥२॥
पूर्वे पातु शिवा  देवी ऊर्ध्वे पातु महेश्वरी । अधः पातु सदाऽनन्ता मूलाधार निवासिनी ॥३॥
मूर्ध्नि पातु महादेवी ललाटे च महेश्वरी । कण्ठे कोटीश्वरी पातु हृदये नलकूबरी ॥४॥
नाभौ कटिप्रदेशे च पायाल्लम्बोदरी सदा । ऊर्वोर्जान्वोः सदा पायात् त्वचं मे मदलालसा ॥५॥
ऊर्ध्वे पार्श्वे सदा पातु भवानी भक्तवत्सला । पादयोः पातु मामीशा सर्वाङ्गे विजया सदा ॥६॥
रक्त मांसे महामाया त्वचि मां पातु लालसा । शुक्रमज्जास्थिसङ्घेषु गुह्यं मे भुवनेश्वरी ॥७॥
ऊर्ध्वकेशी सदा पायान् नाडी सर्वाङ्गसन्धिषु । ॐ ऐं ऐं ह्रीं ह्रीं चामुण्डे स्वाहामन्त्रस्वरूपिणी ॥८॥
आत्मानं मे सदा पायात् सिद्धविद्या दशाक्षरी । इत्येतत् कवचं देव्याश्चण्डिकायाः शुभावहम् ॥९॥
    ॥फलश्रुति ॥
गोपनीयं प्रयत्नेन कवचं सर्वसिद्धिदम् । सर्वरक्षाकरं धन्यं न देयं यस्य कस्यचित् ॥१०॥
अज्ञात्वा कवचं देव्या यः पठेत् स्तवमुत्तमम् । न तस्य जायते सिद्धिर्बहुधा पठनेन च ॥११॥
धृत्वैतत् कवचं देव्या दिव्यदेहधरो भवेत् । अधिकारी भवेदेतच्चण्डीपाठेन साधकः ॥१२॥
इति श्रीरुद्रयामलतन्त्रे श्रीशिवकार्तिकेयसंवादे रुद्रचण्डीकवचं सम्पूर्णं शिवं भूयात् ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP