संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीलक्ष्मण उवाच । कृताञ...
त्रैलोक्यमोहनश्रीसीताकवचम् - श्रीलक्ष्मण उवाच । कृताञ...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीलक्ष्मण उवाच । कृताञ्जलिपुटो भूत्वा नत्वा शिरसि लक्ष्मणः । उवाच परमं दिव्यं सीतायाः कवचं परम् ॥१॥
त्वत्तः श्रोतुमिच्छामि त्रैलोक्यमोहनं महत् । कथयस्व रघुश्रेष्ठ दिव्यं कवचमुत्तमम् ॥२॥
श्रीराम उवाच । शृणु वत्स महादिव्यं महामङ्गलदायकम् । महासिद्धिकरं पुंसां महासम्पत्तिदायकम् ॥३॥
त्रैलोक्यमोहनं नाम कवचं परमाद्भुतम् । यः पठेत्सततं भक्त्त्या अपुत्रः पुत्रवान् भवेत् ॥४॥
अष्टाक्षरं महामन्त्रं पठेत् कवचसंयुतम् । ततः सिद्धिमवाप्नोति अकीलमतुलं वरम् ॥५॥
ॐ अस्य श्रीसीतात्रैलोक्यमोहनकवचमन्त्रस्य श्रीरामऋषिरनुष्टुप् छन्दः श्रीसीतादेवता श्रीसीताप्रीत्यर्थे जपे (पाठे) विनियोगः ॥
ध्यानम् - नीलाम्भोजदलाभिरामनयनां नीलाम्बरालङ्कृतां गौराङ्गीं शरदिन्दुसुन्दरमुखीं विस्मेरबिम्बाधराम् । कारुण्यामृतवर्षिणीं हरिहरब्रह्मादिभिर्वन्दितां ध्यायेद्भक्तजनेप्सितार्थफलदां रामप्रियां जानकीम् ॥
ॐ शिरो मे भूभवा पातु ललाटे जनकात्मजा । नेत्रे पातु कुजा चैव वैदेही श्रुतिरक्षिणी ॥१॥
जिह्वां मे जानकी पातु ग्रीवां जनकनन्दिनी । स्कन्धौ पातु महामाया भुजौ पातु सुलोचना ॥२॥
करौ पातु सदा सीता हृदयं रामपार्श्वगा । मध्यं पातु च पद्माक्षी नाभिं मे वनवासिनी ॥३॥
कटिं योगेश्वरी पातु सक्थिनीं मृगध्वंसिनी । उरू मे पातु वैदेही जानुनी भिल्लमोक्षिणी ॥४॥
जङ्घे बालिप्रमाथिनी चतुष्पदी दैत्यनाशिनी । सर्वाङ्गं पातु स्वच्छाङ्गी सदा पातु प्रबोधिनी ॥५॥
विभीषणश्रीदा पातु सद्यश्चैव दिशो दश । सीतायाः कवचं ह्येतद्देवानामपि दुर्लभम् ॥६॥
त्रैलोक्यमोहनं नाम त्रैलोक्यधनदायकम् । मुच्यते सर्वपापेभ्यो निर्वाणमधिगच्छति ॥७॥
अश्वमेधायुतफलं पठनाल्लभते नरः । नित्यं पठति भक्त्या यः तस्य सीता प्रसीदति ॥८॥
राज्यलाभो भवेत्तस्य मम भक्तिश्च पुष्कला । यः पठेत्तु ममाग्रे वै पूजाकाले प्रयत्नतः । सौमित्रे च शृणुष्व त्वं ददामि वाञ्छितं फलम् ॥९॥
अष्टाक्षर मन्त्रः । ॥ ॐ ह्रीं श्रीं सीतायै नमः ॥
अयुतं जपेन्मन्त्रं सर्वसिद्धि प्रदायकम् । वटवृक्षतटे पाठे अष्टादशशतेन च ॥१०॥
षट्विप्रकृते जाप्यम् ॥१८०० ॥त्रिशतेन पृथक् पृथक् ॥
एवं नित्यं कृते चैव वर्षपर्यन्त मानवः । क्षीराज्यशर्करा हव्यं गोधूम हृदयं पचेत् ॥११॥
भोज्यमाहार एकश्चभूमिशायी जितेन्द्रियः । ब्राह्मणे दक्षिणांदत्वा नानालंकारवस्त्रदः ॥१२॥
स्वधर्मनिरतः प्राणी अहिंसा सत्यवाक् पटुः । एकचित्तो भवेत्तस्य कवचं स्फूर्तिसंयुतः ॥१३॥
अपुत्रो लभते पुत्रं सत्यं श्रीरामभाषितम् । अयुतमेक पाठे च पुरश्चर्यं प्रसूतिकम् ॥१४॥
साक्षात्कल्पतरुः सीता ध्यायते यदि लक्ष्मण । वाञ्छितं वरदासद्यः सत्यं सत्यं वदाम्यहम् ॥१५॥
इति श्रीरुद्रयामल तन्त्रे श्रीरामलक्ष्मणसम्वादे श्रीरामविरचितं त्रैलोक्यमोहनश्रीसीताकवचं सम्पूर्णम् ॥
श्रीसीतात्रैलोक्यमोहनकवचं
N/A
References : N/A
Last Updated : November 25, 2025

TOP