संस्कृत सूची|संस्कृत साहित्य|कवच|
बृहस्पतिरुवाच । इन्द्र श...

सूर्यकवचम् - बृहस्पतिरुवाच । इन्द्र श...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

बृहस्पतिरुवाच । इन्द्र श‍ृणु प्रवक्ष्यामि कवचं परमाद्भुतम् । यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥१९॥
कवचं बिभ्रतो व्याधिर्न भिया याति सन्निधिम् । यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥२०॥
शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् । खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥२१॥
जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री देवो दिनकरः स्वयम् । व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्त्तितः ॥२२॥
सद्योरोगहरं सारं सर्वपापप्रणाशनम् । ॐ क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ॥२३॥
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु । ॐ ह्रीं ह्रीं श्रीं श्रीं सूर्याय स्वाहा मे पातु नासिकाम् ॥२४॥
चक्षुर्मे पातु सूर्यश्च तारकां च विकर्तनः । भास्करो मेऽधरं पातु दन्तान्दिनकरः सदा ॥२५॥
प्रचण्डः पातु गण्डं मे मार्तण्डः कर्णमेव च । मिहिरश्च सदा स्कन्धे जङ्घे पूषा सदाऽवतु ॥२६॥
वक्षः पातु रविः शश्वन्नाभिं सूर्यः स्वयं सदा । कङ्कालं मे सदा पातु सर्वदेवनमस्कृतः ॥२७॥
करौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः । विभाकरो मे सर्वाङ्गं पातु सन्ततमीश्वरः ॥२८॥
इति ते कथितं वत्स कवचं सुमनोहरम् । जगद्विलक्षणं नाम त्रिजगत्सु सुदुर्लभम् ॥२९॥
पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे । मया दत्तं च तुभ्यं तद्यस्मै कस्मै न देहि भोः ॥३०॥
व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः । भवानरोगी श्रीमांश्च भविष्यति न संशयः ॥३१॥
लक्षवर्षहविष्येण यत्फलं लभते नरः । तत्फलं लभते नूनं कवचस्यास्य धारणात् ॥३२॥
इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत् । दशलक्षप्रजप्तोऽपि मन्त्रसिद्धिर्न जायते ॥३३॥
इति श्रीब्रह्मवैवर्तपुराणे गणपतिखण्डे एकोनविंशा- ध्यायान्तर्गतं    बृहस्पतिप्रोक्तं सूर्यकवचं समाप्तम् ।
ब्रह्मवैवर्तपुराण । गणपतिखण्ड । अध्याय १९/२३-२९॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP