संस्कृत सूची|संस्कृत साहित्य|कवच| ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... कवच ॥ श्री उन्मत्त-भैरव उवाच ... देवी कवच विनियोग – ॐ अस्य... ॥ श्रीदेव्युवाच ॥ साधु-सा... त्रैलोक्य-विजय श्रीनृसिंह... ॥ श्रीनारद उवाच ॥ इन्द्रा... नारायण उवाच सर्व सम्पत्प... । ब्रह्मोवाच ॥ राधाकान्त ... श्री नारायण कवच न्यासः- स... ॥राजोवाच॥ यया गुप्तः सहस्... कवचं श्रोतुमिच्छामि तां च... ॥ श्रीरामदास उवाच ॥ एकदा ... ॥ ईश्वर उवाच॥ अथ ध्यानं प... (अथर्णव-रहस्योक्त) विनियो... कैलासाचलमधऽयगं पुरवहं शान... अस्य श्रीहनुमत्कवच स्तोत्... लोपामुद्रा उवाच । कुम्भोद... ॐ श्री पञ्चवदनायाञ्जनेयाय... श्री रामचन्द्र ऋषिः । श्र... शृणु देवि प्रवक्ष्यामि कव... पूर्वे नारायणः पातु वरिजा... ध्यानम् शान्ताकारं भुजगशय... महालक्ष्याः प्रवक्ष्यामि ... याज्ञवल्क्य उवाच शृणुष्व ... ध्यायेत् सिंहगतं विनायकमम... पार्वत्युवाच कैलासवासिन्!... वज्रदंष्ट्रं त्रिनयनं काल... श्रीसूर्यध्यानम् रक्तांबु... नृसिंहकवचं वक्ष्ये प्रह्ल... महालक्ष्याः प्रवक्ष्यामि ... ॥ अथ श्रीमदानन्दरामायणांत... अस्य श्री स्वामी कवच स्तो... ॐ श्रीगणेशाय नमः । अथ अघ... शिरो मे अनघा पातु भालं मे... आनन्दभैरवी उवाच कवचं शण... द्वात्रिंशद्वर्णमन्त्रोऽय... ॐ अस्य श्रीमदादित्यकवचस्त... श्रीदेव्युवाच - देव देव ... ॐ श्रीगणेशाय नमः । देव्य... अथ श्रीउच्छिष्टगणेशकवचं प... एवं तान्त्रिक-शिव-सञ्जीवन... श्रीगणेशाय नमः । लोपामुद... ॐ श्रीसमस्तजगन्मङ्गलात्मन... त्रैलोक्यमोहनकवचम् । एका... श्रीगणेशाय नमः । ॐ अस्या... अथ षष्ठसप्ततितमः पटलः श्... कामाख्या ध्यानम् रविशशिय... ॐ श्रीकामाख्याकवचस्यर्षिर... ॐ श्रीगुरवे शिवायों नमः ।... नारद उवाच । साधु साधु मह... ॥ श्रीगणेशाय नमः ॥ उड... श्मशानकालिकाकवचम् च श्री... अथवा श्रीत्रैलोक्य विजय क... श्री जगन्मङ्गलकवचम् अथवा ... ॐ श्रीगणेशाय नमः । श्रीद... अथ वैरिनाशनं कालीकवचम् । ... भैरव् उवाच - कालिका या म... आनन्दभैरव उवाच -- अथा... ॥ श्रीगणेशाय नमः ॥ ॥ ... नारद उवाच । भगवञ्छ... अथैकोनचत्त्वारिंशः पटलः ... ॐ अस्य श्रीकेतुकवचस्तोत्र... श्रीगणेशाय नमः । श्रीरवल... नारद उवाच - ब्रह्मन् ! क... विप्र उवाच- कवचं ते प्रव... ॥ श्रीगणेशाय नमः ॥ ऋष... ॐ श्रीगणेशाय नमः । ॐ गङ्... ॥ श्रीगणेशाय नमः ॥ श्... पार्वतेयं महाकायं ऋद्धिसि... मुनिरुवाच । ध्यायेत् सिं... गौर्युवाच । एषोऽतिचपलो द... (नारायणप्रोक्तं गणेशाष्टक... हरिः ॐ । अस्य श्रीगरुडकव... श्रीगणेशाय नमः । याज्ञवल... विनियोगः - ॐ अस्य श्रीगा... श्रीगणेशाय नमः ॥ श्री... ॐ अस्य श्रीगायत्रीकवचस्य,... ॥ अथ पुरश्चरणरसोल्लासे ईश... देव्युवाच ॥ भूतनाथ ! महा... श्रीगणेशाय नमः ॥ श्री... श्री गणेशाय नमः । श्रीना... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । देव्युव... विन्यस्य व्यापकं सर्वैर्न... श्रीसनत्कुमार उवाच । ब्र... श्रीगणेशाय नमः । ईश्वर उ... ॐ प्रत्यङ्गिरायै नमः । ई... श्रीगणेशाय नमः । श्रीसरस्... श्रीगणेशाय नमः । अस्य श्... कवचं तव वक्ष्यामि भवसङ्क्... कवचं त्रिपुरायास्तु शृणु... श्री गणेशाय नमः । नमस... श्रीगणेशाय नमः । श्रीदेव... विनियोगः - ॐ अस्य त्रैलो... श्रीलक्ष्मण उवाच । कृताञ... सगर उवाच । श्रुतं सर्वं ... श्रीगणेशाय नमः । श्रीदत्... श्रीपादः पातु मे पादावूरू... श्रीगणेशाय नमः । श्रीदत्... ॐ द्रां ॐ नमः, श्रीगुरुद... विनियोगः - ॐ अस्य श्रीमह... भैरव उवाच । कालिकाकवचस्य... विरूपाक्ष उवाच । नमामि ग... भैरव उवाच । कालिका या मह... श्रीपरमशिव उवाच । सर्पिः... श्रीभैरव उवाच । शणु देव... नारायण उवाच । शणु नारद ... श्रीगणेशाय नमः । ईश्वर उ... श्रीगणेशाय नमः । नारद उव... श्रीदेव्युवाच - पुरा श्र... श्री शिव उवाच - शणु देव... भगवन् देव देवेशकृपया त्वं... श्रीगणेशाय नमः । श्रीदुर्... ॐ अस्य श्री चण्डीकवचस्य ॥... देव्युवाच धनदा या महाविद... श्रीगणेशाय नमः । अथ धूमा... श्री गणेशाय नमः । श्रीमद... ब्रह्मोवाच । शिरो ... विनियोगः नागराजस्य देवस्... ॐ श्रीगणेशाय नमः । ॐ नमो... ॐ श्रीगणेशाय नमः । ॐ नमो... तन्त्रराजतन्त्रे अष्टाविं... निम्बार्क-कवचं वक्ष्ये मह... श्रीगणेशाय नमः । अथापरं ... नारद उवाच । इन्द्रादिदेव... ॥ श्रीगणेशाय नमः ॥ ॥ ... अस्य श्रीपञ्चमुखिवीरहनूमत... अस्य श्रीपञ्चमुखिहनुमत्कव... भगवन् ! सर्वमाख्यातं मन्त... श्रीगणेशाय नमः । श्रीभैर... अथ पञ्चाशीतितमः पटलः । श... ॥ श्रीमहा-त्रिपुर-सुन्दर्... ऋषय ऊचुः । अथ नाम्नां सह... देव्युवाच । भगवन् सर्वधर... सूत उवाच - सहस्रादित्यसङ... ॥ अथ बगलामुखीकवचम् ॥ ... कैलासाचलम्ध्यगम्पुरवहं शा... श्री गणेशाय नमः । श्री बग... श्रीगणेशाय नमः । अस्यश्र... श्रीगणेशाय नमः । श्रीपीता... उक्तं च भैरवतन्त्रे । मह... अस्य श्री बटुकभैरवकवचस्य ... देव्युवाच । देवदेव जगन्न... अस्य श्रीबटुकभैरवकवचस्य ... ॥ श्रीगणेशाय नमः ॥ ॥ ... अथ विनियोगः - अस्य श्रीब... दुर्योधन उवाच - गोपीभ्यः... अस्य बाणलिङ्ग कवचस्य संहा... शिवस्य कवचं स्तोत्रं श्रू... नन्दगोप उवाच । रक्षतु त्... वाग्भवः पातु शिरसि कामराज... श्रीपार्वत्युवाच- देवदेव... अस्य श्रीबालात्रिपुरसुन्द... बालार्कमण्डलाभासां चतुर्ब... श्रीभैरव उवाच- अधुना ते ... ॐ अस्य श्रीबालात्रिपुरसुन... श्रीगणेशाय नमः । अस्य श्... श्रीगणेशाय नमः । अस्य श्... ॐ श्रीब्रह्मणे नमः । कवच... श्री गणेशाय नमः । श्री बग... ॐ नमो भगवति वज्रशृङ्खले ... श्रीगणेशाय नमः । नारद... ॐ श्रीदेव्युवाच । ॐ भगवन... अगस्तिरुवाच- अतः परं भरत... श्रीगणेशाय नमः । श्री पा... गम्भीरो माहात्म्यात्प्रशम... श्रीगणेशाय नमः । देव्युव... श्रीदेव्युवाच- भगवन्, पर... पार्वत्युवाच - देव देव म... श्रीगणेशाय नमः । श्रीदेव... श्रीपार्वत्युवाच - देवदे... श्रीगणेशाय नमः । अस्य श्... मल्हारिकवचम् श्रीगणेशाय ... ॐ श्रीगणेशाय नमः । श्रीभ... श्रीगणेशाय नमः । श्रीभैर... श्रीदेव्युवाच । देवदेव म... श्रीगणाधिपतये नमः । श्री... ॐ अस्य श्रीमहागणपतिमन्त्र... ॥ पूर्वपीठिका ॥ महादे... श्री गणेशाय नमः । भैरव उ... श्रीदेव्युवाच - भगवन् सर... श्री गणेशाय नमः । अस्य श... नारद उवाच । आविर्भूय हरि... सदाशिव ऋषिर्देवि उष्णिक्छ... शणुदेवि प्रवक्ष्यामि कवच... श्रीभगवानुवाच- अस्य मन्त... श्रीगणेशाय नमः । अथ महाश... श्रीदेव्युवाच- भगवन् देव... अथ वक्ष्ये महेशानि कवचं स... भैरव उवाच । शृणु देवि !... श्रीदेव्युवाच साधु साधु ... अस्य श्रीमातङ्गीकवचमन्त्र... श्रीगणेशाय नमः । श्रीपार... ॐ नमो भगवते विचित्रवीरहनु... ॐ नमोभगवते रुद्राय । राज... श्रीदेव्युवाच - भगवन् सर... ॐ सिद्धिः । ॐ नमो नरसिंह... एवमाराध्य गौरीशं देवं मृत... श्रीदेव्युवाच - भगवन् दे... ईश्वर उवाच - त्रिकालं गो... श्रीगणेशाय नमः ॥ भगवन... मान्धातोवाच - यमुनायाः क... योगनिद्रोवाच । दूरीभूतं ... उन्मत्तभैरव उवाच - शृणु... श्रीगणेशाय नमः । श्रीयोग... देव्युवाच - भगवन् श्रोतु... कवचं राघवेन्द्रस्य यतीन्द... अथ श्रीराघवेन्द्रार्यकवचं... अथ श्रीराघवेन्द्रार्यरक्ष... पार्वती उवाच- देवदेव महा... श्रीपार्वत्युवाच ॥ ॐ ... महेश्वर उवाच । श्रीजगन्म... श्रीगणेशाय नमः ॥ पार्... ॥ श्रीमदानन्दरामायणे मनोह... अस्य श्रीत्रैलोक्यमोहनवज्... कपिकटकधुरीणः कार्मुकन्यस्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॐ अस्य श्रीरामदुर्गस्तोत्... ॥ॐ श्रीगणेशाय नमः ॥ अ... इदं पवित्रं परमं भक्तानां... श्रीगणेशाय नमः ॥ ॐ अस... ॐ श्रीभैरव उवाच - शृणु ... भैरव उवाच - वक्ष्यामि दे... ॥अथ श्री रुद्रकवचम् ॥ ... पूर्वपीठिका - श्रीकार्ति... श्रीपार्वत्युवाच । देवदे... श्री देव्युवाच । जमदग... ॥श्री गणेशाय नमः ॥ शृ... ॥श्री गणेशाय नमः ॥ श... सनत्कुमार उवाच- अथ ते कव... अथ ते कवचं देव्या वक्ष्ये... ॥ अथ श्रीमदानन्दरामायणे म... श्रीगणेशाय नमः । ॐ अस्य ... श्रीगणेशाय नमः । ॐ अस्य ... अथ श्रीलक्ष्मीकवचप्रारम्भ... शुकं प्रति ब्रह्मोवाच महा... श्रीगणेशाय नमः । श्रीभैर... अथ श्रीनरसिंहकवचम् । श्र... नारद उवाच - भगवन् सर्वधर... श्री गणेशाय नमः । मौलिं ... श्रीगणेशाय नमः । श्रीभैर... आद्यं रङ्गमिति प्रोक्तं व... अस्य श्री सर्व वशीकरण स्त... ॐ श्रीगणेशाय नमः । ॐ श्र... अस्य श्रीवाराहीकवचस्य त्र... श्री नृसिंहाय नमः । ॐ अस... सूत उवाच । शिरो मे विठ्ठ... श्रीगणेशाय नमः । देव्युव... श्रीमत्परात्पर विश्वकर्मप... शौनक उवाच । किं स्तोत्रं... श्रीगणेशाय नमः ॥ नारद... हरिश्चन्द्रः - ब्रह्मन् ... पूर्वे नारायणः पातु वारिज... ॐ अस्य श्री वीरभद्रकवचमहा... आग्नेयपुराणे अस्य श्रीवे... हरिरुवाच । सर्वव्याधिहरं... श्रीगणेशाय नमः । गुहागरस... ऐश्वरं परमं तत्त्वमादिमध्... ॥ श्रीमदानन्दरामायणे मनोह... श्रीदेव्युवाच - श्रुतं व... विनियोगः । ॐ अस्य श्रीशन... ॐ श्रीगणेशाय नमः । श्री ... शक्र उवाच - शाकम्भर्यास्... श्रीवल्लभसोदरी श्रितजनश्च... ॐ महाशाबरी शक्ति परमात्मन... श्रीगणेशाय नमः । देव्युव... ॐ श्रीगणेशाय नमः । अथ शा... विनियोगः । अस्य श्रीशिवक... दधीचिरुवाच कवचं देवदेवस्... नारद उवाच- शिवस्य कवचं ब... श्रीदेव्युवाच - भगवन्देव... पार्वत्युवाच - भगवन् सर्... श्रीगणेशाय नमः । ॐ अस... श्रीशिवः उवाच - अथ वक्ष्... प्रणम्य देवं विप्रेशं प्र... गोप्य ऊचुः - श्रीकृष्णस्... अथातः सम्प्रवक्षामि कवचं ... श्रीशाण्डिल्य उवाच । शान... ॐ श्रीगणेशाय नमः । श्रीग... श्रीविष्णुरुवाच । संसारम... ॥ अथ सङ्ग्रामविजयविद्या ॥... श्रीआनन्दभैरव उवाच शैलजे... श्रीदेव्युवाच- भगवन्देवद... श्रीआनन्दभैरव उवाच कथितं... श्रीगणेशाय नमः । ॐ अस्य ... श्रीसरस्वतीकवचं भैरव उवाच - शृणु देव... नारद उवाच - श्रुतं सर्वं... ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... ॥ गुरु ध्यानम् ॥ ध्या... ॥ श्रीमदानन्दरामायणान्तर्... प्रसीद भगवन् ब्रह्मन् सर्... ॐ अस्य श्री सुदर्शन कवच म... ॐ अस्य श्री सुदर्शनकवचमाल... श्रीकृष्णाय नमः ॥श्रीगोपी... श्रीगणेशाय नमः । श्रीलक्ष... ॥ॐ नमस्सुब्रह्मण्याय ॥ ... ॐ श्रीगणेशाय नमः । नारद ... अस्य श्री सुब्रह्मण्यकवचस... श्रीगणेशाय नमः ॥ श्रीसूर... वज्रपञ्जराख्यसूर्यकवचम् ।... घृणिर्मे शीर्षकं पातु सूर... ॐ अस्य श्रीसूर्यनारायणदिव... बृहस्पतिरुवाच । इन्द्र श... श्रीगणेशाय नमः । याज्ञवल... ॐ श्रीगणेशाय नमः । श्रीग... कैलासशिखरे रम्ये सुखासीनं... गणेश्वर उवाच । कनककुण... श्रीरामदास उवाच - एकदा स... सनत्कुमार उवाच । कार्तवी... अस्य श्रीहयग्रीवकवचमहामन्... ॥ अथ श्री हयग्रीवकवचम् ॥ ... श्रीगणेशाय नमः । ईश्वर उ... अथ चतुरशीतितमः पटलः श्री... सर्वेश्वरीविद्या - ॥ ॐ नम उमङ्गेश्वर्यै ॥ ... देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. Tags : kavachastotreकवचस्तोत्र सर्वेश्वरीविद्या Translation - भाषांतर ॥ ॐ नम उमङ्गेश्वर्यै ॥ अभिजिदुवाच । कैषा गुह्या महाविद्या यदुक्ता भवताधुना । सर्वेश्वरीति या प्रोक्ता सर्वकामार्थसिद्धिदा ॥ भवताराधिता शैले यया त्रैलोक्यपोषिणी । तां विद्यां ब्रूहि विप्रेन्द्र कृपास्ति यदि ते मयि ॥ निग्रह उवाच । मार्तण्डादिगणेशकालसहिता सम्पूजिता शम्भुना । सा देवी महिषान्धकान्तककरी सर्वेश्वरी पातु नः ॥ अथाहं सम्प्रवक्ष्यामि विद्यां सर्वेश्वरीं शुभाम् । अभक्तेभ्यो न दातव्या रक्षणीया प्रयत्नतः ॥ निग्रहेण मया प्रोक्ता निग्रहागमसम्मता । श्रीकालिकोपासकाय पुरा देवलशर्मणे ॥ विनियोगः - ॐ अस्य श्रीसर्वेश्वरीविद्यास्तोत्रमन्त्रस्य निग्रहऋषिरनुष्टुप्छन्दः, सदाशिवः फलसाक्षी, श्रीपरमेश्वरी देवता, ऐं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, महाविद्यास्वरूपं, नवदुर्गाध्यानं सर्वोचिताभीष्टसिद्धिहेतवे पुरुषार्थचतुष्टयसिद्ध्यर्थे पाठे विनियोगः ॥ अथ ध्यानम् । दुर्गा चाष्टभुजी त्रिलोकजननी रक्ताम्बरालङ्कृता तस्मिञ्छैलगुहान्तरे बुधजनै ह्याराधिता सर्वदा । चित्ताह्लादकरी सदासुखकरी साम्राज्यसन्दायिनी अर्धाङ्गी गिरिराजराजतनया रक्षन्तु भक्तान् सदा ॥ अथ सर्वेश्वरीविद्यास्तोत्रम् । ॐ नमश्चण्डिकायै । कालिका कालरूपा च यमदण्डविदारिणी । दक्षिणेशी त्रिनेत्रा च दिगम्बर्यै नमोऽस्तु ते ॥१॥ शङ्करार्द्धासनगता जागृतव्योमचारिणी । शूलखट्वाङ्गधारिण्यै कालिकायै नमोऽस्तु ते ॥२॥ दिग्वस्त्रा कृष्णवर्णा च ज्वलदग्निसमप्रभा । दैत्यहन्त्री शवारूढा मोक्षदायै नमोऽस्तु ते ॥३॥ श्मशानस्थाननिलया मुक्तकेशी स्मितानना । रोगापहारिणी देवि रक्तभोज्यै नमोऽस्तु ते ॥४॥ तनोति जगतः सारं पापौघान् परिशाम्यति । सा तारा भीमरूपा च सर्वाभीष्टप्रदा भवेत् ॥५॥ तारा त्रैलोक्यजननी नागमाला समाश्रिता । अद्भुता ज्ञानदात्री च सृष्टिस्थित्यन्तकारिणी ॥६॥ पाटलाब्जैरर्चिता सा नीला भीमा सरस्वती । विवस्त्रा दैत्यसंहन्त्री धनदा निर्गुणामला ॥७॥ शिवा शिवप्रिया चैव शम्भुधात्री महोज्ज्वला । त्रैलोक्यपालिनी देवी सा तारा परिपातु मे ॥८॥ षोडशी सौम्यवदना ब्रह्मविष्णुशिवानुता । हाटकैर्भूषणैर्दिव्यैः सर्वालङ्कारभूषिता ॥९॥ विशालनेत्रा सुकुचा दाडिमोपमदन्तुरा । षोडशाङ्गी कोमलाङ्गी मन्दहासा सदा शुभा ॥१०॥ कटिप्रदेशसूक्ष्माङ्गी वृत्तपीनपयोधरा । पद्महस्ता च कन्याभिः षोडशाभिः सदावृता ॥११॥ सर्वसम्पत्करी देवी षोडशी सुरसुन्दरी । आनन्दवर्द्धिनी भामा विश्वयोने नमोऽस्तु ते ॥१२॥ त्रिदेवजननी वन्द्या रक्तचन्दनचर्चिता । केयूराङ्गदभूषाङ्गी मीनाक्षी कोकिलस्वरा ॥१३॥ भुवनेशी जगन्माता त्रिदशैः सर्वदार्चिता । ईश्वरी भोगदा रम्या शिवपर्यङ्कशायिनी ॥१४॥ जपाकुसुमसम्पूज्या पद्मासनसमाश्रिता । चन्द्रसूर्याग्निनेत्रा च वरदा मोक्षदायिनी ॥१५॥ रक्तवस्त्रा महाविद्या महादेवी तु शाङ्करी । प्रयच्छतु ममाभीष्टान् सर्वदा भुवनेश्वरी ॥१६॥ रक्तपा सा करालास्या विरूपा विकटानना । भैरवी चण्डिका देवी चण्डमुण्डविनाशिनी ॥१७॥ योगिनीवृन्दघोरैश्च सदापूज्या जयप्रदा । मुण्डमालावृताङ्गी सा प्रसन्ना भैरवी भवेत् ॥१८॥ चितावह्निसमारूढा पापौघदुर्विदारिणी । कौशिकी वसुधा तीव्रा भैरवी चापराजिता ॥१९॥ सुरासुराराधिता च निजभक्तार्तिनाशिनी । भैरवी पञ्चमी विद्या सर्वतः परिपातु माम् ॥२०॥ छिन्नमस्ताद्भुता घोरा सुमेधर्षिसुपूजिता । स्वरक्तपा विशालाक्षी वस्त्रहीना महाभुजा ॥२१॥ त्यागवात्सल्यसम्पूर्णा शत्रुनाशार्थतत्परा । मनोजवप्रियारूढा कृष्णा भीमा जयामरा ॥२२॥ वेतालगणसाम्राज्ञी प्रज्ञावर्धनकारिणी । खट्वाङ्गमुण्डधारिण्यै विशीर्षायै नमो नमः ॥२३॥ कुण्डली कुण्डलेशानी जयादियोगिनीवृता । छिन्नशीर्षा सदा पातु महाभोगप्रदायिनी ॥२४॥ वृद्धा धूम्रा शूर्पहस्ता प्रचण्डभीमविक्रमा । विरूपा कुटिला तीक्ष्णा श्वेतकेशी भयङ्करी ॥२५॥ यस्या जपेन होमेन स्मरणेनैव चेदपि । नश्यन्ति शत्रवः सर्वे तथा दुरितनाशनम् ॥२६॥ गर्दभासनसंरूढा दरिद्रा भोगनाशिनी । ज्येष्ठालक्ष्मीस्तथा धूमावती आपन्निवारिणी ॥२७॥ विश्वरूपां रिपुध्वंसकारिणीं क्लेशहारिणीम् । सर्वभूतनियन्त्रीं तां धूमादेवीं नमाम्यहम् ॥२८॥ विष्णोः संहारिकाशक्तिर्बगलेति प्रचक्षते । शत्रुनाशाय वन्दे तामच्युतां बगलामुखीम् ॥२९॥ पीताम्बरा पीतवर्णा पीतपुष्पोपशोभिता । स्तम्भिनी द्राविणी चैव बगले त्वां नतोऽस्म्यहम् ॥३०॥ प्रेतासनोपसंविष्टा हरिद्राकेतकीप्रिया । सुधासमुद्रद्वीपस्था तत्र सन्त्रासयन् रिपून् ॥३१॥ षट्कर्मसिद्धिदां देवीं कोमलां भीमविक्रमाम् । स्वर्णवर्णां स्वयन्तेजां तां नमाम्यहमादरात् ॥३२॥ मातङ्गी नवमी विद्या मतङ्गमुनिपूजिता । गजारूढा मत्तचित्ता मधुपा चित्तमोहिनी ॥३३॥ मधूकपुष्पसम्पूज्या योगदा भोगदा जया । काकपक्षकिरीटाङ्गी रक्ताभरणलङ्कृता ॥३४॥ बुद्ध्यहङ्कारचित्तादीन्मोहयित्वा हसन्मुखी । सा निजेच्छानुसारेण भ्रामयत्येव मायया ॥३५॥ मनुराज्यप्रदा मन्दहासा मन्देहनाशिनी । मातङ्गी विश्वजननी प्रसन्ना स्यान्ममोपरि ॥३६॥ भार्गवी सिन्धुसम्भूता कमलासनसंस्थिता । शक्रादिभिः पूजिता च श्रीदेवी विष्णुवल्लभा ॥३७॥ उलूकासनसंरूढा यातुलैश्वर्यदायिनी । केशवार्द्धासनगता रक्तवस्त्रा शुचिस्मिता ॥३८॥ दशमी कमला विद्या सर्वार्थपरिपालिनी । सिन्धुजा अरुणा भद्रा पद्मपुष्पविलासिनी ॥३९॥ चन्द्रप्रभा कर्दमाम्बा स्वर्णवृष्टिकरी सदा । श्रीविद्या परमेशानी दारिद्र्यात्त्राहि वेगतः ॥४०॥ दाक्षायणीदेहसमाश्रितास्तथा दशाकृती रूपगुणैर्विभाजिताः । ताः सर्वविद्याः प्रणमाम्यहं सदा यच्छन्तु मह्यं हृदि पूर्ववाञ्छितम् ॥४१॥ नगेन्द्रजा पार्वती च अपर्णा शिवरागिणी । गणेशजननी देवि शैलपुत्री सदावतु ॥४२॥ शिवा शिवप्रिया चैकवीरा योगीन्द्रपूजिता । कैलाशवासिनी देवी शैलजा परिरक्षतु ॥४३॥ ब्रह्मरूपा च वेदज्ञा श्रुतिसङ्घातकारिणी । सावित्री ब्रह्मविद्या सा परमा प्रकृति परा ॥४४॥ पराविद्यां परावाणीं परध्यानैकगामिनीम् । अक्षमालाङ्कुशधरां नमामि ब्रह्मचारिणीम् ॥४५॥ शब्दब्रह्ममयी देवी ह्यक्षरा रावकारिणी । ॐकारेशी चतुर्वाणी चतुर्दिङ्कीर्तिविस्तरा ॥४६॥ चन्द्रघण्टां स्वयंशब्दां दैत्यकर्णविदारिणीम् । पूर्णेन्दुसमसौम्यां तां सर्वदां प्रणमाम्यहम् ॥४७॥ असङ्ख्यकोटिब्रह्माण्डसम्भूतिस्थितिकारिणी । कूष्माण्डा सा महामाया सर्वदा सुप्रसीदतु ॥४८॥ स्वोदरे विश्वमखिलं धारयन्तीं तु सर्वदा । विना श्रमेण वन्दे तां कूष्माण्डां विश्वधारिणीम् ॥४९॥ महासेनस्य जननी देवसैन्यप्रकाशिनी । सिंहारूढा विशालाक्षी सा नश्येद्दुरितं मम ॥५०॥ बालग्रहाभिभूतानां सर्वोपद्रवनाशिकाम् । सर्वाभीष्टप्रदां देवीं नमामि शम्भुवल्लभाम् ॥५१॥ मूलाधारस्थिते पद्मे चतुर्वर्णसमाश्रिता । कात्यायनी योगगम्या कल्याणं विदधातु मे ॥५२॥ मृगेन्द्रासनमारूढा कात्यायनतनूद्भवा । सर्वभूतनियन्त्री सा सर्वदा वरदा भवेत् ॥५३॥ गर्दभासनसंरूढा मुक्तकेशी महोदरी । चर्मशाटीं समावृत्य क्वचिद्वस्त्रैर्निरावृता ॥५४॥ कालस्य हारिणी भूतद्राविणी विकटानना । अजेया कालरात्रिः सर्वाशुभेभ्योऽभिरक्षतु ॥५५॥ वृषारूढा शशाङ्काङ्गा त्रिनेत्रा श्वेतवाससा । मन्दारपुष्पसम्पूज्या शूलटङ्कधरा शिवा ॥५६॥ महागौरीति सा ज्ञेया पूज्या कैवल्यदायिनी । विभ्रतीं ज्ञानमुद्राञ्च दासिष्ट ज्ञाननिर्मलम् ॥५७॥ चक्रेश्वरी राजविद्या गुह्या गोप्या सरस्वती । विबुधैर्वन्दिता दिव्यमाल्याम्बरधरा प्रिया ॥५८॥ योगीन्द्रवृन्दसंसेव्यां सर्वाभीष्टैकदायिनीम् । सर्वलोकस्तुतां सिद्धिदात्रीं तां प्रणमाम्यहम् ॥५९॥ निग्रह उवाच । इमां सर्वेश्वरीं विद्यां योऽधीते प्रत्यहं नरः । सर्वैश्वर्यमवाप्नोत्ययुतावृत्तिर्यदि कृता ॥६०॥ गुरुपुष्ये रविपुष्येऽमायां वापि निशागते । शक्तिपीठे सिद्धपीठे नवरात्रे विशेषतः ॥६१॥ प्राप्नोति द्रविणं ज्ञानं सन्ततिं प्रेयसीं तथा । अथवा मुक्तिमाप्नोति निष्कामो यदि सम्पठेत् ॥६२॥ अभिजिदुवाच । भवताराधिता कस्मिन् शैले सा निग्रहेश्वरी । किं रहस्यं तथा नाम वर्म सर्वं वदस्व मे ॥ अभिजित् ने कहा - आपके द्वारा वह निग्रहेश्वरी देवी किस पर्वत में पूजिता हुईं, उनका रहस्य, नाम, कवच आदि सब मुझे कहें । निग्रह उवाच । ददात्युमङ्गं भक्ताय शोकतापविनाशनम् । तस्माज्जनैरुमङ्गेति प्रोच्यते परमेश्वरी ॥१॥ अगस्तु भास्करः प्रोक्त उमिति क्रोधवर्जनम् । मार्तण्डयुक्ता चाक्रोधोमगेति कथिता जनैः ॥२॥ शतनामानि वक्ष्यामि शृणुष्व मानवर्षभ । येषां वै पाठमात्रेण सोमङ्गा सम्प्रसीदति ॥३॥ आदौ स्नात्वा धौतवस्त्रं धारयित्वा तु चन्दनम् । नत्वा विघ्नेश्वरं सूर्यं स्वगुरुं भैरवं शिवम् ॥४॥ ततो वै कार्यसिद्ध्यर्थे निशामध्ये समागते । उमङ्गाशैलमारुह्य पूजयेदुमगेश्वरीम् ॥५॥ अष्टादशैः षोडशैर्वा दशैः पञ्चैस्तुमानसैः । यथालब्धोपचारैश्च सत्त्वभावेन पूजयेत् ॥६॥ रुद्राक्षमालया रक्तचन्दनेनास्थिमालया । जपेच्चैव मूलमन्त्रमभावे मणिमालया ॥७॥ कृत्वा न्यासविधानन्तु मूलमन्त्रेण साधकः । ध्यानं कुर्यान्महाबाहो भक्तियुक्तेन चेतसा ॥८॥ रक्ताम्बरधरा देवी रक्ता सिंहेन्द्रवाहना । मार्तण्डभैरवयुता शिलाधोभागमाश्रिता ॥९॥ उमङ्गाशैलनिलया महामहिषघातिनी । मगविप्रैः सदा सेव्या भैरवेन्द्रेण पूजिता ॥१०॥ सर्वसिद्धिकरी भक्तभोगमोक्षफलप्रदा । देवस्तुता जगन्माता शिवाङ्का चोमगेश्वरी ॥११॥ शिवाराध्या शिवा सर्वेश्वरी सद्भिः सदा स्तुता । एवं ध्यात्वाऽनन्यचित्तो भूत्वा चाभीष्टसिद्धये ॥१२॥ पुण्यानि शतनामानि मध्यगत्या तु सम्पठेत् । जगत्यप्रकाशितानि निग्रहेण मया शृणु ॥१३॥ अथ शतनामानि । ॐ उमङ्गा उमगेशानी मातृका योगिनी परा । श्रीविद्या कण्ठनिलया सर्वदेवनमस्कृता ॥१४॥ शिवा शिवप्रिया तारा शिवपर्यङ्कशायिनी । कपिला विन्ध्यगेहा च उमङ्गेशी शवासना ॥१५॥ महाविद्या महायोनिर्महापाशा महाङ्कुशा । महोदरा महावक्षा महाकेशा महाभुजा ॥१६॥ कमला कमलेशानी शिवाराध्या शिवस्तुता । गणेशजननी विश्वमाता विश्वप्रतिष्ठिता ॥१७॥ विश्वेशा विश्वसाम्राज्ञी विश्वारूढा जयप्रदा । मार्तण्डभैरवयुता बटुकेनाभिरक्षिता ॥१८॥ दाक्षायणी पर्वतेशात्मजा गङ्गानुजा उमा । कौशिकी वसुधा धूमा चोग्रतारा शुचिस्मिता ॥१९॥ भैरवी कालरूपा च दानवव्यूथभेदिनी । वसुधा कालिका कृष्णा रक्तपा विकटानना ॥२०॥ रक्तवस्त्रा पीतवस्त्रा शुभ्रवस्त्रा शुभानना । शिवारूढा शवारूढा सिंहारूढा तथाम्बिका ॥२१॥ सर्वाशा चैव सर्वेशा सृष्टिस्थित्यन्तकारिणी । अनेका चैकरूपा च ब्रह्मविष्णुशिवानुता ॥२२॥ अशोकसुन्दरीमाता स्कन्दमाता बलान्विता । एकास्या च षडास्या च सहस्रास्यामितानना ॥२३॥ महिषान्तकरी चन्द्रघण्टा चन्द्रमुखी शुभा । चन्द्रकान्तियुता सौम्या चन्द्रशेखरवल्लभा ॥२४॥ ऐलस्तुता महागौरी शाङ्करी पन्नगेश्वरी । भद्रकाली महाकाली कालकाली तथाद्भुता ॥२५॥ महाकालप्रियाशेषा सगुणा निर्गुणामला । श्मशानेशी जगन्माता जगदानन्दकारिणी ॥२६॥ गुह्यस्थिता महातेजा भैरवेन्द्रवरप्रदा । वेतालप्रेतडाकिन्यादिभिः पूज्येति कीर्तिता ॥२७॥ निग्रह उवाच । राज्यं धनं तथा पुत्रं कलत्रं रोगनाशनम् । यच्चिन्तितं जनैर्नामपाठमात्रेण लभ्यते ॥२८॥ पठित्त्वेतानि नामानि दिव्यानि नियतात्मनः । वर्मपाठेन संसिद्धिर्निर्भयो जायते नरः ॥२९॥ ततो रक्षाविधानाय सुस्पष्टोच्चारणेन च । प्रपठेत् कवचं देव्यास्ततो भीतिर्न जायते ॥३०॥ अभिजिदुवाच । कवचं कीदृशं देव्या महाभयविनाशकम् । कृपया विप्रशार्दूल उमङ्गाया वदस्व मे ॥३१॥ निग्रह उवाच । अथाहं सम्प्रवक्ष्यामि कवचं महदद्भुतम् । उमङ्गेशीमहादेव्या नास्ति यज्जगति श्रुतम् ॥३२॥ अथ कवचम् । अमरा पातु शीर्षे मां जित्वरा केशकर्दमे । ललाटे पातु मां नित्यं त्रिपुरारीश्वरप्रिया ॥३३॥ नेत्रे रक्षतु मेऽजेया भ्रूयुगे गिरिजा तथा । उमङ्गा नासिकायाञ्च कर्णौ श्रीजगदम्बिका ॥३४॥ कपोले पातु मां चण्डमुण्डशीर्षापहारिणी । मुखे दन्ते च जिह्वायां सर्वदा कमलानना ॥३५॥ सावित्री सर्वदा रक्षेत्कण्ठदेशे समाश्रिता । ग्रीवायामादिप्रकृतिर्हृदये त्रिगुणात्मिका ॥३६॥ सन्ध्या कुक्षौ तथा स्कन्धौ पङ्कजायतलोचना । देवेन्द्रवन्दिता देवी बाहू मे पातु सर्वदा ॥३७॥ करौ रक्षतु इन्द्राणी अङ्गुल्यग्रं पतिव्रता । देवहूतिः सदा रक्षेदुदरं करुणामयी ॥३८॥ अपर्णा मे कटिं पातु पृष्ठमर्चिस्तु सर्वदा । वसुन्धरा तथा नाभिं लिङ्गं सा विश्वमोहिनी ॥३९॥ रक्षेदुन्मादयन्ती मे गुदं मेढ्रञ्च भास्वरा । उरू च जानुनी पातु श्रीप्रदा विष्णुवल्लभा ॥४०॥ जङ्घे मे पातु देवेशी गुल्फौ पातु तथादितिः । प्रसूतिः पातु मे पादौ पादान्ते च सरस्वती ॥४१॥ लोहितं पातु मे रक्तबीजशोणितपायिनी । नखान् रक्षतु गायत्री चानुसूया सदा त्वचम् ॥४२॥ अन्तःस्थितान्तथान्याङ्गान्त्रिपुरासुरनाशिनी । त्रिपुरा त्रिपुरेशी च दशदिक्षु प्रपातु माम् ॥४३॥ रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् । सर्वदा सर्वतः सर्वं पातु मां सोमगेश्वरी ॥४४॥ निग्रह उवाच । इति ते कथितं वत्स कवचञ्चेदमद्भुतम् । न वै देयमशिष्याय गोपनीयं प्रयत्नतः ॥४५॥ महाभयेऽथवा युद्धे विषे चाग्नौ जलोद्भवे । राजदण्डे तथाकाले वने वा हिंस्रजन्तुषु ॥४६॥ दशावृत्तिकृतं वर्म नूनं रक्षति पाठकम् । निर्भयो जायते मर्त्य उमङ्गायाः कृपान्वितः ॥४७॥ ऐलेन बुधपुत्रेण पुरा शैले प्रतिष्ठिता । कालान्तरे साधकैश्च भैरवेन्द्रादिभिस्तथा ॥४८॥ तस्मात्तां पूजयेदम्बां सर्वलोकेश्वरेश्वरीम् । शक्तिपूजां विना कोऽपि न किञ्चित्कर्तुमर्हति ॥४९॥ शक्तियुक्तो महेशश्च शक्तियुक्तश्च केशवः । ब्रह्मा शक्तियुतो भूत्वा स्वकर्मगतिमान् भवेत् ॥५०॥ ॥ इति श्रीनिग्रहाचार्येण प्रकाशिता निग्रहागमसम्मतागस्त्यप्रोक्तेषु शक्तिसूत्रेषु सृष्टिभाष्यान्तर्गता सर्वेश्वरीविद्या सम्पूर्णा ॥ N/A References : N/A Last Updated : December 02, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP