संस्कृत सूची|
संस्कृत साहित्य|
कवच|
ॐ अस्य श्रीरामदुर्गस्तोत्...
श्रीरामदुर्गस्तोत्रम् - ॐ अस्य श्रीरामदुर्गस्तोत्...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
ॐ अस्य श्रीरामदुर्गस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छन्दः, श्रीरामोदेवता, रां बीजं, नमः शक्तिः, रामाय कीलकं, श्री सीताराम प्रीत्यर्थे पाठे विनियोगः ॥
अथ ऋष्यादि न्यासः । ॐ विश्वमित्रऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीरामो देवतायै नमः हृदि । रां बीजाय नमः गुह्ये । नमः शक्तये नमः पादयोः । रामायेति कीलकाय नमः नाभौ । ॐ हुं फट् स्वाहा इति दिग्बन्धः ॥
अथ करन्यासः । रां अङ्गुष्ठाभ्यां नमः । रां तर्जनीभ्यां नमः । मां मध्यमाभ्यां नमः । यं अनामिकाभ्यां नमः । नं कनिष्ठिकाभ्यां नमः । मः करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादि न्यासः । रां हृदयाय नमः । रां शिरसे स्वाहा । मां शिखायै वषट् । यं कवचाय हुं । नं नेत्राभ्यां वौषट् । मः अस्त्राय फट् । श्रीरामदुर्गं पठेद् भक्त्या सर्वोपद्रव नाशनम् ॥
ॐ श्रीरामो रक्षेन्मां प्राच्यां रक्षेद्याम्यातु लक्ष्मणः । प्रतीच्यां भरतो रक्षेदुदीच्यां शत्रुमर्दनः ॥१॥
ऐशान्यां जानकी रक्षेदाग्नेयां रविनन्दनः । बिभीषणस्तु नैरृत्यां वायव्यां वायुनन्दनः ॥२॥
ऊर्ध्वं रक्षेन्महाविष्णुर्मध्यं पातु नृकेशरी । अधस्तु वामनः पातु सर्वतः पातु केशवः ॥३॥
सर्वदा कपिसेनाद्याः सर्वमर्कटनायकाः । चतुर्द्वारं सदा रक्षेच्चतुर्भिः कपिपुङ्गवैः ॥४॥
श्रीरामाख्यं महादुर्गं विश्वामित्रकृतं शुभम् । यः स्मरेद् भयकाले तु सर्वशत्रुविनाशनम् ॥५॥ (यः पठेद्)
रामदुर्गं पठेद्भक्त्या सर्वोपद्रवनाशनम् । सर्वसम्पद्प्रदं नृणां स गच्छेद्वैष्णवं पदम् ॥६॥ (सर्व सम्पत्करं)
इति श्रीरामदुर्गस्तोत्रं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP