संस्कृत सूची|
संस्कृत साहित्य|
कवच|
श्रीगणेशाय नमः । गुहागरस...
श्रीव्याडेश्वरकृपाकवचम् - श्रीगणेशाय नमः । गुहागरस...
देवी देवता कवच शारीरिक आणि मानसिक सुरक्षा देते, नकारात्मक शक्ती आणि संकटांपासून वाचवते.
श्रीगणेशाय नमः । गुहागरस्थितः साक्षान्महाव्याडेश्वरः शिवः । पातु मां सङ्कटात्सत्यं शरणागतवत्सलः ॥१॥
स मामवतु दुर्भिक्षे सुखे दुःखे दिने दिने । परिवारं सदा पातु सदनं त्रिपुरान्तकः ॥२॥
मम चेतश्च बुद्धिं च धूर्जटी पातु मे मनः । वृत्तिं पातु पिनाकी मे व्यवसायं जटाधरः ॥३॥
भूमौ तथा पितृलोके लोकनाथः सदाशिवः । स्वर्गे रक्षतु सर्वेशो महादेवश्च सर्वदा ॥४॥
शीर्षं मे शङ्करः पातु भालं रक्षतु वै भवः । नेत्रौ दृष्टिं नीलकण्ठः श्रुतिं भूतेश्वरस्तथा ॥५॥
भार्गवस्थापितः स्थाणुर्मस्तकं मे सदाऽवतु । घ्राणं मृत्युञ्जयः पातु मुखं कोङ्कणरक्षकः ॥६॥
ओष्ठौ वाणी च जिह्वां च रक्षतां चन्द्रशेखरः । कन्धरामीश्वरः पातु भुजौ पञ्चाननस्तथा ॥७॥
स्कन्धौ महेश्वरः पातु करौ मे शैलजापतिः । हस्तौ रक्षेदाशुतोषो विश्वनाथः कराङ्गुलीः ॥८॥
भस्मधारी करपृष्ठे शूली करतले तथा । हृदयं पातु योगीशः उरो मे पार्वतीप्रियः ॥९॥
जठरं हव्यवाण्नेत्रो नाभिं भक्तमनोगतः । स्मरान्तकः कटी पातु सक्थिनी विमलान्तरः ॥१०॥
गुहग्रामेश्वरः पातु जङ्घे ऊरू च गुह्यकम् । जानुनी स्थाणुरूपेण रक्षेन्मम पुरान्तकः ॥११॥
गुल्फ गुहपिता रक्षेच्चरणौ कुलदैवतम् । सर्वाङ्गाणि विभू रक्षेत् त्वग्रक्षेद्भयनाशनः ॥१२॥
धर्मं मेऽवतु संहर्ता कर्म रक्षेत्पिनाकवान् । पुण्यं मे पातु काशीशो धैर्यं रक्षतु वै हरः ॥१३॥
रुद्रो मे सन्ततिं पातु पशून्पशुपतिस्तथा । वाहनं सर्वगः शम्भुः शीलं त्र्यम्बकवैभवः ॥१४॥
वर्त्म कैलासनाथश्च पातु मे कुलदैवतम् । सम्पदं साम्ब आनन्दं पातु नर्तनपण्डितः ॥१५॥
सर्वस्थानेषु कालेषु रक्षेन्मां गिरिजापतिः । कवचस्मरणेनैव पातु व्याडेश्वरः स्वयम् ॥१६॥
प्रभाते वा प्रदोषे वा दिने रात्र्यां पठेन्नरः । विघ्नानि तस्य नश्येयुः सर्वदा सुखभाग्भवेत् ॥१७॥
अरुणोदयकाले वा जपेद्दीपकसन्निधौ । अमोघं कवचं भूयात्प्रज्ञाङ्कुरप्रवर्तनम् ॥१८॥
अष्टादशेषु लोकेषु रक्षां व्याडेश्वरकृताम् । प्राप्य भक्तो भवेन्नित्यं सदा शिवकृपाङ्कितः ॥१९॥
ध्यायेद्व्याडेश्वरं नित्यं जपेन्नाम शिवस्य च । सद्धर्मकर्मसंयुक्तः सदाचारी सुखी भवेत् ॥२०॥
एतत्तु कवचं श्रद्धाभक्तियुक्तेन चेतसा । दिवाकरकविप्राप्तं हृदयानन्दकारणम् ॥२१॥
इति श्रीअनन्तसुत-श्रीदिवाकरविरचितं श्रीव्याडेश्वरकृपाकवचं सम्पूर्णम् ॥
N/A
References : N/A
Last Updated : December 02, 2025

TOP