संस्कृत सूची|संस्कृत साहित्य|कवच| श्री जगन्मङ्गलकवचम् अथवा ... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... कालीकवचम् - श्री जगन्मङ्गलकवचम् अथवा ... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र कालीकवचम् Translation - भाषांतर श्री जगन्मङ्गलकवचम् अथवा श्यामाकवचम् भैरव्युवाच - कालीपूजा श्रुता नाथ भावाश्च विविधाः प्रभो ॥ इदानीं श्रोतुमिच्छामि कवचं पूर्वसूचितम् ॥१॥ त्वमेव स्रष्टा पाता च संहर्ता च त्वमेव हि । त्वमेव शरणन्नाथ त्राहिमां दुःखसङ्कटात् ॥२॥ भैरव उवाच रहस्यं शृणु वक्ष्यामि भैरवि प्राणवल्लभे । श्रीजगन्मङ्गलन्नाम कवचं मन्त्रविग्रहम् ॥३॥ पठित्वा धारयित्वा च त्रैलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥४॥ योगिनङ्क्षोभमनयद्यद्धृत्वा च रघूत्तमः । वरतृप्तो जघानैव रावणादिनिशाचरान् ॥५॥ यस्य प्रसादादीशोऽहं त्रैलोक्यविजयी विभुः । धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ॥६॥ एवं हि सकला देवास्सर्वसिद्धीश्वराः प्रिये । श्रीजगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ॥७॥ छन्दोऽनुष्टुप्देवता च कालिका दक्षिणेरिता । जगतां मोहने दुष्टविजये भुक्तिमुक्तिषु ॥८॥ योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः । शिरो मे कालिका पातु क्रीङ्कारैकाक्षरी परा ॥९॥ क्रीङ्क्रीङ्क्रीं मे ललाटञ्च कालिका खड्गधारिणी । हूं हूं पातु नेत्रयुगं ह्रीं ह्रीं पातु श्रुती मम ॥१०॥ दक्षिणे कालिका पातु घ्राणयुग्मं महेश्वरी । क्रीङ्क्रीङ्क्रीं रसनाम्पातु हूं हूं पातु कपोलकम् ॥११॥ वदनं सकलम्पातु ह्रीँ ह्रीँ स्वाहास्वरूपिणी । द्वाविंशत्यक्षरी स्कन्धौ महाविद्या सुखप्रदा ॥१२॥ खड्गमुण्डधरा काली सर्वाङ्गमभितोऽवतु । क्रींह्रूँह्रीँ त्र्यक्षरी पातु चामुण्डा हृदयं मम ॥१३॥ ऐंहूँओंऐं स्तनद्वन्द्वं ह्रीम्फट्स्वाहा ककुत्स्थलम् । अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ॥१४॥ क्रीङ्क्रींहूंहूंह्रींह्रीङ्कारी पातु षडक्षरी मम । क्रीं नाभिं मध्यदेशञ्च दक्षिणे कालिकाऽवतु ॥१५॥ क्रींस्वाहा पातु पृष्ठञ्च कालिका सा दशाक्षरी । क्रीं मे गुह्यं सदा पातु कालिकायै नमस्ततः ॥१६॥ सप्ताक्षरी महाविद्या सर्वतन्त्रेषु गोपिता । ह्रींह्रीं दक्षिणे कालिके हूंहूं पातु कटिद्वयम् ॥१७॥ काली दशाक्षरी विद्या स्वाहा मामूरुयुग्मकम् । ॐ क्रीङ्क्रीं मे स्वाहा पातु कालिका जानुनी सदा ॥१८॥ कालीहृन्नामविद्येयञ्चतुर्वर्गफलप्रदा । क्रींह्रींह्रीं पातु सा गुल्फन्दक्षिणे कालिकाऽवतु ॥१९॥ क्रींह्रूंह्रीं स्वाहा पदम्पातु चतुर्द्दशाक्षरी मम । खड्गमुण्डधरा काली वरदाभयधारिणी ॥२०॥ विद्याभिस्सकलाभिः सा सर्वाङ्गमभितोऽवतु । काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी ॥२१॥ विप्रचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषा । नीला घना वलाका च मात्रा मुद्रा मिता च माम् ॥२२॥ एतास्सर्वाः खड्गधरा मुण्डमालाविभूषणाः । रक्षन्तु दिग्विदिक्षु मां ब्राह्मी नारायणी तथा ॥२३॥ माहेश्वरी च चामुण्डा कौमारी चापराजिता । वाराही नारसिम्ही च सर्वाश्चामितभूषणाः ॥२४॥ रक्षन्तु स्वायुधैर्दिक्षु विदिक्षु मां यथा तथा । इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥२५॥ श्रीजगन्मङ्गलन्नाम महाविद्यौघविग्रहम् । त्रैलोक्याकर्षणं ब्रह्मन्कवचं मन्मुखोदितम् ॥२६॥ गुरुपूजाँ विधायाथ विधिवत्प्रपठेत्ततः । कवचन्त्रिस्सकृद्वापि यावज्जीवञ्च वा पुनः ॥२७॥ एतच्छतार्द्धमावृत्य त्रैलोक्यविजयी भवेत् । त्रैलोक्यङ्क्षोभयत्येव कवचस्य प्रसादतः ॥२८॥ महाकविर्भवेन्मासं सर्वसिद्धीश्वरो भवेत् । पुष्पाञ्जलीन्कालिकायै मूलेनैवार्पयेत् सकृत् ॥२९॥ शतवर्षसहस्राणां पूजायाः फलमाप्नुयात् । भूर्जे विलिखितञ्चैतत् स्वर्णस्थन्धारयेद्यदि ॥३०॥ विशाखायां दक्षबाहौ कण्ठे वा धारयेद्यदि । त्रैलोक्यं मोहयेत् क्रोधात्त्रैलोक्यञ्चूर्णयेत्क्षणात् ॥३१॥ पुत्रवान्धनवाञ्श्रीमान्नानाविद्यानिधिर्भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः ॥३२॥ नाशमायाति या नारी वन्ध्या वा मृतपुत्रिनी । बह्वपत्या जीवतोका भवत्येव न संशयः ॥३३॥ न देयम्परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः । शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥३४॥ स्पर्द्धामुद्धूय कमला वाग्देवी मन्दिरे सुखे । पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥३५॥ इदं कवचमज्ञात्वा यो भजेद्(कालि)घोरदक्षिणाम् ॥ शतलक्षम्प्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ सहस्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥३६॥ इति कालीकवचं अथवा जगन्मङ्गलकवचम् अथवा श्यामाकवचं सम्पूर्णम् । N/A References : N/A Last Updated : November 18, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP