संस्कृत सूची|संस्कृत साहित्य|कवच|
शुकं प्रति ब्रह्मोवाच महा...

श्रीलक्ष्मीकवचम् - शुकं प्रति ब्रह्मोवाच महा...

देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते. 

शुकं प्रति ब्रह्मोवाच महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् । सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥१॥
ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् । दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥२॥
पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् । चोरारिहं च जपतां अखिलेप्सितदायकम् ॥३॥
सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम । अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥४॥
धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् । सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥५॥
क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे । तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम् ॥६॥
सुस्नातां पुष्पसुरभिकुटिलालकबन्धनाम् । पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम् ॥७॥
इन्दीवरेक्षणां कामकोदण्डभ्रुवमीश्वरीम् । तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रियम् ॥८॥
कुन्दकुड्मलदन्तालिं बन्धूकाधरपल्लवाम् । दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् ॥९॥
रत्नताटङ्ककलितकर्णद्वितयसुन्दराम् । माङ्गल्याभरणोपेतां कम्बुकण्ठीं जगत्प्रियाम् ॥१०॥
तारहारिमनोहारिकुचकुम्भविभूषिताम् । रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् ॥११॥
कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् । रोमराजिकलाचारुभुग्ननाभितलोदरीम् ॥१२॥
पत्तवस्त्रसमुद्भासिसुनितंबादिलक्षणाम् । काञ्चनस्तम्भविभ्राजद्वरजानूरुशोभिताम् ॥१३॥
स्मरकाह्लिकागर्वहारिजंभां हरिप्रियाम् । कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम् ॥१४॥
पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रियम् । सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥१५॥
पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियाम् । नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥१६॥
सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् । परब्रह्ममयां देवीं पद्मनाभकुटुंबिनीम् । एवं ध्यात्वा महालक्ष्मीं पठेत् तत्कवचं परम् ॥१७॥
ध्यानम् । एकं न्यंच्यनतिक्षमं ममपरं चाकुंच्यपदांबुजं मध्ये विष्टरपुण्डरीकमभयं विन्यस्तहस्ताम्बुजम् । त्वां पश्येम निषेदुषीमनुकलंकारुण्यकूलंकष- स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम् ॥१८॥
अथ कवचम् । महालक्ष्मीः शिरः पातु ललाटं मम पङ्कजा । कर्णे रक्षेद्रमा पातु नयने नलिनालया ॥१९॥
नासिकामवतादंबा वाचं वाग्रूपिणी मम । दन्तानवतु जिह्वां श्रीरधरोष्ठं हरिप्रिया ॥२०॥
चुबुकं पातु वरदा गलं गन्धर्वसेविता । वक्षः कुक्षिं करौ पायूं पृष्ठमव्याद्रमा स्वयम् ॥२१॥
कटिमूरुद्वयं जानु जघं पातु रमा मम । सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी ॥२२॥
सप्तधातून् स्वयं चापि रक्तं शुक्रं मनो मम । ज्ञानं बुद्धिं महोत्साहं सर्वं  मे पातु पङ्कजा ॥२३॥
मया कृतं च यत्किञ्चित्तत्सर्वं पातु सेन्दिरा । ममायुरवतात् लक्ष्मीः भार्यां पुत्रांश्च पुत्रिका ॥२४॥
मित्राणि पातु सततमखिलानि  हरिप्रिया । पातकं नाशयेत् लक्ष्मीः महारिष्टं हरेद्रमा ॥२५॥
ममारिनाशनार्थाय मायामृत्युं जयेद्बलम् । सर्वाभीष्टं तु मे दद्यात् पातु मां कमलालया॥ २६॥
फलश्रुतिः । य इदं कवचं दिव्यं रमात्मा प्रयतः पठेत् । सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम्  ॥२७॥
दीर्घायुष्मान् भवेन्नित्यं सर्वसौभाग्यकल्पकम् । सर्वज्ञः सर्वदर्शी च सुखदश्च शुभोज्ज्वलः ॥२८॥
सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः । तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम् ॥२९॥
नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते । भूतप्रेतपिशाचाद्याः संत्रस्ता यान्ति दूरतः ॥३०॥
लिखित्वा स्थापयेद्यत्र तत्र सिद्धिर्भवेत् ध्रुवम् । नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत् ॥३१॥
आयुष्यं पौष्टिकं मेध्यं धान्यं दुःस्वप्ननाशनम् । प्रजाकरं पवित्रं च दुर्भिक्षर्तिविनाशनम् ॥३२॥
चित्तप्रसादजननं महामृत्युप्रशान्तिदम्  । महारोगज्वरहरं ब्रह्महत्यादिशोधनम् ॥३३॥
महाधनप्रदं चैव पठितव्यं सुखार्थिभिः । धनार्थी धनमाप्नोति विवहार्थी लभेद्वधूम् ॥३४॥
विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम् । राज्यार्थी  राज्यमाप्नोति सत्यमुक्तं  मया शुक ॥३५॥
एतद्देव्याःप्रसादेन शुकः कवचमाप्तवान् । कवचानुग्रहेणैव सर्वान् कामानवाप सः ॥३६॥
   इति लक्ष्मीकवचं ब्रह्मस्तोत्रं समाप्तम् ।

N/A

References : N/A
Last Updated : December 02, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP