संस्कृत सूची|संस्कृत साहित्य|कवच|
द्वात्रिंशद्वर्णमन्त्रोऽय...

अन्नपूर्णाकवचम् - द्वात्रिंशद्वर्णमन्त्रोऽय...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

द्वात्रिंशद्वर्णमन्त्रोऽयं शङ्करप्रतिभाषितः । अन्नपूर्णा महाविद्या सर्वमन्त्रोत्तमोत्तमा ॥१॥
पूर्वमुत्तरमुच्चार्य सम्पुटीकरणमुत्तमम् । स्तोत्रमन्त्रस्य ऋषिर्ब्रह्मा छन्दो त्रिष्टुबुदाहृतः ॥२॥
देवता अन्नपूर्णा च ह्रीं बीजमम्बिका स्मृता । स्वाहा शक्तिरिति ज्ञेयं भगवति कीलकं मतम् ॥३॥
धर्माऽर्थ-काम-मोक्षेषु विनियोग उदाहृतः । ॐ ह्रीं भगवति माहेश्वरि अन्नपूर्णायै स्वाहा । सप्तार्णवमनुष्याणां जपमन्त्रः समाहितः ॥४॥
अन्नपूर्णे इमं मन्त्रं मनुसप्तदशाक्षरम् । सर्व सम्पत्प्रदो नित्यं सर्वविश्वकरी तथा ॥५॥
भुवनेश्वरीति विख्याता सर्वाऽभीष्टं प्रयच्छति । हृल्लेखेयमिति ज्ञेयमोङ्काराक्षररूपिणी ॥६॥
कान्ति-पुष्टि-धना-ऽऽरोग्य यशांसि लभते श्रियम् । अस्मिन् मन्त्रे रतो नित्यं वशयेदखिलं जगत् ॥७॥
अङ्गन्यासः -- ॐ अस्य श्रीअन्नपूर्णामालामन्त्रस्य ब्रह्मा ऋषये नमः शिरसि । ॐ अन्नपूर्णादेवतायै नमः हृदये । ॐ ह्रीं बीजाय नमः नाभौ । ॐ स्वाहा शक्तये नमः पादयोः । ॐ धर्मा-ऽर्थ-काम-मोक्षेषु विनियोगाय नमः सर्वाङ्गे । करन्यासः -- ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रँ मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रीं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः । हृदयादिन्यासः -ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ इह शिखायै वषट् । ॐ ह्रैं कवचाय हुम् । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् । ध्यानम् - रक्तां विचित्रवसनां नवचन्द्रचूडां अन्नप्रदान-निरतां स्तनभारनम्राम् । नृत्यन्तमिन्दु सकलाभरणं विलोक्य हृष्टां भजे भगवतीं भव-दुःख-हन्त्रीम् । मालामत्रः -ॐ ऐं ह्रीं श्रीं क्लीं नमो भगवति माहेश्वरि अन्नपूर्णे ! ममाऽभिलषितमन्नं देहि स्वाहा । ॐ ऐं ह्रीं श्रीं क्लीं मन्दार-कल्प-हरिचन्दन-पारिजात-मध्ये शशाङ्क-मणिमण्डित-वेदिसंस्थे । अर्धेन्दु-मौलि-सुललाट-षडर्धनेत्रे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥१॥
ॐ ऐं ह्रीं श्रीं क्लीं केयूर-हार-कनकाङ्गदकर्णपूरे काञ्चीकलाप- मणिकान्ति-लसद्दुकूले । दुग्धा-ऽन्नपात्र-वर-काञ्चन-दर्विहस्ते भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यम्  ॐ क्लीं श्री ह्रीं ऐं ॐ ॥२॥
ॐ ऐं ह्रीं श्रीं क्लीं आली कदम्बपरिसेवित-पार्श्वभागे शक्रादिभिर्मुकुलिताञ्जलिभिः पुरस्तात् । देवि! त्वदीयचरणौ शरणं प्रपद्ये भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं ॐ क्लीं श्रीं ह्रीं ऐं ॐ ॥३॥
ॐ ऐं ह्रीं श्रीं क्लीं गन्धर्व-देवऋषि-नारद-कौशिकाऽत्रि-व्यासा- ऽम्वरीष-कलशोद्भव-कश्यपाद्याः । भक्त्या स्तुवन्ति निगमा-ऽऽगम-सूक्त- मन्त्रैर्भिक्षा प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं ॐ श्रीं ह्रीं ऐं ॐ ॥४॥
ॐ ऐं ह्रीं श्रीं क्लीं लीलावचांसि तव देवि! ऋगादिवेदाः सृष्ट्यादिकर्मरचना भवदीयचेष्टा । त्वत्तेजसा जगदिदं प्रतिभाति नित्यं भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥५॥
ॐ ऐं ह्रीं श्रीं क्लीं शब्दात्मिके शशिकलाभरणार्धदेहे शम्भो- रुरस्थल-निकेतननित्यवासे । दारिद्र्य-दुःखभयहारिणि का त्वदन्या भिक्षां प्रदेहि गिरिजे ! क्षुधिताय मह्यं क्लीं श्रीं ऐं ॐ ॥६॥
ॐ ऐं ह्रीं श्रीं क्लीं सन्ध्यात्रये सकलभूसुरसेव्यमाने स्वाहा स्वधासि पितृदेवगणार्तिहन्त्री । जाया सुताः परिजनातिथयोऽन्नकामाः भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥७॥
ॐ ऐं ह्रीं श्रीं क्लीं सद्भक्तकल्पलतिके भुवनं कवन्द्ये भूतेश- हृत्कमलमग्न-कुचाग्रभृङ्गे ।  कारुण्यपूर्णनयने किमुपेक्षसे मां भिक्षां प्रदेहि गिरजे क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥८॥
ॐ ऐं ह्रीं श्रीं क्लीं अम्ब! त्वदीय-चरणाम्बुज-संश्रयेण ब्रह्मादयो- ऽप्यविकलां श्रियमाश्रयन्ते । तस्मादहं तव नतोऽस्मि पदारविन्दे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥९॥
ॐ ऐं ह्रीं श्रीं क्लीं एकाग्रमूलनिलयस्य महेश्वरस्य प्राणेश्वरि! प्रणत-भक्तजनाय शीघ्रम् । कामाक्षि-रक्षित-जगत्-त्रितयेऽन्नपूर्णे भिक्षां प्रदेहि गिरिजे! क्षुधिताय मह्यं क्लीं श्रीं ह्रीं ऐं ॐ ॥१०॥
ॐ ऐं ह्रीं श्रीं क्लीं भक्त्या पठन्ति गिरिजादशकं प्रभाते मोक्षार्थिनो बहुजनाः प्रथितान्नकामाः । प्रीता महेशवनिता हिमशैल- कन्या तेषां ददाति सुतरां मनसेप्सितानि क्लीं श्रीं ह्रीं ऐं ॐ ॥११॥
इति श्रीशङ्कराचार्यविरचितमन्नपूर्णाकवचं समाप्तम् ।

N/A

References : N/A
Last Updated : November 17, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP