संस्कृत सूची|संस्कृत साहित्य|कवच|
श्रीगणेशाय नमः ॥ पार्...

श्रीराधागोपालकवचम् - श्रीगणेशाय नमः ॥ पार्...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

श्रीगणेशाय नमः ॥
पार्वत्युवाच । कैलासशिखरे रम्ये गौरी पृच्छति शङ्करम् । ब्रह्माण्डाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥१॥
त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः । नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥२॥
आश्चर्यमिदमत्यन्तं जायते मम शङ्कर । तत्प्राणेश महाप्राज्ञ संशयं छिन्धि शङ्कर ॥३॥
श्रीमहादेव उवाच । धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे । रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥४॥
स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि । गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥५॥
दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् । इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥६॥
धनरत्नौघमाणिक्यतुरङ्गमगजादिकम् । ददाति स्मरणादेव महामोक्षप्रदायकम् ॥७॥
तत्तेऽहं सम्प्रवक्ष्यामि श‍ृणुष्वावहिता प्रिये । योऽसौ निरञ्जनो देवश्चित्स्वरूपी जनार्दनः ॥८॥
संसारसागरोत्तारकारणाय सदा नृणाम् । श्रीरङ्गादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥९॥
ततो लोका महामूढा विष्णुभक्तिविवर्जिताः । निश्चयं नाधिगच्छन्ति पुनर्नारायणो हरिः ॥१०॥
निरञ्जनो निराकारो भक्तानां प्रीतिकामदः । वृन्दावनविहाराय गोपालरूपमुद्वहन् ॥११॥
मुरलीवादनाधारी राधायै प्रीतिमावहन् । अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥१२॥
श्रीकृष्णचद्रो भगवान् नन्दगोपवरोद्यतः । धरणीरूपिणी माता यशोदानन्ददायिनी ॥१३॥
द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः । ब्रह्मणाभ्यर्थितो देवो देवैरपि सुरेश्वरि ॥१४॥
जातोऽवन्यां मुकुन्दोऽपि मुरलीवेदरेचिका । तया सार्धं वचः कृत्वा ततो जातो महीतले ॥१५॥
संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् । एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥१६॥
गौरतेजो विना यस्तु श्यामतेजः समर्चयेत् । जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥१७॥
स ब्रह्महा सुरापी च स्वर्णस्तेयी च पञ्चमः । एतैर्दोषैर्विलिप्येत तेजोभेदान्महेश्वरि ॥१८॥
यस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् । तस्मादिदं महादेवि गोपालेनैवं शायितम् ॥१९॥
दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले । ततः पृष्टवती राधा सन्देहं भेदमात्मनः ॥२०॥
निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि । श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥२१॥
ततो नारदतः सर्वं विरला वैष्णवास्तथा । कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥२२॥
शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि । ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥२३॥
इति श्रीराधागोपालकवचं सम्पूर्णम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP