संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीदेव्युवाच । देवदेव म...

श्रीमहाकालभैरवकवचम् - श्रीदेव्युवाच । देवदेव म...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीदेव्युवाच । देवदेव महाबाहो भक्तानां सुखवर्धन । केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥१॥
तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये । कृपां कुरु जगन्नाथ वद वेदविदां वर ॥२॥
श्रीभैरव उवाच । गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् । एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥३॥
महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् । देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥४॥
कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने । सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥५॥
सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् । साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥६॥
कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा  विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता । कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥७॥
ॐ श्मशानस्थो महारुद्रो महाकालो दिगम्बरः । कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥८॥
भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः । ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥९॥
विपरीतरतां तत्र कालिकां हृदयोपरि । पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् । एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥१०॥
प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् । नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥११॥
अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः । सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥१२॥
कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् । लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥१३॥
मन्त्रग्रहणमात्रेण भवेत सत्यं महाकविः । गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥१४॥
तस्य नाम तु देवेशि देवा गायन्ति भावुकाः । शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥१५॥
महाकालपदं दत्वा मायाबीजयुगं तथा । कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥१६॥
राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा । वेदादिबीजमादाय भगमान् तदनन्तरम् ॥१७॥
महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् । ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥१८॥
महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् । धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥१९॥
पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः । सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥२०॥
इति ते कथितं तुभ्यं देवानामपि दुर्लभम् । अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥२१॥
सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः । सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥२२॥
महाभीमः सदा पातु सर्वस्थान वल्लभम् । ? कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥२३॥
॥ फल श्रुति॥
पठनात् कालिकादेवी पठेत् कवचमुत्तमम् । श्रुणुयाद् वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥१॥
श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥२॥
बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् । त्रिसन्ध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥३॥
कुमारीं पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥४॥
दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥५॥
तत्र तत्राभयं तस्य भवत्येव न संशयः । वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥६॥
श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु । प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥७॥
इदं कवचमज्ञात्वा कालं यो भजते नरः । नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे । आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥८॥
॥ इति रुद्रयामले महातन्त्रे महाकालभैरवकवचं सम्पूर्णम्॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP