संस्कृत सूची|संस्कृत साहित्य|कवच|
॥श्री गणेशाय नमः ॥ श‍...

रेणुकाकवचं - ॥श्री गणेशाय नमः ॥ श‍...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

॥श्री गणेशाय नमः ॥
श‍ृणु देवि प्रवक्ष्यामि रेणुकाकवचं परम् । येन विज्ञानमात्रेण सान्निध्यं रेणुका भवेत् ॥
रेणुकाकवचस्यास्य भार्गवस्तु ऋषिः स्मृतः । छन्दोऽनुष्टुप् तथा देवी रेणुका देवता मम ॥
इष्ट-काम्यार्थ-सिद्ध्यर्थे विनियोगो वरानने । रेणुका मे शिरः पातु परा शक्तिस्वरूपिणी ॥
भालं रक्षतु भुवनेशी लोचनं मे त्रिलोचनी । मुखं मे रेणुका पातु नासिकां कालनाशिनी ॥
भ्रुवौ सुभ्रूलता पातु दन्तान्मे कुन्ददन्तिका । ओष्ठं बिम्बोष्ठिका पातु जिंह्वां पातु सुरेश्वरी ॥
ग्रीवां रक्षतु इन्द्राणी कुक्षौ रक्षेत्कुलेश्वरी । गण्डं मे पातु चामुण्डा महालक्ष्मीस्तु कन्धरम् ॥
असौ हंसप्रिया पातु बाहू सायुधवाहुका । वाणीं वक्षस्थलं पातु हृदयं हृदयेश्वरी ॥
जघने घनवाहा मे गुह्यं गुह्येश्वरी मम । ऊरू वरोरुका पातु श्रीदेवी सिद्धिदेवता ॥
सर्वाङ्गं सर्वदा पातु सर्वाणी रूपिणी वरा । इति श्रीरेणुका वर्म दुष्कर्म त्रासनं सदा ॥
स्तुतिमात्रेण  भक्तानां संरक्षणविचक्षणम् । जप्त्वा तु कवचं देव्याः यत्र तत्र तु गच्छति ॥
तत्र तत्र जयो लाभः कार्यसिद्धिश्च जायते ।
॥ इति श्री डामरेश्वरतन्त्रे रेणुकाकवचं नाम षष्ठितमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP