संस्कृत सूची|संस्कृत साहित्य|कवच|
सदाशिव ऋषिर्देवि उष्णिक्छ...

महाविद्याकवचम् - सदाशिव ऋषिर्देवि उष्णिक्छ...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

सदाशिव ऋषिर्देवि उष्णिक्छन्दः उदीरितम् । विनियोगश्च देवेशि सततं मन्त्रसिद्धये ॥१॥
मस्तकं पार्वतीपातु पातु पञ्चाननप्रिया । केशं मुखं पातु चण्डी भारती रुधिरप्रिया ॥२॥
कण्ठं पातु स्तनं पातु कपालं पातु चैव हि । काली करालवदना विचित्राचित्रघण्टिनी ॥३॥
वक्षःस्थलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी । दक्षहस्तं पातु तारा सर्वाङ्गी सव्यमेव च ॥४॥
विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी । हृत्पद्मं कालिका पातु कण्ठं पातु नभोगतम् ॥५॥  var  उग्रतारा नभोगतम्
नारायणी गुह्यदेशं मेढ्रं मेढ्रेश्वरी तथा । पादयुग्मं जया पातु सुन्दरी चाङ्गुलीषु च ॥६॥
षट्पद्मवासिनी पातु सर्वपद्मं निरन्तरम् । इडा च प्ङ्गला पातु सुषुम्ना पातु सर्वदा ॥७॥
धनं धनेश्वरी पातु अन्नपूर्णा सदावतु । राज्यं राज्येश्वरी पातु नित्यं मां चण्डिकाऽवतु ॥८॥
जीवं मां पार्वती सम्पातु मातङ्गी पातु सर्वदा । छिन्ना धूमा च भीमा च भये पातु जले वने ॥९॥
कौमारी चैव वाराही नारसिंही यशो मम । पातु नित्यं भद्रकाली श्मशानालयवासिनी ॥१०॥
उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला । जगन्माता जयं पातु नित्यं कैलासवासिनी ॥११॥
शिवप्रिया सुतं पातु सुतां पर्वतनन्दिनी । त्रैलोक्यं पातु बगला भुवनं भुवनेश्वरी ॥१२॥
सर्वाङ्गं पातु विजया पातु नित्यञ्च पार्वती ।  var  सर्वाङ्गं सर्व निलया चामुण्डा पातु मे रोमकूपं सर्वार्थसाधिनी ॥१३॥
ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा । लिङ्गं लिङ्गेश्वरी पातु महापीठे महेश्वरी ॥१४॥
सदाशिवप्रिया पातु नित्यं पातु सुरेश्वरी । गौरी मे सन्धिदेशञ्च पातु वै त्रिपुरेश्वरी ॥१५॥
सुरेश्वरी सदा पातु श्मशाने च शवेऽवतु । कुम्भके रेचके चैव पूरके काममन्दिरे ॥१६॥
कामाख्या कामनिलयं पातु दुर्गा महेश्वरी । डाकिनी काकिनी पातु नित्यं च शाकिनी तथा ॥१७॥
हाकिनी लाकिनी पातु राकिनी पातु सर्वदा । ज्वालामुखी सदा पातु मुख्यमध्ये शिवाऽवतु ॥१८॥
तारिणी विभवे पातु भवानी च भवेऽवतु । त्रैलोक्यमोहिनी पातु सर्वाङ्गं विजयाऽवतु ॥१९॥
राजकुले महाद्युते सङ्ग्रामे शत्रुसङ्कटे । प्रचण्डा साधकं माञ्च पातु भैरवमोहिनी ॥२०॥
श्रीराजमोहिनी पातु राजद्वारे विपत्तिषु । सम्पद्प्रदा भैरवी च पातु बाल बलं मम ॥२१॥
नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका ।
इत्येवं कथितं रहस्यं सर्वकालिकम् ॥२२॥
भक्तिदं मुक्तिदं सौख्यं सर्व सम्पत्प्रदायकम् । यः पठेत् प्रातरुत्थाय साधकेन्द्रो भवेद्भुवि ॥२३॥
कुजवारे चतुर्दश्याममायां मन्दवासरे । यः पठेत् मानवो भक्त्या स याति शिव मन्दिरम् ॥२४॥
गुरौ गुरुं समभ्यर्च्य यः पठेत्साधकोत्तमः । स याति भवनं देव्याः सत्यं सत्यं न संशयः ॥२५॥
एवं यदि वरारोहे पठेद्भक्ति परायणः । मन्त्रसिद्धिर्भवेत्तस्य चाचिरान्नात्र संशयः ॥२६॥
सत्यं लक्षपुरश्चर्याफलं प्राप्य शिवां यजेत् । राजमार्गं शिवमार्गं प्राप्य जीवः शिवो भवेत् ॥२७॥
पठित्वा कवचं स्तोत्रं मुक्तिमाप्नोति निश्चितम् । पठित्वा कवचं स्तोत्रं दशविद्यां यजेद्यदि । विद्यासिद्धिर्मन्त्रसिद्धिर्भवत्येव न संशयः ॥२८॥
तदैव ताम्बुलैः सिद्धिर्जायते नात्र संशयः । अशवसिद्धिश्चितासिद्धिर्दुर्लभा धरणीतले ॥२९॥
अयत्नसुभगा सिद्धिस्ताम्बूलान्नात्र संशयः । निशामुखे निशायाञ्च महाकाले निशान्तके । पठेद्भक्त्या महेशानि गाणपत्यं लभेत् सः ॥३०॥
इति श्रीमुण्डमालातन्त्रे दशमपटले पार्वतीश्वरसंवादे मन्त्रसिद्धिस्तोत्रं कवचं अथवा महाविद्याकवचं सम्पूर्णम् ॥

N/A

References : N/A
Last Updated : December 01, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP